अवधूय च तां बुद्धिं बभूव अवस्थितः तदा ।
जगाम च अपरां चिन्तां सीतां प्रति महा-कपिः ॥ 1 ॥
न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी ।
न भोक्तुं वा अपि अलङ्कर्तुं न पानम् उपसेवितुम् ॥ 2 ॥
न अन्यं नरम् उपस्थातुं सुराणाम् अपि च ईश्वरम् ।
न हि राम-समः कश्चित् विद्यते त्रिदशेषु अपि ॥ 3 ॥
अन्या इयम् इति निश्चित्य पान-भूमौ चचार सः ।
क्रीडितेन अपराः क्लान्ताः गीतेन च तथा अपराः ॥ 4 ॥
नृत्तेन च अपराः क्लान्ताः पान-विप्रहताः तथा ।
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ॥ 5 ॥
तथा आस्तरण-मुख्येषु संविष्टाः च अपराः स्त्रियः ।
अङ्गनानां सहस्रेण भूषितेन विभूषणैः ॥ 6 ॥
रूप-सल्लाप-शीलेन युक्त-गीत-अर्थ-भाषिणा ।
देश-काल-अभियुक्तेन युक्त-वाक्य-अभिधायिना ॥ 7 ॥
रताभिः रत-संसुप्तं ददर्श हरि-यूथपः ।
तासां मध्ये महा-बाहुः शुशुभे राक्षस-ईश्वरः ॥ 8 ॥
गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ।
सः राक्षस-इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥ 9 ॥
करेणुभिः यथा अरण्ये परिकीर्णः महा-द्विपः ।
सर्व-कामैः उपेतां च पान-भूमिं महा-आत्मनः ॥ 10 ॥
ददर्श हरि-शार्दूलः तस्य रक्षः-पतेः गृहे ।
मृगाणां महिषाणां च वराहाणां च भागशः ॥ 11 ॥
तत्र न्यस्तानि मांसानि पान-भूमौ ददर्श सः ।
रौक्मेषु च विशालेषु भाजनेषु अर्ध-भक्षितान् ॥ 12 ॥
ददर्श हरि-शार्दूलः मयूरान् कुक्कुटान् तथा ।
वराह-वार्ध्राणसकान् दधि-सौवर्चल-आयुतान् ॥ 13 ॥
शल्यान् मृग-मयूरान् च हनुमान् अन्ववैक्षत ।
क्रकरान् विविधान् सिद्धान् चकोरान् अर्ध-भक्षितान् ॥ 14 ॥
महिषान् एक-शल्यान् च छागान् च कृत-निष्ठितान् ।
लेह्यान् उच्च-अवचान् पेयान् भोज्यानि विविधानि च ॥ 15 ॥
तथा आम्ल-लवण-उत्तंसैः विविधैः राग-षाडवैः ।
हार-नूपुर-केयूरैः अपविद्धैः महा-धनैः ॥ 16 ॥
पान-भाजन-विक्षिप्तैः फलैः च विविधैः अपि ।
कृत-पुष्प-उपहारा भूः अधिकं पुष्यति श्रियम् ॥ 17 ॥
तत्र तत्र च विन्यस्तैः सु-श्लिष्टैः शयन-आसनैः ।
पान-भूमिः विना वह्निं प्रदीप्ता इव उपलक्ष्यते ॥ 18 ॥
बहु-प्रकारैः विविधैः वर-संस्कार-संस्कृतैः ।
मांसैः कुशल-संपृक्तैः पान-भूमि-गतैः पृथक् ॥ 19 ॥
दिव्याः प्रसन्नाः विविधाः सुराः कृत-सुराः अपि ।
शर्करा-असव-माध्वीक-पुष्प-असव-फल-असवाः ॥ 20 ॥
वास-चूर्णैः च विविधैः मृष्टाः तैः तैः पृथक् पृथक् ।
सन्तता शुशुभे भूमिः माल्यैः च बहु-संस्थितैः ॥ 21 ॥
हिरण्मयैः च विविधैः भाजनैः स्फाटिकैः अपि ।
जाम्बूनद-मयैः च अन्यैः करकैः अभिसंवृता ॥ 22 ॥
राजतेषु च कुम्भेषु जाम्बूनद-मयेषु च ।
पान-श्रेष्ठं तदा भूरि कपिः तत्र ददर्श ह ॥ 23 ॥
सः अपश्यत् शात-कुम्भानि सीधोः मणि-मयानि च ।
राजतानि च पूर्णानि भाजनानि महा-कपिः ॥ 24 ॥
क्वचित् अल्प-अवशेषाणि क्वचित् पीतानि सर्वशः ।
क्वचित् न एव प्रपीतानि पानानि सः ददर्श ह ॥ 25 ॥
क्वचित् भक्ष्यान् च विविधान् क्वचित् पानानि भागशः ।
क्वचित् अन्न-अवशेषाणि पश्यन् वै विचचार ह ॥ 26 ॥
क्वचित् प्रभिन्नैः करकैः क्वचित् आलोलितैः घटैः ।
क्वचित् सम्पृक्त-माल्यानि जलानि च फलानि च ॥ 27 ॥
शयनानि अत्र नारीणां शुभ्राणि बहुधा पुनः ।
परस्परं समाश्लिष्य काश्चित् सुप्ताः वर-अङ्गनाः ॥ 28 ॥
काश्चित् च वस्त्रम् अन्यस्याः स्वपन्त्याः परिधाय च ।
आहृत्य च अबलाः सुप्ताः निद्रा-बल-पराजिताः ॥ 29 ॥
तासाम् उच्छ्वास-वातेन वस्त्रं माल्यं च गात्र-जम् ।
न अत्यर्थं स्पन्दते चित्रं प्राप्य मन्दम् इव अनिलम् ॥ 30 ॥
चन्दनस्य च शीतस्य शीधोः मधुरसस्य च ।
विविधस्य च माल्यस्य धूपस्य विविधस्य च ॥ 31 ॥
बहुधा मारुतः तत्र गन्धं विविधम् उद्वहन् ।
स्नानानां चन्दनानां च धूपानां च एव मूर्छितः ॥ 32 ॥
प्रववौ सुरभिः गन्धः विमाने पुष्पके तदा ।
श्याम-अवदाताः तत्र अन्याः काश्चित् कृष्णाः वर-अङ्गनाः ॥ 33 ॥
काश्चित् काञ्चन-वर्ण-अङ्ग्यः प्रमदाः राक्षस-आलये ।
तासां निद्रा-वशत्वात् च मदनेन विमूर्छितम् ॥ 34 ॥
पद्मिनीनां प्रसुप्तानां रूपम् आसीत् यथा एव हि ।
एवं सर्वम् अशेषेण रावण-अन्तः-पुरं कपिः ॥ 35 ॥
ददर्श सु-महा-तेजाः न ददर्श च जानकीम् ।
निरीक्षमाणः च तदा ताः स्त्रियः सः महा-कपिः ॥ 36 ॥
जगाम महतीं चिन्तां धर्म-साध्वस-शङ्कितः ।
पर-दार-अवरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ 37 ॥
इदं खलु मम अत्यर्थं धर्म-लोपं करिष्यति ।
न हि मे पर-दाराणां दृष्टिः विषय-वर्तिनी ॥ 38 ॥
अयं च अत्र मया दृष्टः पर-दार-अपरिग्रहः ।
तस्य प्रादुरभूत् चिन्ता पुनः अन्या मनस्विनः ॥ 39 ॥
निश्चित-एकान्त-चित्तस्य कार्य-निश्चय-दर्शिनी ।
कामं दृष्टाः मया सर्वाः विश्वस्ताः रावण-स्त्रियः ॥ 40 ॥
न हि मे मनसः किञ्चित् वैकृत्यम् उपजायते ।
मनः हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने ॥ 41 ॥
शुभ-अशुभासु अवस्थासु तत् च मे सु-व्यवस्थितम् ।
न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥ 42 ॥
स्त्रियः हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ।
यस्य सत्त्वस्य या योनिः तस्यां तत् परिमार्ग्यते ।
न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ 43 ॥
तत् इदं मार्गितं तावत् शुद्धेन मनसा मया ॥ 44 ॥
रावण-अन्तः-पुरं सर्वं दृश्यते न तु जानकी ।
देव-गन्धर्व-कन्याः च नाग-कन्याः च वीर्यवान् ॥ 45 ॥
अवेक्षमाणः हनुमान् न एव अपश्यत् जानकीम् ।
ताम् अपश्यन् कपिः तत्र पश्यन् च अन्याः पर-स्त्रियः ॥ 46 ॥
अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे ।
सः भूयः तु परं श्रीमान् मारुतिः यत्नम् आस्थितः ॥ 47 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एकादशः सर्गः ॥

No comments:
Post a Comment