Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 31 - அனுமன் இராமனின் வரலாற்றைப் பாடுகிறார்.

HOME          PREVIOUS               NEXT

एवं बहु-विधां चिन्तां चिन्तयित्वा महा-कपिः ।
संश्रवे मधुरं वाक्यं वैदेह्याः व्याजहार ह ॥ 1 ॥

राजा दशरथः नाम रथ-कुञ्जर-वाजि-मान् ।
पुण्य-शीलः महा-कीर्तिः इक्ष्वाकूणां महा-यशाः ॥ 2 ॥

राजर्षीणां गुण-श्रेष्ठः तपसा च ऋषिभिः समः ।
चक्रवर्ति-कुले जातः पुरन्दर-समः बले ॥ 3 ॥

अहिंसा-रतिः अक्षुद्रः घृणी सत्य-पराक्रमः ।
मुख्यः च इक्ष्वाकु-वंशस्य लक्ष्मीवान् लक्ष्मी-वर्धनः ॥ 4 ॥

पार्थिव-व्यञ्जनैः युक्तः पृथु-श्रीः पार्थिव-ऋषभः ।
पृथिव्यां चतुर्-अन्तायां विश्रुतः सुख-दः सुखी ॥ 5 ॥

तस्य पुत्रः प्रियः ज्येष्ठः तारा-अधिप-निभ-आननः ।
रामः नाम विशेष-ज्ञः श्रेष्ठः सर्व-धनुष्मताम् ॥ 6 ॥

रक्षिता स्वस्य धर्मस्य स्व-जनस्य च रक्षिता ।
रक्षिता जीव-लोकस्य धर्मस्य च परन्तपः ॥ 7 ॥

तस्य सत्य-अभिसन्धस्य वृद्धस्य वचनात् पितुः ।
स-भार्यः सह च भ्रात्रा वीरः प्रव्राजितः वनम् ॥ 8 ॥

तेन तत्र महा-अरण्ये मृगयां परिधावता ।
राक्षसाः निहताः शूराः बहवः काम-रूपिणः ॥ 9 ॥

जनस्थान-वधं श्रुत्वा हतौ च खर-दूषणौ ।
ततः तु अमर्षात् अपहृता जानकी रावणेन तु ॥ 10 ॥

वञ्चयित्वा वने रामं मृग-रूपेण मायया ।
सः मार्गमाणः तां देवीं रामः सीताम् अनिन्दिताम् ॥ 11 ॥

आससाद वने मित्रं सुग्रीवं नाम वानरम् ।
ततः सः वालिनं हत्वा रामः पर-पुरं-जयः ॥ 12 ॥

प्रायच्छत् कपि-राज्यं तत् सुग्रीवाय महा-बलः ।
सुग्रीवेण अपि सन्दिष्टाः हरयः काम-रूपिणः ॥ 13 ॥

दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।
अहं सम्पाति-वचनात् शत-योजनम् आयतम् ॥ 14 ॥

अस्याः हेतोः विशालाक्ष्याः सागरं वेगवान् प्लुतः ।
यथा-रूपां यथा-वर्णां यथा-लक्ष्मी-वतीं च निश्चिताम् ॥ 15 ॥

अश्रौषं राघवस्य अहं सा इयम् आसादिता मया ।
विरराम एवम् उक्त्वा असौ वाचं वानर-पुङ्गवः ॥ 16 ॥

जानकी च अपि तत् श्रुत्वा परं विस्मयम् आगता ।
ततः सा वक्र-केश-अन्ता सु-केशी केश-संवृतम् ॥ 17 ॥

उन्नम्य वदनं भीरुः शिंशुपा-वृक्षम् ऐक्षत ।
निशम्य सीता वचनं कपेः च दिशः च सर्वाः प्रदिशः च वीक्ष्य ।
स्वयं प्रहर्षं परमं जगाम सर्व-आत्मना रामम् अनुस्मरन्ती ॥ 18 ॥

सा तिर्यक् ऊर्ध्वं च तथा अपि अधस्तात् निरीक्षमाणा तम् अचिन्त्य-बुद्धिम् ।
ददर्श पिङ्ग-अधिपतेः अमात्यं वात-आत्मजं सूर्यं इव उदय-स्थम् ॥ 19 ॥

इति आर्षे श्रीमद्रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एक-त्रिंशः सर्गः ॥

HOME          PREVIOUS               NEXT


No comments: