सः सागरम् अनादृष्यम् अतिक्रम्य महा-बलः ।
त्रिकूट-शिखरे लङ्कां स्थितां स्वस्थः ददर्श ह ॥ 1 ॥
ततः पादप-मुक्तेन पुष्प-वर्षेण वीर्यवान् ।
अभिवृष्टः स्थितः तत्र बभौ पुष्प-मयः यथा ॥ 2 ॥
योजनानां शतं श्रीमान् तीर्त्वा अपि उत्तम-विक्रमः ।
अनिःश्वसन् कपिः तत्र न ग्लानिम् अधिगच्छति ॥ 3 ॥
शतानि अहं योजनानां क्रमेयं सु-बहूनि अपि ।
किम् पुनः सागरस्य अन्तं सङ्ख्यातं शत-योजनम् ॥ 4 ॥
सः तु वीर्यवतां श्रेष्ठः प्लवताम् अपि च उत्तमः ।
जगाम वेगवान् लङ्कां लङ्घयित्वा महा-उदधिम् ॥ 5 ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।
गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ 6 ॥
शैलान् च तरु-सञ्छन्नान् वन-राजीः च पुष्पिताः ।
अभिचक्राम तेजस्वी हनुमान् प्लवग-ऋषभः ॥ 7 ॥
सः तस्मिन् अचले तिष्ठन् वनानि उपवनानि च ।
सः नग-अग्रे च तां लङ्कां ददर्श पवन-आत्मजः ॥ 8 ॥
सरलान् कर्णिकारान् च खर्जूरान् च सु-पुष्पितान् ।
प्रियालून् मुचुलिन्दान् च कुटजान् केतकान् अपि ॥ 9 ॥
प्रियङ्गून् गन्ध-पूर्णान् च नीपान् सप्तच्छदान् तथा ।
आसनान् कोविदारान् च करवीरान् च पुष्पितान् ॥ 10 ॥
पुष्प-भार-निबद्धान् च तथा मुकुलितान् अपि ।
पादपान् विहग-आकीर्णान् पवन-आधूत-मस्तकान् ॥ 11 ॥
हंस-कारण्डव-आकीर्णाः वापीः पद्म-उत्पल-आयुताः ।
आक्रीडान् विविधान् रम्यान् विविधान् च जल-आशयान् ॥ 12 ॥
सन्ततान् विविधैः वृक्षैः सर्व-ऋतु-फल-पुष्पितैः ।
उद्यानानि च रम्याणि ददर्श कपि-कुञ्जरः ॥ 13 ॥
समासाद्य च लक्ष्मीवान् लङ्कां रावण-पालिताम् ।
परिखाभिः स-पद्माभिः स-उत्पलाभिः अलङ्कृताम् ॥ 14 ॥
सीता-अपहरण-अर्थेन रावणेन सुरक्षिताम् ।
समन्तात् विचरद्भिः च राक्षसैः उग्र-धन्विभिः ॥ 15 ॥
काञ्चनेन आवृतां रम्यां प्राकारेण महा-पुरीम् ।
गृहैः च ग्रह-सङ्काशैः शारद-अम्बुद-सन्निभैः ॥ 16 ॥
पाण्डुराभिः प्रतोलीभिः उच्चाभिः अभिसंवृताम् ।
अट्टालक-शत-आकीर्णां पताका-ध्वज-मालिनीम् ॥ 17 ॥
तोरणैः काञ्चनैः दिव्यैः लता-पङ्क्ति-विचित्रितैः ।
ददर्श हनुमान् लङ्कां दिवि देव-पुरीम् यथा ॥ 18 ॥
गिरि-मूर्ध्नि स्थितां लङ्कां पाण्डुरैः भवनैः शुभैः ।
ददर्श सः कपि-श्रेष्ठः पुरम् आकाश-गम् यथा ॥ 19 ॥
पालितां राक्षस-इन्द्रेण निर्मितां विश्व-कर्मणा ।
प्लवमानाम् इव आकाशे ददर्श हनुमान् पुरीम् ॥ 20 ॥
वप्र-प्राकार-जघनां विपुल-अम्बु-नव-अम्बराम् ।
शतघ्नी-शूल-केश-अन्ताम् अट्टालक-वतंसकाम् ॥ 21 ॥
मनसा इव कृतां लङ्कां निर्मितां विश्व-कर्मणा ।
द्वारम् उत्तरम् आसाद्य चिन्तयामास वानरः ॥ 22 ॥
कैलास-शिखर-प्रख्याम् आलिखन्तीम् इव अम्बरम् ।
डीयमानाम् इव आकाशम् उच्छ्रितैः भवन-उत्तमैः ॥ 23 ॥
सम्पूर्णां राक्षसैः घोरैः नागैः भोगवतीम् इव ।
अचिन्त्यां सु-कृतां स्पष्टां कुबेर-अध्युषितां पुरा ॥ 24 ॥
दंष्ट्रिभिः बहुभिः शूरैः शूल-पट्टस-पाणिभिः ।
रक्षितां राक्षसैः घोरैः गुहाम् आशी-विषैः इव ॥ 25 ॥
तस्याः च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।
रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ 26 ॥
आगत्य अपि इह हरयः भविष्यन्ति निरर्थकाः ।
न हि युद्धेन वै लङ्का शक्या जेतुं सुरैः अपि ॥ 27 ॥
इमां तु विषमां दुर्गां लङ्कां रावण-पालिताम् ।
प्राप्य अपि सः महा-बाहुः किं करिष्यति राघवः ॥ 28 ॥
अवकाशः न साम्नः तस्य राक्षसेषु अभिगम्यते ।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ 29 ॥
चतुर्णाम् एव हि गतिः वानराणां महा-आत्मनाम् ।
वालि-पुत्रस्य नीलस्य मम राज्ञः च धीमतः ॥ 30 ॥
यावत् जानामि वैदेहीं यदि जीवति वा न वा ।
तत्र एव चिन्तयिष्यामि दृष्ट्वा तां जनक-आत्मजाम् ॥ 31 ॥
ततः सः चिन्तयामास मुहूर्तं कपि-कुञ्जरः ।
गिरि-शृङ्गे स्थितः तस्मिन् रामस्य अभ्युदये रतः ॥ 32 ॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ।
प्रवेष्टुं राक्षसैः गुप्ता क्रूरैः बल-समन्वितैः ॥ 33 ॥
उग्र-ओजसः महा-वीर्याः बलवन्तः च राक्षसाः ।
वञ्चनीयाः मया सर्वे जानकीं परिमार्गता ॥ 34 ॥
लक्ष्य-अलक्ष्येण रूपेण रात्रौ लङ्का-पुरी मया ।
प्रवेष्टुं प्राप्त-कालं मे कृत्यं साधयितुं महत् ॥ 35 ॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुर-असुरैः ।
हनुमान् चिन्तयामास विनिश्चित्य मुहुः मुहुः ॥ 36 ॥
केन उपायेन पश्येयं मैथिलीं जनक-आत्मजाम् ।
अदृष्टः राक्षस-इन्द्रेण रावणेन दुरात्मना ॥ 37 ॥
न विनश्येत् कथं कार्यं रामस्य विदित-आत्मनः ।
एकाम् एकः च पश्येयं रहिते जनक-आत्मजाम् ॥ 38 ॥
भूताः च अर्थाः विपद्यन्ते देश-काल-विरोधिताः ।
विक्लबं दूतम् आसाद्य तमः सूर्योदये यथा ॥ 39 ॥
अर्थ-अनर्थ-अन्तरे बुद्धिः निश्चिता अपि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डित-मानिनः ॥ 40 ॥
न विनश्येत् कथं कार्यं वैक्लब्यं न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ 41 ॥
मयि दृष्टे तु रक्षोभिः रामस्य विदित-आत्मनः ।
भवेत् व्यर्थम् इदं कार्यं रावण-अनर्थम् इच्छतः ॥ 42 ॥
न हि शक्यं क्वचित् स्थातुम् अविज्ञातेन राक्षसैः ।
अपि राक्षस-रूपेण किम् उत अन्येन केनचित् ॥ 43 ॥
वायुः अपि अत्र न अज्ञातः चरेत् इति मतिः मम ।
न हि अस्ति अविदितं किञ्चित् राक्षसानां बलीयसाम् ॥ 44 ॥
इह अहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।
विनाशम् उपयास्यामि भर्तुः अर्थः च हीयते ॥ 45 ॥
तत् अहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।
लङ्काम् अभिपतिष्यामि राघवस्य अर्थ-सिद्धये ॥ 46 ॥
रावणस्य पुरीं रात्रौ प्रविश्य सु-दुरासदाम् ।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनक-आत्मजाम् ॥ 47 ॥
इति सञ्चिन्त्य हनुमान् सूर्यस्य अस्तमयं कपिः ।
आचकाङ्क्षे तदा वीरः वैदेह्याः दर्शन-उत्सुकः ॥ 48 ॥
सूर्ये च अस्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः ।
पृषदंशक-मात्रः सन् बभूव अद्भुत-दर्शनः ॥ 49 ॥
प्रदोष-काले हनुमान् तूर्णम् उत्प्लुत्य वीर्यवान् ।
प्रविवेश पुरीं रम्यां सु-विभक्त-महा-पथाम् ॥ 50 ॥
प्रासाद-माला-विततां स्तम्भैः काञ्चन-राजतैः ।
शातकुम्भ-मयैः जालैः गन्धर्व-नगर-उपमाम् ॥ 51 ॥
सप्त-भौम-अष्ट-भौमैः च सः ददर्श महा-पुरीम् ।
तलैः स्फाटिक-सङ्कीर्णैः कार्तस्वर-विभूषितैः ॥ 52 ॥
वैडूर्य-मणि-चित्रैः च मुक्ताजाल-विभूषितैः ।
तलैः शुशुभिरे तानि भवनानि अत्र रक्षसाम् ॥ 53 ॥
काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् ।
लङ्काम् उद्योतयामासुः सर्वतः समलङ्कृताम् ॥ 54 ॥
अचिन्त्याम् अद्भुत-आकारां दृष्ट्वा लङ्कां महा-कपिः ।
आसीत् विषण्णः हृष्टः च वैदेह्याः दर्शन-उत्सुकः ॥ 55 ॥
सः पाण्डुर-आविद्ध-विमान-मालिनीं महा-अर्ह-जाम्बूनद-जाल-तोरणाम् ।
यशस्विनीं रावण-बाहु-पालितां क्षपा-चरैः भीम-बलैः समावृताम् ॥ 56 ॥
चन्द्रः अपि साचिव्यम् इव अस्य कुर्वन् तारा-गणैः मध्य-गतः विराजन् ।
ज्योत्स्ना-वितानेन वितत्य लोकम् उत्तिष्ठते न एक-सहस्र-रश्मिः ॥ 57 ॥
शङ्ख-प्रभं क्षीर-मृणाल-वर्णम् उद्गच्छमानं व्यवभासमानम् ।
ददर्श चन्द्रं सः हरि-प्रवीरः पोप्लूयमानं सरसि इव हंसम् ॥ 58 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे द्वितीयः सर्गः ॥

No comments:
Post a Comment