हनुमानः अपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायाः त्रिजटायाः च राक्षसीनां च तर्जनम् ॥ 1 ॥
अवेक्षमाणः तां देवीं देवताम् इव नन्दने ।
ततः बहु-विधां चिन्तां चिन्तयामास वानरः ॥ 2 ॥
यां कपीनां सहस्राणि सु-बहूनि अयुतानि च ।
दिक्षु सर्वासु मार्गन्ते सा इयम् आसादिता मया ॥ 3 ॥
चारेण तु सु-युक्तेन शत्रोः शक्तिम् अवेक्षता ।
गूढेन चरता तावत् अवेक्षितम् इदं मया ॥ 4 ॥
राक्षसानां विशेषः च पुरी च इयम् अवेक्षिता ।
राक्षस-अधिपतेः अस्य प्रभावः रावणस्य च ॥ 5 ॥
युक्तं तस्य अप्रमेयस्य सर्व-सत्त्व-दया-वत: ।
समाश्वासयितुं भार्यां पति-दर्शन-काङ्क्षिणीम् ॥ 6 ॥
अहम् आश्वासयामि एनां पूर्ण-चन्द्र-निभ-आननाम् ।
अदृष्ट-दुःखां दुःख-आर्तां दुःखस्य अन्तम् अगच्छतीम् ॥ 7 ॥
यदि अपि अहम् इमां देवीं शोक-उपहत-चेतनाम् ।
अनाश्वास्य गमिष्यामि दोष-वद् गमनं भवेत् ॥ 8 ॥
गते हि मयि तत्र इयं राज-पुत्री यशस्विनी ।
परित्राणम् अविन्दन्ती जानकी जीवितं त्यजेत् ॥ 9 ॥
मया च सः महा-बाहुः पूर्ण-चन्द्र-निभ-आननः ।
समाश्वासयितुं न्याय्यः सीता-दर्शन-लालसः ॥ 10 ॥
निशाचरीणां प्रत्यक्षम् अनर्हं च अभिभाषितम् ।
कथं नु खलु कर्तव्यम् इदं कृच्छ्र-गतः हि अहम् ॥ 11 ॥
अनेन रात्रि-शेषेण यदि न आश्वास्यते मया ।
सर्वथा न अस्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ 12 ॥
रामः च यदि पृच्छेत् मां किं मां सीता अब्रवीत् वचः ।
किम् अहं तं प्रति ब्रूयाम् असम्भाष्य सु-मध्यमाम् ॥ 13 ॥
सीता-सन्देश-रहितं माम् इतः त्वरया आगतम् ।
निर्दहेत् अपि काकुत्स्थः क्रुद्धः तीव्रेण चक्षुषा ॥ 14 ॥
यदि च उद्योजयिष्यामि भर्तारं राम-कारणात् ।
व्यर्थम् आगमनं तस्य स-सैन्यस्य भविष्यति ॥ 15 ॥
अन्तरं तु अहम् आसाद्य राक्षसीनां इह स्थितः ।
शनैः आश्वासयिष्यामि सन्ताप-बहुलाम् इमाम् ॥ 16 ॥
अहं तु अति-तनुः च एव वानरः च विशेषतः ।
वाचं च उदाहरिष्यामि मानुषीम् इह संस्कृताम् ॥ 17 ॥
यदि वाचं प्रदास्यामि द्वि-जातिः इव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥ 18 ॥
वानरस्य विशेषेण कथं स्यात् अभिभाषणम् ।
अवश्यम् एव वक्तव्यं मानुषं वाक्यम् अर्थ-वत् ॥ 19 ॥
मया सान्त्वयितुं शक्या न अन्यथा इयम् अनिन्दिता ।
सा इयम् आलोक्य मे रूपं जानकी भाषितं तथा ॥ 20 ॥
रक्षोभिः त्रासिता पूर्वं भूयः त्रासं गमिष्यति ।
ततः जात-परित्रासा शब्दं कुर्यात् मनस्विनी ॥ 21 ॥
जानमाना विशालाक्षी रावणं काम-रूपिणम् ।
सीतया च कृते शब्दे सहसा राक्षसी-गणाः ।
नाना-प्रहरणाः घोराः समेयुः अन्तक-उपमाः ॥ 22 ॥
ततः मां सम्परिक्षिप्य सर्वतः विकृत-आननाः ॥ 23 ॥
वधे च ग्रहणे च एव कुर्युः यत्नं यथा-बलम् ।
गृह्य शाखाः प्र-शाखाः च स्कन्धान् च उत्तम-शाखिनाम् ॥ 24 ॥
दृष्ट्वा विपरिधावन्तं भवेयुः भय-शङ्किताः ।
मम रूपं च सम्प्रेक्ष्य वने विचरतः महत् ॥ 25 ॥
राक्षस्यः भय-वित्रस्ताः भवेयुः विकृत-आननाः ।
ततः कुर्युः समाह्वानं राक्षस्यः रक्षसाम् अपि ॥ 26 ॥
राक्षस-इन्द्र-नियुक्तानां राक्षस-इन्द्र-निवेशने ।
ते शूल-शक्ति-निस्त्रिंश-विविध-आयुध-पाणयः ॥ 27 ॥
आपतेयुः विमर्दे अस्मिन् वेगेन उद्वेग-कारणात् ।
समृद्धः तैः तु परितः विधमन् रक्षसां बलम् ॥ 28 ॥
शक्नुयां न तु सम्प्राप्तुं परं पारं महा-उदधेः ।
मां वा गृह्णीयुः आप्लुत्य बहवः शीघ्र-कारिणः ॥ 29 ॥
स्यात् इयं च अगृहीत-अर्था मम च ग्रहणं भवेत् ।
हिंसा-अभिरुचयः हिंस्युः इमां वा जनक-आत्मजाम् ॥ 30 ॥
विपन्नं स्यात् ततः कार्यं राम-सुग्रीवयोः इदम् ।
उद्देशे नष्ट-मार्गे अस्मिन् राक्षसैः परिवारिते ॥ 31 ॥
सागरेण परिक्षिप्ते गुप्ते वसति जानकी ।
विशस्ते वा गृहीते वा रक्षोभिः मयि संयुगे ॥ 32 ॥
न अन्यं पश्यामि रामस्य सहायं कार्य-साधने ।
विमृशन् च न पश्यामि यः हते मयि वानरः ॥ 33 ॥
शत-योजन-विस्तीर्णं लङ्घयेत् महा-उदधिम् ।
कामं हन्तुं समर्थः अस्मि सहस्राणि अपि रक्षसाम् ॥ 34 ॥
न तु शक्ष्यामि सम्प्राप्तुं परं पारं महा-उदधेः ।
असत्यानि च युद्धानि संशयः मे न रोचते ॥ 35 ॥
कः चित् निःसन्देहं कार्यं कुर्यात् प्राज्ञः स-संशयम् ।
प्राण-त्यागः च वैदेह्याः भवेत् अनभिभाषणे ॥ 36 ॥
एषः दोषः महान् हि स्यात् मम सीता-अभिभाषणे ।
भूताः च अर्थाः विनश्यन्ति देश-काल-विरोधिताः ॥ 37 ॥
विक्लबं दूतम् आसाद्य तमः सूर्य-उदये यथा ।
अर्थ-अनर्थ-अन्तरे बुद्धि-निश्चितापि न शोभते ॥ 38 ॥
घातयन्ति हि कार्याणि दूताः पण्डित-मानिनः ।
न विनश्येत् कथं कार्यं वैक्लब्यं न कथं भवेत् ॥ 39 ॥
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।
कथं नु खलु वाक्यं मे शृणुयात् न उद्विजेत वा ।
इति सञ्चिन्त्य हनुमान् चकार मति-मान् मतिम् ॥ 40 ॥
रामम् अक्लिष्ट-कर्माणं सु-बन्धुम् अनुकीर्तयन् ॥ 41 ॥
न एनाम् उद्वेजयिष्यामि तत्-बन्धु-गत-मानसाम् ।
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदित-आत्मनः ॥ 42 ॥
शुभानि धर्म-युक्तानि वचनानि समर्पयन् ।
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ॥ 43 ॥
श्रद्धास्यति यथा हि इयं तथा सर्वं समादधे ।
इति सः बहु-विधं महा-अनुभावः जगति-पतेः प्रमदाम् अवेक्षमाणः ।
मधुरम् अवितथं जगाद वाक्यं द्रुम-विटप-अन्तरम् आस्थितः हनूमान् ॥ 44 ॥
इति आर्षे श्रीमद्रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे त्रिंशः सर्गः ॥

No comments:
Post a Comment