तस्याः तत् वचनं श्रुत्वा हनुमान् हरि-पुङ्गवः ।
दुःखात् दुःख-अभिभूतायाः सान्त्वम् उत्तरम् अब्रवीत् ॥ 1 ॥
अहम् रामस्य सन्देशात् देवि दूतः तव आगतः ।
वैदेहि कुशली रामः त्वां च कौशलम् अब्रवीत् ॥ 2 ॥
यः ब्रह्म-अस्त्रं वेदान् च वेद वेद-विदाम् वरः ।
सः त्वां दाशरथी रामः देवि कौशलम् ab्रवीत् ॥ 3 ॥
लक्ष्मणः च महा-तेजाः भर्तुः ते अनुचरः प्रियः ।
कृतवान् शोक-संतप्तः शिरसा ते अभिवादनम् ॥ 4 ॥
सा तयोः कुशलं देवी निशम्य नर-सिंहयोः ।
प्रीति-संहृष्ट-सर्व-अङ्गी हनुमन्तम् अथ अब्रवीत् ॥ 5 ॥
कल्याणी बत गाथा इयं लौकिकी प्रतिभाति मा ।
एति जीवन्तम् आनन्दः नरं वर्ष-शतात् अपि ॥ 6 ॥
तया समागते तस्मिन् प्रीतिः उत्पादिता अद्भुता ।
परस्परेण च आलापं विश्वस्तौ तौ प्रचक्रतुः ॥ 7 ॥
तस्याः तत् वचनं श्रुत्वा हनुमान् हरि-यूथपः ।
सीतायाः शोक-दीनायाः समीपम् उपचक्रमे ॥ 8 ॥
यथा यथा समीपं सः हनुमान् उपसर्पति ।
तथा तथा रावणं सा तं सीता परिशङ्कते ॥ 9 ॥
अहो धिक् दुष्कृतम् इदं कथितं हि यत् अस्य मे ।
रूप-अन्तरम् उपागम्य सः एव अयं हि रावणः ॥ 10 ॥
ताम् अशोकस्य शाखां सा विमुक्त्वा शोक-कर्शिता ।
तस्याम् एव अनवद्या-अङ्गी धरण्यां समुपाविशत् ॥ 11 ॥
हनुमान् अपि दुःख-आर्तां तां दृष्ट्वा भय-मोहिताम् ।
अवन्दत महा-बाहुः ततः तां जनक-आत्मजाम् ॥ 12 ॥
सा च एनं भय-वित्रस्ता भूयः न एव अभ्युदैक्षत ।
तं दृष्ट्वा वन्दमानं तु सीता शशि-निभ-आनना ॥ 13 ॥
अब्रवीत् दीर्घम् उच्छ्वस्य वानरं मधुर-स्वरा ।
मायां प्रविष्टः मायावी यदि त्वं रावणः स्वयम् ॥ 14 ॥
उत्पादयसि मे भूयः सन्तापं तत् न शोभनम् ।
स्वं परित्यज्य रूपं यः परिव्राजक-रूप-धृत् ।
जनस्थाने मया दृष्टः त्वं सः एव असि रावणः ॥ 15 ॥
उपवास-कृशां दीनां काम-रूप निशाचर ।
सन्तापयसि मां भूयः संतप्तां तत् न शोभनम् ॥ 16 ॥
अथवा न एतत् एवम् हि यत् मया परिशङ्कितम् ॥ 17 ॥
मनसः हि मम प्रीतिः उत्पन्ना तव दर्शनात् ।
यदि रामस्य दूतः त्वम् आगतः भद्रम् अस्तु ते ॥ 18 ॥
पृच्छामि त्वां हरि-श्रेष्ठ प्रियाः राम-कथाः हि मे ।
गुणान् रामस्य कथय प्रियस्य मम वानर ॥ 19 ॥
चित्तं हरसि मे सौम्य नदी-कूलं यथा रयः ।
अहो स्वप्नस्य सुखता या अहम् एवं चिर-आहृता ॥ 20 ॥
प्रेषितं नाम पश्यामि राघवेण वन-ओकसम् ।
स्वप्ने अपि यदि अहं वीरं राघवं सह-लक्ष्मणम् ॥ 21 ॥
पश्येयं न अवसीदेयं स्वप्नः अपि मम मत्सरी ।
न अहं स्वप्नम् इमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ 22 ॥
न शक्यः अभ्युदयः प्राप्तुं प्राप्तः च अभ्युदयः मम ।
किम् नु स्यात् चित्त-मोहः अयं भवेत् वात-गतिः तु इयम् ॥ 23 ॥
उन्माद-जः विकारः वा स्यात् इयं मृग-तृष्णिका ।
अथवा न अयम् उन्मादः मोहः अपि उन्माद-लक्षणः ॥ 24 ॥
संबुध्ये च अहम् आत्मानम् इयं च अपि वन-ओकसम् ।
इति एवं बहुधा सीता सम्प्रधार्य बल-अबलम् ॥ 25 ॥
रक्षसां काम-रूपत्वात् मेने तं राक्षस-अधिपम् ।
एतां बुद्धिं तदा कृत्वा सीता सा तनु-मध्यमा ॥ 26 ॥
न प्रतिव्याजहार अथ वानरं जनक-आत्मजा ।
सीतायाः चिन्तितं बुद्ध्वा हनुमान् मारुत-आत्मजः ॥ 27 ॥
श्रोत्र-अनुकूलैः वचनैः तदा तां सम्प्रहर्षयत् ।
आदित्यः इव तेजस्वी लोक-कान्तः शशी यथा ॥ 28 ॥
राजा सर्वस्य लोकस्य देवः वैश्रवणः यथा ।
विक्रमेण उपपन्नः च यथा विष्णुः महा-यशाः ॥ 29 ॥
सत्य-वादी मधुर-वाक् देवः वाचस्पतिः यथा ।
रूपवान् सुभगः श्रीमान् कन्दर्पः इव मूर्तिमान् ॥ 30 ॥
स्थान-क्रोधः प्रहर्ता च श्रेष्ठः लोके महा-रथः ।
बाहु-च्छायाम् अवष्टब्धः यस्य लोकः महा-आत्मनः ॥ 31 ॥
अपकृष्य आश्रम-पदात् मृग-रूपेण राघवम् ।
शून्ये येन अपनीता असि तस्य द्रक्ष्यसि यत् फलम् ॥ 32 ॥
न चिरात् रावणं संख्ये यः वधिष्यति वीर्यवान् ।
रोष-प्रमुक्तैः इषुभिः ज्वलद्भिः इव पावकैः ॥ 33 ॥
तेन अहं प्रेषितः दूतः त्वत्-सकाशम् इह आगतः ।
त्वत्-वियोगेन दुःख-आर्तः सः त्वां कौशलम् अब्रवीत् ॥ 34 ॥
लक्ष्मणः च महा-तेजाः सुमित्रा-आनन्द-वर्धनः ।
अभिवाद्य महा-बाहुः सः त्वां कौशलम् अब्रवीत् ॥ 35 ॥
रामस्य च सखा देवि सुग्रीवः नाम वानरः ।
राजा वानर-मुख्यानां सः त्वां कौशलम् अब्रवीत् ॥ 36 ॥
नित्यं स्मरति रामः त्वां स-सुग्रीवः स-लक्ष्मणः ।
दिष्ट्या जीवसि वैदेहि राक्षसी-वशम् आगता ॥ 37 ॥
न चिरात् द्रक्ष्यसे रामं लक्ष्मणं च महा-बलम् ।
मध्ये वानर-कोटीनां सुग्रीवं च अमित-ओजसम् ॥ 38 ॥
अहं सुग्रीव-सचिवः हनुमान् नाम वानरः ।
प्रविष्टः नगरीं लङ्कां लङ्घयित्वा महा-उदधिम् ॥ 39 ॥
कृत्वा मूर्ध्नि पद-न्यासं रावणस्य दुरात्मनः ।
त्वां द्रष्टुम् उपयातः अहं समाश्रित्य पराक्रमम् ॥ 40 ॥
न अहम् अस्मि तथा देवि यथा माम् अवगच्छसि ।
विशङ्का त्यज्यताम् एषा श्रद्धत्स्व वदतः मम ॥ 41 ॥
इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे चतुः-त्रिंशः सर्गः ॥

No comments:
Post a Comment