एवम् उक्तः हनूमता रामः दशरथ-आत्मजः ।
तम् मणिम् हृदये कृत्वा प्ररुरोद स-लक्ष्मणः ॥ ५-६६-१ ॥
तम् तु दृष्ट्वा मणि-श्रेष्ठम् राघवः शोक-कर्शितः ।
नेत्राभ्याम् अश्रु-पूर्णाभ्याम् सुग्रीवम् इदम् अब्रवीत् ॥ ५-६६-२ ॥
यथा एव धेनुः स्रवति स्नेहात् वत्सस्य वत्सला ।
तथा मम अपि हृदयम् मणि-रत्नस्य दर्शनात् ॥ ५-६६-३ ॥
मणि-रत्नम् इदम् दत्तम् वैदेह्याः श्वशुरेण मे ।
वधू-काले यथा बद्धम् अधिकम् मूर्ध्नि शोभते ॥ ५-६६-४ ॥
अयम् हि जल-सम्भूतः मणिः प्रवर-पूजितः ।
यज्ञे परम-तुष्टेन दत्तः शक्रेण धीमता ॥ ५-६६-५ ॥
इमम् दृष्ट्वा मणि-श्रेष्ठम् तथा तातस्य दर्शनम् ।
अद्य अस्मि अवगतः सौम्य वैदेहस्य तथा विभोः ॥ ५-६६-६ ॥
अयम् हि शोभते तस्याः प्रियायाः मूर्ध्नि मे मणिः ।
अस्य दर्शनेन अहम् प्राप्ताम् ताम् इव चिन्तये ॥ ५-६६-७ ॥
किम् आह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।
पिपासुम् इव तोयेन सिञ्चन्ती वाक्य-वारिणा ॥ ५-६६-८ ॥
इतः तु किम् दुःख-तरम् यत् इमम् वारि-सम्भवम् ।
मणिम् पश्यामि सौमित्रे वैदेहीम् आगताम् विना ॥ ५-६६-९ ॥
चिरम् जीवति वैदेही यदि मासम् धरिष्यति ।
क्षणम् सौम्य न जीवेयम् विना ताम् असित-ईक्षणाम् ॥ ५-६६-१० ॥
नय माम् अपि तम् देशम् यत्र दृष्टा मम प्रिया ।
न तिष्ठेयम् क्षणम् अपि प्रवृत्तिम् उपलभ्य च ॥ ५-६६-११ ॥
कथम् सा मम सु-श्रोणी भीरुः सती तदा ।
भय-आवहानाम् घोराणाम् मध्ये तिष्ठति रक्षसाम् ॥ ५-६६-१२ ॥
शारदः तिमिर-उन्मुखः नूनम् चन्द्रः इव अम्बुदैः ।
आवृतम् वदनम् तस्याः न विराजति राक्षसैः ॥ ५-६६-१३ ॥
किम् आह सीता हनुमन् तत्त्वतः कथयस्व मे ।
एतेन खलु जीविष्ये भेषजेन आतुरः यथा ॥ ५-६६-१४ ॥
मधुरा मधुर-आलापा किम् आह मम भामिनी ।
मत्-विहीना वर-अरोहा हनुमन् कथयस्व मे ॥ ५-६६-१५ ॥
इति आर्षे श्रीमद्-रामायणे आदि-काव्ये सुन्दर-काण्डे षट्-षष्टितमः सर्गः ॥

No comments:
Post a Comment