Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 51 - தன் செயல்களின் பயங்கர விளைவுகளை இராவணனுக்கு அனுமன் எச்சரிக்கிறார்.

HOME          PREVIOUS               NEXT

तं समीक्ष्य महा-सत्त्वं सत्त्ववान् हरि-सत्तमः ।
वाक्यम् अर्थ-वद् अव्यग्रः तम् उवाच दश-आननम् ॥ 1 ॥

अहं सुग्रीव-सन्देशात् इह प्राप्तः तव आलयम् ।
राक्षस-इन्द्र हरीशः त्वां भ्राता कुशलम् अब्रवीत् ॥ 2 ॥

भ्रातुः शृणु समादेशं सुग्रीवस्य महा-आत्मनः ।
धर्म-अर्थ-उपहितं वाक्यम् इह च अमुत्र च क्षमम् ॥ 3 ॥

राजा दशरथः नाम रथ-कुञ्जर-वाजि-मान् ।
पिता इव बन्धुः लोकस्य सुर-ईश्वर-सम-द्युतिः ॥ 4 ॥

ज्येष्ठः तस्य महा-बाहुः पुत्रः प्रिय-करः प्रभुः ।
पितुः निदेशात् निष्क्रान्तः प्रविष्टः दण्डक-अवनम् ॥ 5 ॥

लक्ष्मणेन सह भ्रात्रा सीतया च अपि भार्यया ।
रामः नाम महा-तेजाः धर्म्यं पन्थानम् आस्थितः ॥ 6 ॥

तस्य भार्या वने नष्टा सीता पति-अनुव्रता ।
वैदेहस्य सुता राज्ञः जनकस्य महा-आत्मनः ॥ 7 ॥

सः मार्गमाणः तां देवीं राज-पुत्रः सह-अनुजः ।
ऋश्यमूकम् अनुप्राप्तः सुग्रीवेण समागतः ॥ 8 ॥

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्य अपि रामेण हरि-राज्यं निवेदितम् ॥ 9 ॥

ततः तेन मृधे हत्वा राज-पुत्रेण वालिनम् ।
सुग्रीवः स्थापितः राज्ये हरि-ऋक्षाणां गण-ईश्वरः ॥ 10 ॥

त्वया विज्ञात-पूर्वः च वाली वानर-पुङ्गवः ।
रामेण निहतः सङ्ख्ये शरेण एकेन वानरः ॥ 11 ॥

सः सीता-मार्गणे व्यग्रः सुग्रीवः सत्य-सङ्गरः ।
हरीन् सम्प्रेषयामास दिशः सर्वाः हरि-ईश्वरः ॥ 12 ॥

तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते हि अधः च उपरि च अम्बरे ॥ 13 ॥

वैनतेय-समाः केचित् केचित् तत्र अनिल-उपमाः ।
असङ्ग-गतयः शीघ्राः हरि-वीराः महा-बलाः ॥ 14 ॥

अहं तु हनुमान् नाम मारुतस्य औरसः सुतः ।
सीतायाः तु कृते तूर्णं शत-योजनम् आयतम् ॥ 15 ॥

समुद्रं लङ्घयित्वा एव तां दिदृक्षुः इह आगतः ।
भ्रमता च मया दृष्टा गृहे ते जनक-आत्मजा ॥ 16 ॥

तत् भवान् दृष्ट-धर्म-अर्थः तपः-कृत-परिग्रहः ।
पर-दारान् महा-प्राज्ञ न उपरोद्धुं त्वम् अर्हसि ॥ 17 ॥

न हि धर्म-विरुद्धेषु बहु-अपायेषु कर्मसु ।
मूल-घातिषु सज्जन्ते बुद्धि-मन्तः भवत्-विधाः ॥ 18 ॥

कः चित् लक्ष्मण-मुक्तानां राम-कोप-अनुवर्तिनाम् ।
शराणाम् अग्रतः स्थातुं शक्तः देव-असुरेषु अपि ॥ 19 ॥

न च अपि त्रिषु लोकेषु राजन् विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखम् अवाप्नुयात् ॥ 20 ॥

तत् त्रिकाल-हितं वाक्यं धर्म्यम् अर्थ-अनुबन्धि च ।
मन्यस्व नर-देवाय जानकी प्रति-दीयताम् ॥ 21 ॥

दृष्टा हि इयं मया देवी लब्धं यत् इह दुर्लभम् ।
उत्तरं कर्म यत् शेषं निमित्तं तत्र राघवः ॥ 22 ॥

लक्षिता इयं मया सीता तथा शोक-परायणा ।
गृह्य यां न अभिजानासि पञ्च-अस्याम् इव पन्नगीम् ॥ 23 ॥

न इयं जरयितुं शक्या स-असुरैः अमरैः अपि ।
विष-संसृष्टम् अत्यर्थं भुक्तम् अन्नम् इव ओजसा ॥ 24 ॥

तपः-सन्ताप-लब्धः ते यः अयं धर्म-परिग्रहः ।
न सः नाशयितुं न्याय्यः आत्म-प्राण-परिग्रहः ॥ 25 ॥

अवध्यतां तपोभिः यां भवान् समनुपश्यति ।
आत्मनः स-असुरैः देवैः हेतुḥ तत्र अपि अयं महान् ॥ 26 ॥

सुग्रीवः न हि देवः अयम् न असुरः न च राक्षसः ।
न दानवः न गन्धर्वः न यक्षः न च पन्नगः ॥ 27 ॥

तस्मात् प्राण-परित्राणं कथं राजन् करिष्यसि ।
न तु धर्म-उपसंहारम् अधर्म-फल-संहितम् ॥ 28 ॥

तत् एव फलम् अन्वेति धर्मः च अधर्म-नाशनः ।
प्राप्तं धर्म-फलं तावत् भवता न अत्र संशयः ।
फलम् अस्य अपि अधर्मस्य क्षिप्रम् एव प्रपत्स्यसे ॥ 29 ॥

जनस्थान-वधं बुद्ध्वा बुद्ध्वा वालि-वधं तथा ॥ 30 ॥

राम-सुग्रीव-सख्यं च बुध्यस्व हितम् आत्मनः ।
कामं खलु अहम् अपि एकः स-वाजि-रथ-कुञ्जराम् ॥ 31 ॥

लङ्कां नाशयितुं शक्तः तस्य एषः तु न निश्चयः ।
रामेण हि प्रतिज्ञातं हरि-ऋक्ष-गण-सन्निधौ ॥ 32 ॥

उत्सादनम् अमित्राणां सीता यैः तु प्रधर्षिता ।
अपकुर्वन् हि रामस्य साक्षात् अपि पुरन्दरः ॥ 33 ॥

न सुखं प्राप्नुयात् अन्यः किं पुनः त्वत्-विधः जनः ।
यां सीता इति अभिजानासि या इयं तिष्ठति ते वशे ॥ 34 ॥

काल-रात्रि इति तां विद्धि सर्व-लङ्का-विनाशिनीम् ।
तत् अलं काल-पाशेन सीता-विग्रह-रूपिणा ॥ 35 ॥

स्वयं स्कन्ध-अवसक्तेन क्षेमम् आत्मनि चिन्त्यताम् ।
सीतायाः तेजसा दग्धां राम-कोप-प्रपीडिताम् ॥ 36 ॥

दह्यमानाम् इमां पश्य पुरीं स-अट्ट-प्रतोलिकाम् ।
स्वानि मित्राणि मन्त्रीन् च ज्ञातीन् भ्रातॄन् सुतान् हितान् ॥ 37 ॥

भोगान् दारान् च लङ्कां च मा विनाशम् उपानय ।
सत्यं राक्षस-राज-इन्द्र शृणुष्व वचनं मम ॥ 38 ॥

राम-दासस्य दूतस्य वानरस्य विशेषतः ।
सर्वान् लोकान् सु-संहृत्य स-भूतान् स-चराचरान् ॥ 39 ॥

पुनः एव तथा स्रष्टुं शक्तः रामः महा-यशाः ।
देव-असुर-नर-इन्द्रेषु यक्ष-रक्षः-गणेषु च ॥ 40 ॥

विद्याधरेषु सर्वेषु गन्धर्वेषु उरगेषु च ।
सिद्धेषु किन्नर-इन्द्रेषु पतत्रिषु च सर्वतः ॥ 41 ॥

सर्व-भूतेषु सर्वत्र सर्व-कालेषु न अस्ति सः ।
यः रामं प्रति-युध्येत विष्णु-तुल्य-पराक्रमम् ॥ 42 ॥

सर्व-लोक-ईश्वरस्य एवम् कृत्वा विप्रियम् उत्तमम् ।
रामस्य राज-सिंहस्य दुर्लभं तव जीवितम् ॥ 43 ॥

देवाः च दैत्याः च निशाचर-इन्द्र ।
गन्धर्व-विद्याधर-नाग-यक्षाः ।
रामस्य लोक-त्रय-नायकस्य ।
स्थातुं न शक्ताः समरेषु सर्वे ॥ 44 ॥

ब्रह्मा स्वयंभूः चतुर्-आननः वा ।
रुद्रः त्रि-नेत्रः त्रिपुर-अन्तकः वा ।
इन्द्रः महा-इन्द्रः सुर-नायकः वा ।
त्रातुं न शक्ताः युधि राम-वध्यम् ॥ 45 ॥

सः सौष्ठव-उपेतम् अ-दीन-वादिनः ।
कपेः निशम्य अप्रतिमः अप्रियं वचः ।
दश-आननः कोप-विवृत्त-लोचनः ।
समादिशत् तस्य वधं महा-कपेः ॥ 46 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एक-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: