Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 26 - இலங்கையும் அரக்கியர்களும் அழிந்துபோவார்கள் என்று சீதை எச்சரிக்கிறாள்.


HOME          PREVIOUS               NEXT

प्रसक्त-अश्रु-मुखी इति एवम् ब्रुवन्ती जनक-आत्मजा ।
अधः-गत-मुखी बाला विलप्तुम् उपचक्रमे ॥ 1 ॥

उन्मत्ता इव प्रमत्ता इव भ्रान्त-चित्ता इव शोचती ।
उपावृत्ता किशोरी इव विवेष्टन्ती मही-तले ॥ 2 ॥

राघवस्य प्रमत्तस्य रक्षसा काम-रूपिणा ।
रावणेन प्रमथ्य अहम् आनीता क्रोशती बलात् ॥ 3 ॥

राक्षसी-वशम् आपन्ना भर्त्स्यमाना सु-दारुणम् ।
चिन्तयन्ती सु-दुःख-आर्ता न अहम् जीवितुम् उत्सहे ॥ 4 ॥

न हि मे जीवितेन अर्थः न एव अर्थैः न च भूषणैः ।
वसन्त्या राक्षसी-मध्ये विना रामम् महा-रथम् ॥ 5 ॥

अश्म-सारम् इदम् नूनम् अथवा अपि अजर-अमरम् ।
हृदयम् मम येन इदम् न दुःखेन अवशीर्यते ॥ 6 ॥

धिक् माम् अनार्याम् असतीम् या अहम् तेन विना कृता ।
मुहूर्तम् अपि रक्षामि जीवितम् पाप-जीविता ॥ 7 ॥

का च मे जीविते श्रद्धा सुखे वा तम् प्रियम् विना ।
भर्तारम् सागर-अन्तायाः वसुधायाः प्रिय-वदम् ॥ 8 ॥

भिद्यताम् भक्ष्यताम् वा अपि शरीरम् विसृजामि अहम् ।
न च अपि अहम् चिरम् दुःखम् सहेयम् प्रिय-वर्जिता ॥ 9 ॥

चरणेन अपि सव्येन न स्पृशेयम् निशाचरम् ।
रावणम् किम् पुनः अहम् कामम् एयम् विगर्हितम् ॥ 10 ॥

प्रत्याख्यातम् न जानाति न आत्मानम् न आत्मनः कुलम् ।
यः नृशंस-स्वभावेन माम् प्रार्थयितुम् इच्छति ॥ 11 ॥

छिन्ना भिन्ना विभक्ता वा दीप्ते इव अग्नौ प्रदीपिता ।
रावणम् न उपतिष्ठेयम् किम् प्रलापेन वः चिरम् ॥ 12 ॥

ख्यातः प्राज्ञः कृतज्ञः च स-अनुक्रोशः च राघवः ।
सद्-वृत्तः निर-अनुक्रोशः शङ्के मत्-भाग्य-संक्षयात् ॥ 13 ॥

राक्षसानाम् सहस्राणि जन-स्थाने चतुर्दश ।
येन एकेन निरस्तानि सः माम् किम् न अभिपद्यते ॥ 14 ॥

निरुद्धा रावणेन अहम् अल्प-वीर्येण रक्षसा ।
समर्थः खलु मे भर्ता रावणम् हन्तुम् आहवे ॥ 15 ॥

विराधः दण्डक-अरण्ये येन राक्षस-पुङ्गवः ।
रणे रामेण निहतः सः माम् किम् न अभिपद्यते ॥ 16 ॥

कामम् मध्ये समुद्रस्य लङ्का इयम् दुष्प्रधर्षणा ।
न तु राघव-बाणानाम् गति-रोधः भविष्यति ॥ 17 ॥

किम् नु तत् कारणम् येन रामः दृढ-पराक्रमः ।
रक्षसा अपहृताम् भार्याम् इष्टाम् न अभ्यवपद्यते ॥ 18 ॥

इह-स्थाम् माम् न जानीते शङ्के लक्ष्मण-पूर्वजः ।
जानन् अपि हि तेजस्वी धर्षणम् मर्षयिष्यति ॥ 19 ॥

हृता इति यः अधिगत्वा माम् राघवाय निवेदयेत् ।
गृध्र-राजः अपि सः रणे रावणेन निपातितः ॥ 20 ॥

कृतम् कर्म महत् तेन माम् तथा अभ्यवपद्यता ।
तिष्ठता रावण-द्वन्द्वे वृद्धेन अपि जटायुषा ॥ 21 ॥

यदि माम् इह जानीयात् वर्तमानाम् सः राघवः ।
अद्य बाणैः अभि-क्रुद्धः कुर्यात् लोकम् अ-राक्षसम् ॥ 22 ॥

विधमेत् च पुरीम् लङ्काम् शोषयेत् च महा-उदधिम् ।
रावणस्य च नीचस्य कीर्तिम् नाम च नाशयेत् ॥ 23 ॥

ततः निहत-नाथानाम् राक्षसीनाम् गृहे गृहे ।
यथा अहम् एवम् रुदती तथा भूयः न संशयः ॥ 24 ॥

अन्विष्य रक्षसाम् लङ्काम् कुर्यात् रामः स-लक्ष्मणः ।
न हि ताभ्याम् रिपुः दृष्टः मुहूर्तम् अपि जीवति ॥ 25 ॥

चिता-धूम-आकुल-पथा गृध्र-मण्डल-संकुला ।
अचिरेण तु लङ्का इयम् श्मशान-सदृशी भवेत् ॥ 26 ॥

अचिरेण एव कालेन प्राप्स्यामि एव मनोरथम् ।
दुष्प्रस्थानः अयम् आख्याति सर्वेषाम् वः विपर्ययम् ॥ 27 ॥

यादृशानि इह दृश्यन्ते लङ्कायाम् अशुभानि वै ।
अचिरेण एव कालेन भविष्यति हत-प्रभा ॥ 28 ॥

नूनम् लङ्का हते पापे रावणे राक्षस-अधमे ।
शोषम् यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ 29 ॥

पुण्य-उत्सव-समुत्था च नष्ट-भर्त्री सा राक्षसी ।
भविष्यति पुरी लङ्का नष्ट-भर्त्री यथा अङ्गना ॥ 30 ॥

नूनम् राक्षस-कन्यानाम् रुदन्तीनाम् गृहे गृहे ।
श्रोष्यामि न चिरात् एव दुःख-आर्तानाम् इह ध्वनिम् ॥ 31 ॥

सान्धकारा हत-द्योता हत-राक्षस-पुङ्गवा ।
भविष्यति पुरी लङ्का निर्दग्धा राम-सायकैः ॥ 32 ॥

यदि नाम सः शूरः माम् रामः रक्त-अन्त-लोचनः ।
जानीयात् वर्तमानाम् हि रावणस्य निवेशने ॥ 33 ॥

अनेन तु नृशंसेन रावणेन अधमेन मे ।
समयः यः तु निर्दिष्टः तस्य कालः अयम् आगतः ॥ 34 ॥

सः च मे विहितः मृत्युः अस्मिन् दुष्टे न वर्तते ।
अकार्यं ये न जानन्ति नैरृताः पाप-कारिणः ॥ 35 ॥

अधर्मात् तु महा-उत्पातः भविष्यति हि साम्प्रतम् ।
न एते धर्मम् विजानन्ति राक्षसाः पिशित-आशनाः ॥ 36 ॥

ध्रुवम् माम् प्रातः-आश-अर्थे राक्षसः कल्पयिष्यति ।
सा अहम् कथम् करिष्यामि तम् विना प्रिय-दर्शनम् ॥ 37 ॥

क्षिप्रम् वैवस्वतम् देवम् पश्येयम् पतिना विना ।
न अजानात् जीवतीम् रामः माम् लक्ष्मण-पूर्वजः ॥ 38 ॥

जानन्तौ तौ न कुर्याताम् उभौ हि मम मार्गणम् ।
नूनम् मम एव शोकेन सः वीरः लक्ष्मण-अग्रजः ॥ 39 ॥

देव-लोकम् इतः यातः त्यक्त्वा देहम् मही-तले ।
धन्याः देवाः स-गन्धर्वाः सिद्धाः च परम-ऋषयः ॥ 40 ॥

मम पश्यन्ति ये नाथम् रामम् राजीव-लोचनम् ।
अथवा न हि तस्य अर्थः धर्म-कामस्य धीमतः ॥ 41 ॥

मया रामस्य राज-ऋषेः भार्यया परम-आत्मनः ।
दृश्यमाने भवेत् प्रीतिः सौहृदम् न अस्ति अपश्यतः ॥ 42 ॥

नाशयन्ति कृत-घ्नाः तु न रामः नाशयिष्यति ।
किम् नु मे न गुणाः केचित् किम् वा भाग्य-क्षयः मम ॥ 43 ॥

या अहम् सीदामि रामेण हीना मुख्येन भामिनी ।
श्रेयः मे जीवितात् मर्तुम् विहीनायाः महा-आत्मनः ॥ 44 ॥

रामात् अक्लिष्ट-चारित्रात् शूरात् शत्रु-निबर्हणात् ।
अथवा न्यस्त-शत्रौ तौ वने मूल-फल-आशिनौ ॥ 45 ॥

भ्रातरौ हि नर-श्रेष्ठौ संवृत्तौ वन-गोचरौ ।
अथवा राक्षस-इन्द्रेण रावणेन दुर्-आत्मना ॥ 46 ॥

छद्मना घातितौ शूरौ भ्रातरौ राम-लक्ष्मणौ ।
सा अहम् एवम् गते काले मर्तुम् इच्छामि सर्वथा ॥ 47 ॥

न च मे विहितः मृत्युः अस्मिन् दुःखे अपि वर्तते ।
धन्याः खलु महा-आत्मानः मुनयः त्यक्त-किल्बिषाः ॥ 48 ॥

जित-आत्मानः महा-भागाः येषाम् न स्तः प्रिय-अप्रियॆ ।
प्रियात् न संभवेत् दुःखम् अप्रियात् अधिकम् भयम् ॥ 49 ॥

ताभ्याम् हि ये वियुज्यन्ते नमः तेषाम् महा-आत्मनाम् ।
सा अहम् त्यक्ता प्रिय-अर्हेण रामेण विदित-आत्मना ॥ 50 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे षड्-विंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: