Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 67 - சீதையின் செய்தியை அனுமன் இராமனிடம் தெரிவிக்கிறார்.

HOME          PREVIOUS               NEXT

एवम् उक्तः तु हनुमान् राघवेण महा-आत्मना ।
सीतायाः भाषितम् सर्वम् न्यवेदयत राघवे ॥ ५-६७-१ ॥

एवम् उक्तवती देवी जानकी पुरुष-ऋषभ ।
पूर्व-वृत्तम् अभिज्ञानम् चित्र-कूटे यथा तथा ॥ ५-६७-२ ॥

सुख-सुप्ता त्वया सार्धम् जानकी पूर्वम् उत्थिता ।
वायसः सहसा उत्पत्य विरराद स्तन-अन्तरे ॥ ५-६७-३ ॥

पर्यायेण च सुप्तः त्वम् देवि-अङ्के भरत-अग्रज ।
पुनः च किल पक्षी सः देव्याः जनयति व्यथाम् ॥ ५-६७-४ ॥

पुनः पुनः उपागम्य विरराद भृशम् किल ।
ततः त्वम् बोधितः तस्याः शोणितेन समुक्षितः ॥ ५-६७-५ ॥

वायसेन च तेन एव सततम् बाध्यमानया ।
बोधितः किल देव्याः त्वम् सुख-सुप्तः परम्-तप ॥ ५-६७-६ ॥

ताम् तु दृष्ट्वा महा-बाहो रादिताम् च स्तन-अन्तरे ।
आशी-विषः इव क्रुद्धः निःश्वसन् अभ्यभाषथाः ॥ ५-६७-७ ॥

नख-अग्रैः केन ते भीरु दारितम् तु स्तन-अन्तरम् ।
कः क्रीडति सरोषेण पञ्च-वक्त्रेण भोगिना ॥ ५-६७-८ ॥

निरीक्षमाणः सहसा वायसम् समवैक्षथाः ।
नखैः स-रुधिरैः तीक्ष्णैः माम् एव अभिमुखम् स्थितम् ॥ ५-६७-९ ॥

सुतः किल सः शक्रस्य वायसः पतताम् वरः ।
धरा-अन्तर-चरः शीघ्रम् पवनस्य गतौ समः ॥ ५-६७-१० ॥

ततः तस्मिन् महा-बाहो कोप-संवर्तित-ईक्षणः ।
वायसे त्वम् कृत्वा क्रूराम् मतिम् मतिमताम् वर ॥ ५-६७-११ ॥

सः दर्भम् संस्तरात् गृह्य ब्रह्म-अस्त्रेण न्ययोजयः ।
प्रदीप्तः इव काल-अग्निः जज्वाल अभिमुखः खगम् ॥ ५-६७-१२ ॥

क्षिप्तवान् त्वम् प्रदीप्तम् दर्भम् तम् वायसम् प्रति ।
ततः तु वायसम् दीप्तः सः दर्भः अनुजगाम ह ॥ ५-६७-१३ ॥

सः पित्रा च परित्यक्तः सुरैः सर्वैः महा-ऋषिभिः ।
त्रीन् लोकान् सम्परिक्रम्य त्रातारम् न अधिगच्छति ॥ ५-६७-१४ ॥

पुनः एव आगतः त्रस्तः त्वत्-सकाशम् अरि-इन्दम ।
सः तम् निपतितम् भूमौ शरण्यः शरणम् गतम् ।
वध-अर्हम् अपि काकुत्स्थ कृपया परिपालयः ॥ ५-६७-१५ ॥

मोघम् अस्त्रम् न शक्यम् तु कर्तुम् इति एव राघव ।
भवान् तस्य अक्षि काकस्य हिनस्ति स्म सः दक्षिणम् ॥ ५-६७-१६ ॥

राम त्वाम् सः नमः कृत्वा राज्ञः दशरथस्य च ।
विसृष्टः तु तदा काकः प्रतिपेदे खम्-आलयम् ॥ ५-६७-१७ ॥

एवम् अस्त्र-विदाम् श्रेष्ठः सत्त्ववान् शीलवान् अपि ।
किम्-अर्थम् अस्त्रम् राक्षसेषु न योजयसि राघव ॥ ५-६७-१८ ॥

न नागाः न अपि गन्धर्वाः न असुराः न मरुत्-गणाः ।
न च सर्वे रणे शक्ताः रामम् प्रति समासितुम् ॥ ५-६७-१९ ॥

तस्य वीर्यवतः कच्चित् मयि यदि अस्ति सम्भ्रमः ॥ ५-६७-२० ॥

क्षिप्रम् सु-निशितैः बाणैः हन्यताम् युधि रावणः ।

भ्रातुः आदेशम् आदाय लक्ष्मणः वा परम्-तपः ।
सः किम्-अर्थम् नर-वरः न माम् रक्षति राघवः ॥ ५-६७-२१ ॥

शक्तौ तौ पुरुष-व्याघ्रौ वायु-अग्नि-सम-तेजसौ ।
सुराणाम् अपि दुर्धर्षौ किम्-अर्थम् माम् उपेक्षतः ॥ ५-६७-२२ ॥

मम एव दुष्कृतम् किञ्चित् महत् अस्ति न संशयः ।
समर्थौ सहितौ यत् माम् न अपेक्षेते परम्-तपौ ॥ ५-६७-२३ ॥

वैदेह्याः वचनम् श्रुत्वा करुणम् स-अश्रु-भाषितम् ।
पुनः अपि अहम् आर्याम् ताम् इदम् वचनम् अब्रुवम् ॥ ५-६७-२४ ॥

त्वत्-शोक-विमुखः रामः देवि सत्येन ते शपे ।
रामे दुःख-अभिभूते च लक्ष्मणः परितप्यते ॥ ५-६७-२५ ॥

कथञ्चित् भवती दृष्टा न कालः परिशोचितुम् ।
अस्मिन् मुहूर्तम् दुःखानाम् अन्तम् द्रक्ष्यसि भामिनि ॥ ५-६७-२६ ॥

तौ उभौ नर-शार्दूलौ राज-पुत्रौ अरिम्-दमौ ।
त्वत्-दर्शन-कृत-उत्साहौ लङ्काम् भस्मी करिष्यतः ॥ ५-६७-२७ ॥

हत्वा च समरे रौद्रम् रावणम् सह-बान्धवम् ।
राघवः त्वाम् महा-बाहुः स्वाम् पुरीम् नयते ध्रुवम् ॥ ५-६७-२८ ॥

यत् तु रामः विजानीयात् अभिज्ञानम् अनिन्दिते ।
प्रीति-सञ्जननम् तस्य प्रदातुम् तत्त्वम् अर्हसि ॥ ५-६७-२९ ॥

सा अभिवीक्ष्य दिशः सर्वाः वेणी-उद्ग्रथनम् उत्तमम् ।
मुक्त्वा वस्त्रात् ददौ मह्यम् मणिम् एतम् महा-बल ॥ ५-६७-३० ॥

प्रतिगृह्य मणिम् दिव्यम् तव हेतोः रघु-उत्तम ।
शिरसा सम्प्रणम्य एनाम् अहम् आगमने त्वरे ॥ ५-६७-३१ ॥

गमने च कृत-उत्साहम् अवेक्ष्य वर-वर्णिनी ।
विवर्धमानम् च हि माम् उवाच जनक-आत्मजा ॥ ५-६७-३२ ॥

अश्रु-पूर्ण-मुखी दीना बाष्प-सन्दिग्ध-भाषिणी ।
मम उत्पतन-सम्भ्रान्ता शोक-वेग-समाहता ॥ ५-६७-३३ ॥

हनुमन् सिंह-सङ्काशौ तौ उभौ राम-लक्ष्मणौ ।
सुग्रीवम् च सह-अमात्यम् सर्वान् ब्रूयाः अनामयम् ॥ ५-६७-३४ ॥

यथा च सः महा-बाहुः माम् तारयति राघवः ।
अस्मात् दुःख-अम्बु-सम्रोधात् तत् समाधातुम् अर्हसि ॥ ५-६७-३५ ॥

इमम् च तीव्रम् मम शोक-वेगम् ।
रक्षोभिः एभिः परिभर्त्सनम् च ।
ब्रूयाः तु रामस्य गतः समीपम् ।
शिवः च ते अध्वा अस्तु हरि-प्रवीर ॥ ५-६७-३६ ॥

एतत् तव आर्या नृप-राज-सिंह ।
सीता वचः प्राह विषाद-पूर्वम् ।
एतत् च बुद्ध्वा गदितम् मया त्वम् ।
श्रद्धत्स्व सीताम् कुशलाम् समग्राम् ॥ ५-६७-३७ ॥

इति आर्षे श्रीमद्-रामायणे आदि-काव्ये सुन्दर-काण्डे सप्त-षष्टितमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: