प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि-पुंगवः ।
गुण-अभिरामम् रामम् च पुनः चिन्ता-परः अभवत् ॥ 1 ॥
स मुहूर्तम् इव ध्यात्वा बाष्प-पर्याकुल-ईक्षणः ।
सीताम् आश्रित्य तेजस्वी हनूमान् विललाप ह ॥ 2 ॥
मान्या गुरु-विनीतस्य लक्ष्मणस्य गुरु-प्रिया ।
यदि सीता अपि दुःख-आर्ता कालः हि दुरतिक्रमः ॥ 3 ॥
रामस्य व्यवसाय-ज्ञा लक्ष्मणस्य च धीमतः ।
न अत्यर्थम् क्षुभ्यते देवी गङ्गा इव जलद-आगमे ॥ 4 ॥
तुल्य-शील-वयः-वृत्ताम् तुल्य-अभिजन-लक्षणाम् ।
राघवः अर्हति वैदेहीम् तम् च इयम् असित-ईक्षणा ॥ 5 ॥
ताम् दृष्ट्वा नव-हेम-आभाम् लोक-कान्ताम् इव श्रियम् ।
जगाम मनसा रामम् वचनम् च इदम् अब्रवीत् ॥ 6 ॥
अस्याः हेतोः विशाल-अक्ष्याः हतः वाली महा-बलः ।
रावण-प्रतिमः वीर्ये कबन्धः च निपातितः ॥ 7 ॥
विराधः च हतः संख्ये राक्षसः भीम-विक्रमः ।
वने रामेण विक्रम्य महा-इन्द्रेण इव शम्बरः ॥ 8 ॥
चतुर्दश सहस्राणि रक्षसाम् भीम-कर्मणाम् ।
निहतानि जन-स्थाने शरैः अग्नि-शिखा-उपमैः ॥ 9 ॥
खरः च निहतः संख्ये त्रिशिराः च निपातितः ।
दूषणः च महा-तेजाः रामेण विदित-आत्मना ॥ 10 ॥
ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि-पालितम् ।
अस्याः निमित्ते सुग्रीवः प्राप्तवान् लोक-सत्कृतम् ॥ 11 ॥
सागरः च मया क्रान्तः श्रीमान् नद-नदी-पतिः ।
अस्याः हेतोः विशाल-अक्ष्याः पुरी च इयम् अवेक्षिता ॥ 12 ॥
यदि रामः समुद्र-अन्ताम् मेदिनीम् परिवर्तयेत् ।
अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः ॥ 13 ॥
राज्यम् वा त्रिषु लोकेषु सीता वा जनक-आत्मजा ।
त्रैलोक्य-राज्यम् सकलम् सीतायाः न आप्नुयात् कलाम् ॥ 14 ॥
इयम् सा धर्म-शीलस्य मैथिलस्य महा-आत्मनः ।
सुता जनक-राजस्य सीता भर्तृ-दृढ-व्रता ॥ 15 ॥
उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल-मुख-क्षते ।
पद्म-रेणु-निभैः कीर्णा शुभैः केदार-पांसुभिः ॥ 16 ॥
विक्रान्तस्य आर्य-शीलस्य संयुगेषु अनिवर्तिनः ।
स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञः यशस्विनी ॥ 17 ॥
धर्म-ज्ञस्य कृत-ज्ञस्य रामस्य विदित-आत्मनः ।
इयम् सा दयिता भार्या राक्षसी-वशम् आगता ॥ 18 ॥
सर्वान् भोगान् परित्यज्य भर्तृ-स्नेह-बलात् कृता ।
अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनम् वनम् ॥ 19 ॥
सन्तुष्टा फल-मूलेन भर्तृ-शुश्रूषणे रता ।
या पराम् भजते प्रीतिम् वने अपि भवने यथा ॥ 20 ॥
सा इयम् कनक-वर्ण-अङ्गी नित्यम् सु-स्मित-भाषिणी ।
सहते यातनाम् एताम् अनर्थानाम् अभागिनी ॥ 21 ॥
इमाम् तु शील-संपन्नाम् द्रष्टुम् अर्हति राघवः ।
रावणेन प्रमथिताम् प्रपाम् इव पिपासितः ॥ 22 ॥
अस्याः नूनम् पुनः-लाभात् राघवः प्रीतिम् एष्यति ।
राजा राज्य-परिभ्रष्टः पुनः प्राप्य इव मेदिनीम् ॥ 23 ॥
काम-भोगैः परित्यक्ता हीना बन्धु-जनेन च ।
धारयति आत्मनः देहम् तत्-समागम-काङ्क्षिणी ॥ 24 ॥
न एषा पश्यति राक्षस्यः न इमान् पुष्प-फल-द्रुमान् ।
एक-स्थ-हृदया नूनम् रामम् एव अनुपश्यति ॥ 25 ॥
भर्ता नाम परम् नार्याः भूषणम् भूषणात् अपि ।
एषा तु रहिता तेन भूषण-अर्हा न शोभते ॥ 26 ॥
दुष्करम् कुरुते रामः हीनः यत् अनया प्रभुः ।
धारयति आत्मनः देहम् न दुःखेन अवसीदति ॥ 27 ॥
इमाम् असित-केश-अन्ताम् शत-पत्र-निभ-ईक्षणाम् ।
सुख-अर्हाम् दुःखिताम् दृष्ट्वा मम अपि व्यथितम् मनः ॥ 28 ॥
क्षति-क्षमा पुष्कर-सन्निभ-अक्षी या रक्षिता राघव-लक्ष्मणाभ्याम् ।
सा राक्षसीभिः विकृत-ईक्षणाभिः संरक्ष्यते संप्रति वृक्ष-मूले ॥ 29 ॥
हिम-हत-नलिनी इव नष्ट-शोभा व्यसन-परंपरया निपीड्यमाना ।
सहचर-रहिता इव चक्रवाकी जनक-सुता कृपणाम् दशाम् प्रपन्ना ॥ 30 ॥
अस्याः हि पुष्प-अवनत-अग्र-शाखाः शोकम् दृढम् वै जनयन्ति अशोकाः ।
हिम-व्यपायेन च शीत-रश्मिः अभ्युत्थितः न एक-सहस्र-रश्मिः ॥ 31 ॥
इति एवम् अर्थम् कपिः अन्ववेक्ष्य सीता इयम् इति एव निविष्ट-बुद्धिः ।
संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणाम् ऋषभः तरस्वी ॥ 32 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे षोडशः सर्गः ॥

No comments:
Post a Comment