तस्य तत् वचनम् श्रुत्वा वालि-सूनुः अभाषत ।
अयुक्तम् तु विना देवीम् दृष्ट्वद्भिः च वानराः ॥ ५-६०-१ ॥
समीपम् गन्तुम् अस्माभिः राघवस्य महा-आत्मनः ।
दृष्टा देवी न च आनीता इति तत्र निवेदनम् ॥ ५-६०-२ ॥
अयुक्तम् इव पश्यामि भवद्भिः ख्यात-विक्रमैः ।
न हि वः प्लवते कश्चित् न अपि कश्चित् पराक्रमे ॥ ५-६०-३ ॥
तुल्यः स-अमर-दैत्येषु लोकेषु हरि-सत्तमाः ।
तेषु एवम् हत-वीरेषु राक्षसेषु हनूमता ॥ ५-६०-४ ॥
किम् अन्यत् अत्र कर्तव्यम् गृहीत्वा याम जानकीम् ।
तम् एवम् कृत-सङ्कल्पम् जाम्बवान् हरि-सत्तमः ॥ ५-६०-५ ॥
उवाच परम-प्रीतः वाक्यम् अर्थवत् अर्थ-वित् ।
न तावत् एषा मतिः क्षमा नः ।
यथा भवान् पश्यति राज-पुत्र ॥
यथा तु रामस्य मतिः निविष्टा ।
तथा भवान् पश्यतु कार्य-सिद्धिम् ॥ ५-६०-६ ॥
इति आर्षे श्रीमत्-रामायणे आदि-काव्ये सुन्दर-काण्डे षष्टितमः सर्गः ॥

No comments:
Post a Comment