तथा विप्रेक्ष्यमाणस्य वनम् पुष्पित-पादपम् ।
विचिन्वतः च वैदेहीम् किंचित्-शेषा निशा अभवत् ॥ 1 ॥
षड्-अङ्ग-वेद-विदुषाम् क्रतु-प्रवर-याजिनाम् ।
शुश्राव ब्रह्म-घोषान् च सः विरात्रे ब्रह्म-रक्षसाम् ॥ 2 ॥
अथ मङ्गल-वादित्र-शब्दैः श्रुति-मनोहरैः ।
प्राबुध्यत महा-बाहुः दश-ग्रीवः महा-बलः ॥ 3 ॥
विबुध्यत यथा-कालम् राक्षस-इन्द्रः प्रतापवान् ।
स्रस्त-माल्य-अम्बर-धरः वैदेहीम् अन्वचिन्तयत् ॥ 4 ॥
भृशम् नियुक्तः तस्याम् च मदनेन मद-उत्कटः ।
न सः तम् राक्षसः कामम् शशाक आत्मनि गूहितुम् ॥ 5 ॥
सः सर्व-आभरणैः युक्तः बिभ्रत् श्रियम् अनुत्तमाम् ।
ताम् नगैः बहुभिः जुष्टाम् सर्व-पुष्प-फल-उपगैः ॥ 6 ॥
वृताम् पुष्करिणीभिः च नाना-पुष्प-उपशोभिताम् ।
सदा मदैः च विहगैः विचित्राम् परम-अद्भुताम् ॥ 7 ॥
ईहा-मृगैः च विविधैः जुष्टाम् दृष्टि-मनोहरैः ।
वीधीः संप्रेक्षमाणः च मणि-काञ्चन-तोरणाः ॥ 8 ॥
नाना-मृग-गण-आकीर्णाम् फलैः प्रपतितैः वृताम् ।
अशोक-वनिकाम् एव प्राविशत् सन्तत-द्रुमाम् ॥ 9 ॥
अङ्गना-शत-मात्रम् तु तम् व्रजन्तम् अनुव्रजत् ।
महा-इन्द्रम् इव पौलस्त्यम् देव-गन्धर्व-योषितः ॥ 10 ॥
दीपिकाः काञ्चनीः काश्चित् जगृहुः तत्र योषितः ।
वाल-व्यजन-हस्ताः च ताल-वृन्तानि च अपराः ॥ 11 ॥
काञ्चनैः अपि भृङ्गारैः जह्रुः सलिलम् अग्रतः ।
मण्डल-अग्रान् बृसीः च अपि गृह्य अन्याः पृष्ठतः ययुः ॥ 12 ॥
काचित् रत्न-मयीम् स्थालीम् पूर्णाम् पानस्य भामिनी ।
दक्षिणा दक्षिणेन एव तदा जग्राह पाणिना ॥ 13 ॥
राज-हंस-प्रतीकाशम् छत्रम् पूर्ण-शशि-प्रभम् ।
सौवर्ण-दण्डम् अपरा गृहीत्वा पृष्ठतः ययौ ॥ 14 ॥
निद्रा-मद-परीत-अक्ष्यः रावणस्य उत्तमाः स्त्रियः ।
अनुजग्मुः पतिम् वीरम् घनम् विद्युत्-लता इव ॥ 15 ॥
व्याविद्ध-हार-केयूराः समामृदित-वर्णकाः ।
समागलित-केश-अन्ताः स-स्वेद-वदनाः तथा ॥ 16 ॥
घूर्णन्त्यः मद-शेषेण निद्रया च शुभ-आननाः ।
स्वेद-क्लिष्ट-अङ्ग-कुसुमाः सु-माल्य-आकुल-मूर्धजाः ॥ 17 ॥
प्रयान्तम् नैऋत-पतिम् नार्यः मदिर-लोचनाः ।
बहु-मानात् च कामात् च प्रियाः भार्याः तम् अन्वयुः ॥ 18 ॥
सः च काम-पराधीनः पतिः तासाम् महा-बलः ।
सीता-सक्त-मनाः मन्दः मन्द-अञ्चित-गतिः बभौ ॥ 19 ॥
ततः काञ्ची-निनादम् च नूपुराणाम् च निस्वनम् ।
शुश्राव परम-स्त्रीणाम् सः कपिः मारुत-आत्मजः ॥ 20 ॥
तम् च अप्रतिम-कर्माणम् अचिन्त्य-बल-पौरुषम् ।
द्वार-देशम् अनुप्राप्तम् ददर्श हनुमान् कपिः ॥ 21 ॥
दीपिकाभिः अनेकाभिः समन्तात् अवभासितम् ।
गन्ध-तैल-अवसिक्ताभिः ध्रियमाणाभिः अग्रतः ॥ 22 ॥
काम-दर्प-मदैः युक्तम् जिह्म-ताम्र-आयत-ईक्षणम् ।
समक्षम् इव कन्दर्पम् अपविद्ध-शरासनम् ॥ 23 ॥
मथित-अमृत-फेन-आभम् अरजः-वस्त्रम् उत्तमम् ।
स-लीलम् अनुकर्षन्तम् विमुक्तम् सक्तम् अङ्गदे ॥ 24 ॥
तम् पत्र-विटपे लीनः पत्र-पुष्प-घन-आवृतः ।
समीपम् इव संक्रान्तम् निध्यातुम् उपचक्रमे ॥ 25 ॥
अवेक्षमाणः तु ततः ददर्श कपि-कुञ्जरः ।
रूप-यौवन-संपन्नाः रावणस्य वर-स्त्रियः ॥ 26 ॥
ताभिः परिवृतः राजा सु-रूपाभिः महा-यशाः ।
तत्-मृग-द्विज-संघुष्टम् प्रविष्टः प्रमदा-वनम् ॥ 27 ॥
क्षीबः विचित्र-आभरणः शङ्कु-कर्णः महा-बलः ।
तेन विश्रवसः पुत्रः सः दृष्टः राक्षस-अधिपः ॥ 28 ॥
वृतः परम-नारीभिः ताराभिः इव चन्द्रमाः ।
तम् ददर्श महा-तेजाः तेजोवन्तम् महा-कपिः ॥ 29 ॥
रावणः अयम् महा-बाहुः इति संचिन्त्य वानरः ।
अवप्लुतः महा-तेजाः हनुमान् मारुत-आत्मजः ॥ 30 ॥
सः तथा अपि उग्र-तेजाः सन् निर्धूतः तस्य तेजसा ।
पत्र-गुह्य-अन्तरे सक्तः हनुमान् संवृतः अभवत् ॥ 31 ॥
सः ताम् असित-केश-अन्ताम् सु-श्रोणीम् संहत-स्तनीम् ।
दिदृक्षुः असित-अपाङ्गाम् उपावर्तत रावणः ॥ 32 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे अष्टादशः सर्गः ॥

No comments:
Post a Comment