Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 19 - இராவணனைக் கண்டு சீதை நடுங்குகிறாள்.


HOME          PREVIOUS               NEXT

तस्मिन् एव ततः काले राज-पुत्री तु अनिन्दिता ।
रूप-यौवन-संपन्नम् भूषण-उत्तम-भूषितम् ॥ 1 ॥

ततः दृष्ट्वा एव वैदेही रावणम् राक्षस-अधिपम् ।
प्रावेपत वर-आरोहा प्रवाते कदली यथा ॥ 2 ॥

आच्छाद्य उदरम् ऊरुभ्याम् बाहुभ्याम् च पयोधरौ ।
उपविष्टा विशाल-अक्षी रुदन्ती वर-वर्णिनी ॥ 3 ॥

दश-ग्रीवः तु वैदेहीम् रक्षिताम् राक्षसी-गणैः ।
ददर्श सीताम् दुःख-आर्ताम् नावम् सन्नाम् इव अर्णवे ॥ 4 ॥

असंवृतायाम् आसीनाम् धरण्याम् संशित-व्रताम् ।
छिन्नाम् प्रपतिताम् भूमौ शाखाम् इव वनस्पतेः ॥ 5 ॥

मल-मण्डन-चित्र-अङ्गीम् मण्डन-अर्हाम् अमण्डिताम् ।
मृणाली पङ्क-दिग्धा इव विभाति न विभाति च ॥ 6 ॥

समीपम् राज-सिंहस्य रामस्य विदित-आत्मनः ।
संकल्प-हय-संयुक्तैः यान्तीम् इव मनोरथैः ॥ 7 ॥

शुष्यन्तीम् रुदतीम् एकाम् ध्यान-शोक-परायणाम् ।
दुःखस्य अन्तम् अपश्यन्तीम् रामाम् राम-अनुव्रताम् ॥ 8 ॥

वेष्टमानाम् तथा आविष्टाम् पन्नग-इन्द्र-वधूम् इव ।
धूप्यमानाम् ग्रहेण इव रोहिणीम् धूम-केतुना ॥ 9 ॥

वृत्त-शील-कुले जाताम् आचार-वति धार्मिके ।
पुनः-संस्कारम् आपन्नाम् जाताम् इव च दुष्कुले ॥ 10 ॥

अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ।
आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥ 11 ॥

सन्नाम् इव महा-कीर्तिम् श्रद्धाम् इव विमानिताम् ।
पूजाम् इव परिक्षीणाम् आशाम् प्रतिहताम् इव ॥ 12 ॥

आयतीम् इव विध्वस्ताम् आज्ञाम् प्रतिहताम् इव ।
दीप्ताम् इव दिशम् काले पूजाम् अपहृताम् इव ॥ 13 ॥

पद्मिनीम् इव विध्वस्ताम् हत-शूराम् चमूम् इव ।
प्रभाम् इव तमः-ध्वस्ताम् उपक्षीणाम् इव आपगाम् ॥ 14 ॥

वेदीम् इव परामृष्टाम् शान्ताम् अग्नि-शिखाम् इव ।
पौर्णमासीम् इव निशाम् राहु-ग्रस्त-इन्दु-मण्डलाम् ॥ 15 ॥

उत्कृष्ट-पर्ण-कमलाम् वित्रासित-विहङ्गमाम् ।
हस्ति-हस्त-परामृष्टाम् आकुलाम् पद्मिनीम् इव ॥ 16 ॥

पति-शोक-आतुराम् शुष्काम् नदीम् विस्राविताम् इव ।
परया मृजया हीनाम् कृष्ण-पक्ष-निशाम् इव ॥ 17 ॥

सु-कुमारीम् सु-जात-अङ्गीम् रत्न-गर्भ-गृह-उचिताम् ।
तप्यमानाम् इव उष्णेन मृणालीम् अचिर-उद्धृताम् ॥ 18 ॥

गृहीताम् आलिताम् स्तम्भे यूथ-पेन विना कृताम् ।
निःश्वसन्तीम् सु-दुःख-आर्ताम् गज-राज-वधूम् इव ॥ 19 ॥

एकया दीर्घया वेण्या शोभमानाम् अयत्नतः ।
नीलया नीरद-अपाये वन-राज्या महीम् इव ॥ 20 ॥

उपवासेन शोकेन ध्यानेन च भयेन च ।
परिक्षीणाम् कृशाम् दीनाम् अल्प-आहाराम् तपः-धनाम् ॥ 21 ॥

आयाचमानाम् दुःख-आर्ताम् प्राञ्जलिम् देवताम् इव ।
भावेन रघु-मुख्यस्य दश-ग्रीव-पराभवम् ॥ 22 ॥

समीक्षमाणाम् रुदतीम् अनिन्दिताम् सु-पक्ष्म-ताम्र-आयत-शुक्ल-लोचनाम् ।
अनुव्रताम् रामम् अतीव मैथिलीम् प्रलोभयामास वधाय रावणः ॥ 23 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एकोन-विंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: