स ताम् परिवृताम् दीनाम् निर्-आनन्दाम् तपस्विनीम् ।
स-आकारैः मधुरैः वाक्यैः नि-अदर्शयत रावणः ॥ 1 ॥
माम् दृष्ट्वा नाग-नास-ऊरु गूहमाना स्तन-उदरम् ।
अदर्शनम् इव आत्मानम् भयात् नेतुम् त्वम् इच्छसि ॥ 2 ॥
कामये त्वाम् विशाल-अक्षि बहु मन्यस्व माम् प्रिये ।
सर्व-अङ्ग-गुण-सम्पन्ने सर्व-लोक-मनोहरे ॥ 3 ॥
न इह केचित् मनुष्याः वा राक्षसाः काम-रूपिणः ।
व्यपसर्पतु ते सीते भयम् मत्तः समुत्थितम् ॥ 4 ॥
स्व-धर्मः रक्षसाम् भीरु सर्वथा एव न संशयः ।
गमनम् वा पर-स्त्रीणाम् हरणम् सम्प्रमथ्य वा ॥ 5 ॥
एवम् च एतत् अकामाम् तु न त्वाम् स्प्रक्ष्यामि मैथिलि ।
कामम् कामः शरीरे मे यथा-कामम् प्रवर्तताम् ॥ 6 ॥
देवि न इह भयम् कार्यम् मयि विश्वसिहि प्रिये ।
प्रणयस्व च तत्त्वेन मा एवम् भूः शोक-लालसा ॥ 7 ॥
एक-वेणी धरा-शय्या ध्यानम् मलिनम् अम्बरम् ।
अस्थाने अपि उपवासः च न एतानि औपयिकानि ते ॥ 8 ॥
विचित्राणि च माल्यानि चन्दनानि अगरूणि च ।
विविधानि च वासांसि दिव्यानि आभरणानि च ॥ 9 ॥
महा-अर्हाणि च पानानि शयनानि आसनानि च ।
गीतम् नृत्तम् च वाद्यम् च लभ माम् प्राप्य मैथिलि ॥ 10 ॥
स्त्री-रत्नम् असि मा एवम् भूः कुरु गात्रेषु भूषणम् ।
माम् प्राप्य हि कथम् नु स्वाः त्वम् अनर्हा सु-विग्रहे ॥ 11 ॥
इदम् ते चारु संजातम् यौवनम् व्यतिवर्तते ।
यत् अतीतम् पुनः न एति स्रोतः शीघ्रम् अपाम् इव ॥ 12 ॥
त्वाम् कृत्वा उपरतः मन्ये रूप-कर्ता सः विश्व-सृक् ।
न हि रूप-उपमा त्वत् अन्या तव अस्ति शुभ-दर्शने ॥ 13 ॥
त्वाम् समासाद्य वैदेहि रूप-यौवन-शालिनीम् ।
कः पुमान् अतिवर्तेत साक्षात् अपि पितामहः ॥ 14 ॥
यत् यत् पश्यामि ते गात्रम् शीत-अंशु-सदृश-आनने ।
तस्मिन् तस्मिन् पृथु-श्रोणि चक्षुः मम निबध्यते ॥ 15 ॥
भव मैथिलि भार्या मे मोहम् एनम् विसर्जय ।
बह्वीनाम् उत्तम-स्त्रीणाम् आहृतानाम् इतः ततः ॥ 16 ॥
सर्वासाम् एव भद्रम् ते मम अग्र-महिषी भव ।
लोकेभ्यः यानि रत्नानि सम्प्रमथ्य आहृतानि वै ॥ 17 ॥
तानि मे भीरु सर्वाणि राज्यम् च एतत् अहम् च ते ।
विजित्य पृथिवीम् सर्वाम् नाना-नगर-मालिनीम् ॥ 18 ॥
जनकाय प्रदास्यामि तव हेतोः विलासिनि ।
न इह पश्यामि लोके अन्यम् यः मे प्रति-बलः भवेत् ।
पश्य मे सु-महत् वीर्यम् अप्रति-द्वन्द्वम् आहवे ॥ 19 ॥
असकृत् सं-युगे भग्नाः मया वि-मृदित-ध्वजाः ॥ 20 ॥
अशक्ताः प्रति-अनीकेषु स्थातुम् मम सुर-असुराः ।
इच्छ माम् क्रियताम् अद्य प्रति-कर्म तव उत्तमम् ॥ 21 ॥
स-प्रभाणि अवसज्यन्ताम् तव अङ्गे भूषणानि च ।
साधु पश्यामि ते रूपम् संयुक्तम् प्रति-कर्मणा ॥ 22 ॥
प्रति-कर्म-अभि-संयुक्ता दाक्षिण्येन वर-आनने ।
भुङ्क्ष्व भोगान् यथा-कामम् पिब भीरु रमस्व च ॥ 23 ॥
यथा-इष्टम् च प्रयच्छ त्वम् पृथिवीम् वा धनानि च ।
ललस्व मयि विस्रब्धा धृष्टम् आज्ञापयस्व च ॥ 24 ॥
मत्-प्रसादात् ललन्त्याः च ललन्ताम् बान्धवाः तव ।
ऋद्धिम् मम अनुपश्य त्वम् श्रियम् भद्रे यशः च मे ॥ 25 ॥
किम् करिष्यसि रामेण सुभगे चीर-वाससा ।
निक्षिप्त-विजयः रामः गत-श्रीः वन-गोचरः ॥ 26 ॥
व्रती स्थण्डिल-शायी च शङ्के जीवति वा न वा ।
न हि वैदेहि रामः त्वाम् द्रष्टुम् वा अपि उपलप्स्यते ।
पुरः बलाकैः असितैः मेघैः ज्योत्स्नाम् इव आवृताम् ॥ 27 ॥
न च अपि मम हस्तात् त्वाम् प्राप्तुम् अर्हति राघवः ॥ 28 ॥
हिरण्य-कशिपुः कीर्तिम् इन्द्र-हस्त-गताम् इव ।
चारु-स्मिते चारु-दति चारु-नेत्रे विलासिनि ॥ 29 ॥
मनः हरसि मे भीरु सुपर्णः पन्नगम् यथा ।
क्लिष्ट-कौशेय-वसनाम् तन्वीम् अपि अनलङ्कृताम् ॥ 30 ॥
त्वाम् दृष्ट्वा स्वेषु दारेषु रतिम् न उपलभामि अहम् ।
अन्तःपुर-निवासिन्यः स्त्रियः सर्व-गुण-अन्विताः ॥ 31 ॥
यावन्त्यः मम सर्वासाम् ऐश्वर्यम् कुरु जानकि ।
मम हि असित-केश-अन्ते त्रैलोक्य-प्रवराः स्त्रियः ॥ 32 ॥
ताः त्वाम् परिचरिष्यन्ति श्रियम् अप्सरसः यथा ।
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ॥ 33 ॥
तानि लोकान् च सु-श्रोणि माम् च भुङ्क्ष्व यथा-सुखम् ।
न रामः तपसा देवि न बलेन न विक्रमैः ॥ 34 ॥
न धनेन मया तुल्यः तेजसा यशसा अपि वा ।
पिब विहर रमस्व भुङ्क्ष्व भोगान् धन-निचयम् प्रदिशामि मेदिनीम् च ।
मयि लल ललने यथा-सुखम् त्वम् त्वयि च समेत्य ललन्तु बान्धवाः ते ॥ 35 ॥
कुसुमित-तरु-जाल-सन्ततानि भ्रमर-युतानि समुद्र-तीर-जानि ।
कनक-विमल-हार-भूषित-अङ्गी विहर मया सह भीरु काननानि ॥ 36 ॥
इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे विंशः सर्गः ॥

No comments:
Post a Comment