Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 29 - சீதை நற்சகுனங்களைக் காண்கிறாள்.

HOME          PREVIOUS               NEXT

तथा-आगतां तां व्यथिताम् अनिन्दिताम् व्यपेत-हर्षां परिदीन-मानसाम् ।
शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टम् इव उपजीविनः ॥ 1 ॥

तस्याः शुभं वामम् अराल-पक्ष्म राजी-वृतं कृष्ण-विशाल-शुक्लम् ।
प्रास्पन्दत् एकं नयनं सुकेश्याः मीना-आहतं पद्मम् इव अभिताम्रम् ॥ 2 ॥

भुजः च चारु-अञ्चित-पीन-वृत्तः परार्थ्य-कालागुरु-चन्दन-अर्हः ।
अनुत्तमेन अध्युषितः प्रियेण चिरेण वामः समवेपत आशु ॥ 3 ॥

गज-इन्द्र-हस्त-प्रतिमः च पीनः तयोः द्वयोः संहतयोः सुजातः ।
प्रस्पन्दमानः पुनः ऊरुः अस्याः रामं पुरस्तात् स्थितम् आचचक्षे ॥ 4 ॥

शुभं पुनः हेम-समान-वर्णम् ईषत् रजः-ध्वस्तम् इव अमलाक्ष्याः ।
वासः स्थितायाः शिखर-अग्र-दन्त्याः किंचित् परिस्रंसत् चारु-गात्र्याः ॥ 5 ॥

एतैः निमित्तैः अपरैः च सुभ्रूः संबोधिता प्राक् अपि साधु सिद्धैः ।
वात-आतप-क्लान्तम् इव प्रणष्टं वर्षेण बीजं प्रतिसंजहर्ष ॥ 6 ॥

तस्याः पुनः बिम्ब-फल-अधर-ओष्ठं स्वक्षि-भ्रु-केश-अन्त-मराल-पक्ष्म ।
वक्त्रं बभासे सित-शुक्ल-दंष्ट्रं राहोः मुखात् चन्द्रः इव प्रमुक्तः ॥ 7 ॥

सा वीत-शोका व्यपनीत-तन्द्री शान्त-ज्वरा हर्ष-विबुद्ध-सत्त्वा ।
अशोभत आर्या वदनेन शुक्ले शीतांशुना रात्रिः इव उदितेन ॥ 8 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एकोनत्रिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: