Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 32 - அனுமனின் வார்த்தைகளைக் கேட்டு, இது கனவா என்று சீதை எண்ணுகிறாள்.

HOME          PREVIOUS               NEXT

ततः शाखा-अन्तरे लीनं दृष्ट्वा चलित-मानसा ।
वेष्टित-अर्जुन-वस्त्रं तं विद्युत्-संघात-पिङ्गलम् ॥ 1 ॥

सा ददर्श कपिं तत्र प्रश्रितं प्रिय-वादिनम् ।
फुल्ल-अशोक-उत्कर-आभासं तप्त-चामीकर-ईक्षणम् ॥ 2 ॥

मैथिली चिन्तयामास विस्मयं परमं गता ।
अहो भीमम् इदं रूपं वानरस्य दुरासदम् ॥ 3 ॥

दुर्निरीक्षम् इति ज्ञात्वा पुनः एव मुमोह सा ।
विललाप भृशं सीता करुणं भय-मोहिता ॥ 4 ॥

राम राम इति दुःख-आर्ता लक्ष्मण इति च भामिनी ।
रुरोद बहुधा सीता मन्दं मन्द-स्वरा सती ॥ 5 ॥

सा तं दृष्ट्वा हरि-श्रेष्ठं विनीत-वद् उपस्थितम् ।
मैथिली चिन्तयामास स्वप्नः अयम् इति भामिनी ॥ 6 ॥

सा वीक्षमाणा पृथु-भुग्न-वक्त्रं शाखा-मृग-इन्द्रस्य यथा-उक्त-कारम् ।
ददर्श पिङ्ग-अधिपतेः अमात्यं वात-आत्मजं बुद्धि-मतां वरिष्ठम् ॥ 7 ॥

सा तं समीक्ष्य एव भृशं विसंज्ञा गत-असु-कल्पेन बभूव सीता ।
चिरेण संज्ञां प्रतिलभ्य भूयः विचिन्तयामास विशाल-नेत्रा ॥ 8 ॥

स्वप्ने मया अयं विकृतः अद्य दृष्टः शाखा-मृगः शास्त्र-गणैः निषिद्धः ।
स्वस्ति अस्तु रामाय स-लक्ष्मणाय तथा पितुः मे जनकस्य राज्ञः ॥ 9 ॥

स्वप्नः अपि न अयं न हि मे अस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे न अस्ति यतः अस्मि हीना तेन इन्दु-पूर्ण-प्रतिम-आननेन ॥ 10 ॥

राम इति राम इति सदा एव बुद्ध्या विचिन्त्य वाचा ब्रुवती तम् एव ।
तस्य अनुरूपां च कथां तत्-अर्थम् एवं प्रपश्यामि तथा शृणोमि ॥ 11 ॥

अहं हि तस्य अद्य मनो-भवेन सम्पीडिता तत्-गत-सर्व-भावा ।
विचिन्तयन्ती सततं तम् एव तथा एव पश्यामि तथा शृणोमि ॥ 12 ॥

मनोरथः स्यात् इति चिन्तयामि तथा अपि बुद्ध्या च वितर्कयामि ।
किं कारणं तस्य हि न अस्ति रूपं सु-व्यक्त-रूपः च वदति अयं माम् ॥ 13 ॥

नमः अस्तु वाचस्पतये स-वज्रिणे स्वयम्भुवे च एव हुताशनाय च ।
अनेन च उक्तं यत् इदं मम अग्रतः वन-ओकसा तत् च तथा अस्तु न अन्यथा ॥ 14 ॥

इति आर्षे श्रीमद्रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे द्वात्रिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: