स वीक्षमाणः तत्र-स्थः मार्गमाणः च मैथिलीम् ।
अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत ॥ 1 ॥
सन्तानक-लताभिः च पादपैः उपशोभिताम् ।
दिव्य-गन्ध-रस-उपेताम् सर्वतः समलंकृताम् ॥ 2 ॥
ताम् स नन्दन-संकाशाम् मृग-पक्षिभिः आवृताम् ।
हर्म्य-प्रासाद-संबाधाम् कोकिल-आकुल-निःस्वनाम् ॥ 3 ॥
काञ्चन-उत्पल-पद्माभिः वापीभिः उपशोभिताम् ।
बहु-आसन-कुथ-उपेताम् बहु-भूमि-गृह-आयुताम् ॥ 4 ॥
सर्व-ऋतु-कुसुमैः रम्याम् फलवत्भिः च पादपैः ।
पुष्पितानाम् अशोकानाम् श्रिया सूर्योदय-प्रभाम् ॥ 5 ॥
प्रदीप्ताम् इव तत्र-स्थः मारुतिः समुदैक्षत ।
निष्पत्र-शाखाम् विहगैः क्रियमाणाम् इव असकृत् ॥ 6 ॥
विनिष्पतद्भिः शतशः चित्रैः पुष्प-अवतंसकैः ।
आमूल-पुष्प-निचितैः अशोकैः शोक-नाशनैः ॥ 7 ॥
पुष्प-भार-अतिभारैः च स्पृशद्भिः इव मेदिनीम् ।
कर्णिकारैः कुसुमितैः किंशुकैः च सु-पुष्पितैः ॥ 8 ॥
स देशः प्रभया तेषाम् प्रदीप्तः इव सर्वतः ।
पुन्नागाः सप्त-पर्णाः च चम्पक-उद्दालकाः तथा ॥ 9 ॥
विवृद्ध-मूलाः बहवः शोभन्ते स्म सु-पुष्पिताः ।
शात-कुम्भ-निभाः केचित् केचित् अग्नि-शिखा-उपमाः ॥ 10 ॥
नील-अञ्जन-निभाः केचित् तत्र अशोकाः सहस्रशः ।
नन्दनम् विविध-उद्यानम् चित्रम् चैत्र-रथम् यथा ॥ 11 ॥
अति-वृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् ।
द्वितीयम् इव च आकाशम् पुष्प-ज्योतिः-गण-आयुतम् ॥ 12 ॥
पुष्प-रत्न-शतैः चित्रम् द्वितीयम् सागरम् यथा ।
सर्व-ऋतु-पुष्पैः निचितम् पादपैः मधु-गन्धिभिः ॥ 13 ॥
नाना-निनादैः उद्यानम् रम्यम् मृग-गणैः द्विजैः ।
अनेक-गन्ध-प्रवहम् पुण्य-गन्धम् मनोरमम् ॥ 14 ॥
शैल-इन्द्रम् इव गन्ध-आढ्यम् द्वितीयम् गन्ध-मादनम् ।
अशोक-वनिकायाम् तु तस्याम् वानर-पुङ्गवः ॥ 15 ॥
स ददर्श अविदूर-स्थम् चैत्य-प्रासादम् उच्छ्रितम् ।
मध्ये स्तम्भ-सहस्रेण स्थितम् कैलास-पाण्डुरम् ॥ 16 ॥
प्रवाल-कृत-सोपानम् तप्त-काञ्चन-वेदिकम् ।
मुष्णन्तम् इव चक्षूंषि द्योतमानम् इव श्रिया ॥ 17 ॥
विमलम् प्रांशु-भावत्वात् उल्लिखन्तम् इव अम्बरम् ।
ततः मलिन-संवीताम् राक्षसीभिः समावृताम् ॥ 18 ॥
उपवास-कृशाम् दीनाम् निःश्वसन्तीम् पुनः पुनः ।
ददर्श शुक्ल-पक्ष-आदौ चन्द्र-रेखाम् इव अमलाम् ॥ 19 ॥
मन्द-प्रख्यायमानेन रूपेण रुचिर-प्रभाम् ।
पिनद्धाम् धूम-जालेन शिखाम् इव विभावसोः ॥ 20 ॥
पीतेन एकेन संवीताम् क्लिष्टेन उत्तम-वाससा ।
स-पङ्काम् अनलंकाराम् वि-पद्माम् इव पद्मिनीम् ॥ 21 ॥
व्रीडिताम् दुःख-संतप्ताम् परिम्लानाम् तपस्विनीम् ।
ग्रहेण अङ्गारकेण इव पीडिताम् इव रोहिणीम् ॥ 22 ॥
अश्रु-पूर्ण-मुखीम् दीनाम् कृशाम् अनशनेन च ।
शोक-ध्यान-पराम् दीनाम् नित्यम् दुःख-परायणाम् ॥ 23 ॥
प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी-गणम् ।
स्व-गणेन मृगीम् हीनाम् श्व-गण-अभिवृताम् इव ॥ 24 ॥
नील-नाग-अभया वेण्या जघनम् गतया एकया ।
नीलया नीरद-अपाये वन-राज्या महीम् इव ॥ 25 ॥
सुख-अर्हाम् दुःख-संतप्ताम् व्यसनानाम् अकोविदाम् ।
ताम् समीक्ष्य विशाल-अक्षीम् अधिकम् मलिनाम् कृशाम् ॥ 26 ॥
तर्कयामास सीता इति कारणैः उपपादिभिः ।
ह्रियमाणा तदा तेन रक्षसा काम-रूपिणा ॥ 27 ॥
यथा-रूपा हि दृष्टा वै तथा-रूपा इयम् अङ्गना ।
पूर्ण-चन्द्र-आननाम् सु-भ्रूम् चारु-वृत्त-पयोधराम् ॥ 28 ॥
कुर्वतीम् प्रभया देवीम् सर्वाः वि-तिमिराः दिशः ।
ताम् नील-केशीम् बिम्ब-ओष्ठीम् सु-मध्याम् सु-प्रतिष्ठिताम् ॥ 29 ॥
सीताम् पद्म-पलाश-अक्षीम् मन्मथस्य रतिम् यथा ।
इष्टाम् सर्वस्य जगतः पूर्ण-चन्द्र-प्रभाम् इव ॥ 30 ॥
भूमौ सु-तनुम् आसीनाम् नियताम् इव तापसीम् ।
निःश्वास-बहुलाम् भीरुम् भुजग-इन्द्र-वधूम् इव ॥ 31 ॥
शोक-जालेन महता विततेन न राजतीम् ।
संसक्ताम् धूम-जालेन शिखाम् इव विभावसोः ॥ 32 ॥
ताम् स्मृतिम् इव संदिग्धाम् ऋद्धिम् निपतिताम् इव ।
विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव ॥ 33 ॥
स-उपसर्गाम् यथा सिद्धिम् बुद्धिम् स-कलुषाम् इव ।
अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ॥ 34 ॥
राम-उपरोध-व्यथिताम् रक्षः-हरण-कर्शिताम् ।
अबलाम् मृग-शाब-अक्षीम् वीक्षमाणाम् ततः ततः ॥ 35 ॥
बाष्प-अम्बु-परिपूर्णेन कृष्ण-वक्र-अक्षि-पक्ष्मणा ।
वदनेन अप्रसन्नेन निःश्वसन्तीम् पुनः पुनः ॥ 36 ॥
मल-पङ्क-धराम् दीनाम् मण्डन-अर्हाम् अमण्डिताम् ।
प्रभाम् नक्षत्र-राजस्य काल-मेघैः इव आवृताम् ॥ 37 ॥
तस्य संदिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु ।
आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥ 38 ॥
दुःखेन बुबुधे सीताम् हनुमान् अनलंकृताम् ।
संस्कारेण यथा हीनाम् वाचम् अर्थ-अन्तरम् गताम् ॥ 39 ॥
ताम् समीक्ष्य विशाल-अक्षीम् राज-पुत्रीम् अनिन्दिताम् ।
तर्कयामास सीता इति कारणैः उपपादिभिः ॥ 40 ॥
वैदेह्याः यानि च अङ्गेषु तदा रामः अन्वकीर्तयत् ।
तानि आभरण-जालानि गात्र-शोभीनि अलक्षयत् ॥ 41 ॥
सु-कृतौ कर्ण-वेष्टौ च श्व-दंष्ट्रौ च सु-संस्थितौ ।
मणि-विद्रुम-चित्राणि हस्तेषु आभरणानि च ॥ 42 ॥
श्यामानि चिर-युक्तत्वात् तथा संस्थान-वन्ति च ।
तानि एव एतानि मन्ये अहम् यानि रामः अन्वकीर्तयत् ॥ 43 ॥
तत्र यानि अवहीनानि तानि अहम् न उपलक्षये ।
यानि अस्याः न अवहीनानि तानि इमानि न संशयः ॥ 44 ॥
पीतम् कनक-पट्ट-आभम् स्रस्तम् तत् वसनम् शुभम् ।
उत्तरीयम् नग-आसक्तम् तदा दृष्टम् प्लवंगमैः ॥ 45 ॥
भूषणानि च मुख्यानि दृष्टानि धरणी-तले ।
अनया एव अपविद्धानि स्वनवन्ति महान्ति च ॥ 46 ॥
इदम् चिर-गृहीतत्वात् वसनम् क्लिष्टवत्तरम् ।
तथा अपि नूनम् तत् वर्णम् तथा श्रीमत् यथा इतरत् ॥ 47 ॥
इयम् कनक-वर्ण-अङ्गी रामस्य महिषी प्रिया ।
प्रणष्टा अपि सती या अस्य मनसः न प्रणश्यति ॥ 48 ॥
इयम् सा यत् कृते रामः चतुर्भिः परितप्यते ।
कारुण्येन अनृशंस्येन शोकेन मदनेन च ॥ 49 ॥
स्त्री प्रणष्टा इति कारुण्यात् आश्रिता इति अनृशंस्यतः ।
पत्नी नष्टा इति शोकेन प्रिया इति मदनेन च ॥ 50 ॥
अस्याः देव्याः यथा रूपम् अङ्ग-प्रत्यङ्ग-सौष्ठवम् ।
रामस्य च यथा रूपम् तस्य इयम् असित-ईक्षणा ॥ 51 ॥
अस्याः देव्याः मनः तस्मिन् तस्य च अस्याम् प्रतिष्ठितम् ।
तेन इयम् स च धर्म-आत्मा मुहूर्तम् अपि जीवति ॥ 52 ॥
दुष्करम् कृतवान् रामः हीनः यत् अनया प्रभुः ।
धारयति आत्मनः देहम् न शोकेन अवसीदति ॥ 53 ॥
दुष्करम् कुरुते रामः यः इमाम् मत्त-काशिनीम् ।
सीताम् विना महा-बाहुः मुहूर्तम् अपि जीवति ॥ 54 ॥
एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन-संभवः ।
जगाम मनसा रामम् प्रशशंस च तम् प्रभुम् ॥ 55 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे पञ्च-दशः सर्गः ॥

No comments:
Post a Comment