अथ अहम् उत्तरम् देव्याः पुनः उक्तः स-सम्भ्रमम् ।
तव स्नेहात् नर-व्याघ्र सौहार्दात् अनुमन्य च ॥ ५-६८-१ ॥
एवम् बहु-विधम् वाच्यः रामः दाशरथिः त्वया ।
यथा माम् आप्नुयात् शीघ्रम् हत्वा रावणम् आहवे ॥ ५-६८-२ ॥
यदि वा मन्यसे वीर वस एक-अहम् अरिम्-दम ।
कस्मिंश्चित् संवृते देशे विश्रान्तः श्वः गमिष्यसि ॥ ५-६८-३ ॥
मम च अपि अल्प-भाग्यायाः साम्निध्यात् तव वानर ।
अस्य शोक-विपाकस्य मुहूर्तम् स्यात् विमोक्षणम् ॥ ५-६८-४ ॥
गते हि त्वयि विक्रान्ते पुनः आगमनाय वै ।
प्राणानाम् अपि सन्देहः मम स्यात् न अत्र संशयः ॥ ५-६८-५ ॥
तव अदर्शन-जः शोकः भूयः माम् परितापयेत् ।
दुःखात् दुःख-पराभूताम् दुर्गताम् दुःख-भागिनीम् ॥ ५-६८-६ ॥
अयम् तु वीर सन्देहः तिष्ठति इव मम अग्रतः ।
सु-महान् त्वत्-सहायेषु हरि-ऋक्षेषु असंशयः ॥ ५-६८-७ ॥
कथम् नु खलु दुष्पारम् तरिष्यन्ति महा-उदधिम् ।
तानि हरि-ऋक्ष-सैन्यानि तौ वा नर-वर-आत्मजौ ॥ ५-६८-८ ॥
त्रयाणाम् एव भूतानाम् सागरस्य अस्य लङ्घने ।
शक्तिः स्यात् वैनतेयस्य वायोः वा तव वा अनघ ॥ ५-६८-९ ॥
तत् अस्मिन् कार्य-नियोगे वीर एवम् दुरतिक्रमे ।
किम् पश्यसि समाधानम् ब्रूहि कार्य-विदाम् वर ॥ ५-६८-१० ॥
कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने ।
पर्याप्तः पर-वीर-घ्न यशस्यः ते बल-उदयः ॥ ५-६८-११ ॥
बलैः समग्रैः यदि माम् हत्वा रावणम् आहवे ।
विजयी स्वाम् पुरीम् रामः नयेत् तत् स्यात् यशः-करम् ॥ ५-६८-१२ ॥
यथा अहम् तस्य वीरस्य वनात् उपधिना हृता ।
रक्षसा तत् भयात् एव तथा न अर्हति राघवः ॥ ५-६८-१३ ॥
बलैः तु सङ्कुलाम् कृत्वा लङ्काम् पर-बल-अर्दनः ।
माम् नयेत् यदि काकुत्स्थः तत् तस्य सदृशम् भवेत् ॥ ५-६८-१४ ॥
तत् यथा तस्य विक्रान्तम् अनुरूपम् महा-आत्मनः ।
भवति आहव-शूरस्य तथा त्वम् उपपादय ॥ ५-६८-१५ ॥
तत्-अर्थ-उपहितम् वाक्यम् प्रश्रितम् हेतु-संहितम् ।
निशम्य अहम् ततः शेषम् वाक्यम् उत्तरम् अब्रुवम् ॥ ५-६८-१६ ॥
देवि हरि-ऋक्ष-सैन्यानाम् ईश्वरः प्लवताम् वरः ।
सुग्रीवः सत्त्व-सम्पन्नः तव अर्थे कृत-निश्चयः ॥ ५-६८-१७ ॥
तस्य विक्रम-सम्पन्नाः सत्त्ववन्तः महा-बलाः ।
मनः-संकल्प-सम्पाताः निदेशे हरयः स्थिताः ॥ ५-६८-१८ ॥
येषाम् न उपरि न अधस्तात् न तिर्यक् सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्सु अमित-तेजसः ॥ ५-६८-१९ ॥
असकृत् तैः महा-भागैः वानरैः बल-सम्युतैः ।
प्रदक्षिणी-कृता भूमिः वायु-मार्ग-अनुसारिभिः ॥ ५-६८-२० ॥
मत्-विशिष्टाः च तुल्याः च सन्ति तत्र वन-ओकसः ।
मत्तः प्रत्यवरः कश्चित् न अस्ति सुग्रीव-सन्निधौ ॥ ५-६८-२१ ॥
अहम् तावत् इह प्राप्तः किम् पुनः ते महा-बलाः ।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः ॥ ५-६८-२२ ॥
तत् अलम् परितापेन देवि मन्युः व्यपैतु ते ।
एक-उत्पातेन ते लङ्काम् एष्यन्ति हरि-यूथपाः ॥ ५-६८-२३ ॥
मम पृष्ठ-गतौ तौ च चन्द्र-सूर्यौ इव उदितौ ।
त्वत्-सकाशम् महा-भागे नृ-सिंहौ आगमिष्यतः ॥ ५-६८-२४ ॥
अरि-घ्नम् सिंह-सङ्काशम् क्षिप्रम् द्रक्ष्यसि राघवम् ।
लक्ष्मणम् च धनुः-पाणिम् लङ्का-द्वारम् उपस्थितम् ॥ ५-६८-२५ ॥
नख-दंष्ट्र-आयुधान् वीरान् सिंह-शार्दूल-विक्रमान् ।
वानरान् वानर-इन्द्र-आभान् क्षिप्रम् द्रक्ष्यसि सङ्गतान् ॥ ५-६८-२६ ॥
शैल-अम्बुद-निकाशानाम् लङ्का-मलय-सानुषु ।
नर्दताम् कपि-मुख्यानाम् अचिरात् श्रोष्यसि स्वनम् ॥ ५-६८-२७ ॥
निवृत्त-वन-वासम् च त्वया सार्धम् अरिम्-दमम् ।
अभिषिक्तम् अयोध्यायाम् क्षिप्रम् द्रक्ष्यसि राघवम् ॥ ५-६८-२८ ॥
ततः मया वाग्भिः अ-दीन-भाषिणी ।
शिवाभिः इष्टाभिः अभिप्रसादिता ।
जगाम शान्तिम् मम मैथिली-आत्मजा ।
तव अपि शोकेन तथा अभिपीडिता ॥ ५-६८-२९ ॥
इति आर्षे श्रीमद्-रामायणे आदि-काव्ये सुन्दर-काण्डे अष्ट-षष्टितमः सर्गः ॥


No comments:
Post a Comment