Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 14 - சீதை அழகிய அசோக வனத்திற்கு வந்திருக்கலாம் என்று நம்புகிறார்.

HOME          PREVIOUS               NEXT

स मुहूर्तम् इव ध्यात्वा मनसा च अधिगम्य ताम् ।
अवप्लुतः महा-तेजाः प्राकारं तस्य वेश्मनः ॥ 1 ॥

स तु संहृष्ट-सर्व-अंगः प्राकार-स्थः महा-कपिः ।
पुष्पित-अग्रान् वसन्त-आदौ ददर्श विविधान् द्रुमान् ॥ 2 ॥

सालान् अशोकान् भव्यान् च चम्पकान् च सु-पुष्पितान् ।
उद्दालकान् नाग-वृक्षान् च ऊतान् कपि-मुखान् अपि ॥ 3 ॥

अथ आम्र-वण-संछन्नाम् लता-शत-समावृताम् ।
ज्या-मुक्तः इव नाराचः पुप्लुवे वृक्ष-वाटिकाम् ॥ 4 ॥

स प्रविश्य विचित्राम् ताम् विहगैः अभिनादिताम् ।
राजतैः काञ्चनैः च एव पादपैः सर्वतः वृताम् ॥ 5 ॥

विहगैः मृग-संघैः च विचित्राम् चित्र-काननाम् ।
उदित-आदित्य-संकाशाम् dददर्श हनुमान् कपिः ॥ 6 ॥

वृताम् नाना-विधैः वृक्षैः पुष्प-उपग-फल-उपगैः ।
कोकिलैः भृंग-राजैः च मत्तैः नित्य-निषेविताम् ॥ 7 ॥

प्रहृष्ट-मनुजे काले मृग-पक्षि-समाकुले ।
मत्त-बर्हिण-संघुष्टाम् नाना-द्विज-गण-आयुताम् ॥ 8 ॥

मार्गमाणः वर-आरोहाम् राज-पुत्रीम् अनिन्दिताम् ।
सुख-प्रसुप्तान् विहगान् बोधयामास वानरः ॥ 9 ॥

उत्पतद्भिः द्विज-गणैः पक्षैः सालाः समाहताः ।
अनेक-वर्णाः विविधाः मुमुचुः पुष्प-वृष्टयः ॥ 10 ॥

पुष्प-अवकीर्णः शुशुभे हनुमान् मारुत-आत्मजः ।
अशोक-वनिका-मध्ये यथा पुष्प-मयः गिरिः ॥ 11 ॥

दिशः सर्वाः प्रधावन्तम् वृक्ष-षण्ड-गतम् कपिम् ।
दृष्ट्वा सर्वाणि भूतानि वसन्तः इति मेनिरे ॥ 12 ॥

वृक्षेभ्यः पतितैः पुष्पैः अवकीर्णा पृथक्-विधैः ।
रराज वृक्षेभ्यः तत्र प्रमदा इव विभूषिता ॥ 13 ॥

तरस्विना ते तरवः तरसा अभि-प्रकम्पिताः ।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ 14 ॥

निर्धूत-पत्र-शिखराः शीर्ण-पुष्प-फलाः द्रुमाः ।
निक्षिप्त-वस्त्र-आभरणाः धूर्ताः इव पराजिताः ॥ 15 ॥

हनूमता वेगवता कम्पिताः ते नग-उत्तमाः ।
पुष्प-पर्ण-फलानि आशु मुमुचुः पुष्प-शालिनः ॥ 16 ॥

विहंग-संघैः हीनाः ते स्कन्ध-मात्र-आश्रयाः द्रुमाः ।
बभूवुः अगमाः सर्वे मारुतेन इव निर्धूताः ॥ 17 ॥

निर्धूत-केशी युवतिः यथा मृदित-वर्णका ।
निष्पीत-शुभ-दन्त-ओष्ठी नखैः दन्तैः च विक्षता ॥ 18 ॥

तथा लाङ्गूल-हस्तैः च चरणाभ्याम् च मर्दिता ।
बभूव अशोक-वनिका प्रभग्न-वर-पादपा ॥ 19 ॥

महा-लतानाम् दामानि व्यथयामास तरसा कपिः ।
यथा प्रावृषि विंध्यस्य मेघ-जालानि मारुतः ॥ 20 ॥

स तत्र मणि-भूमीः च राजतीः च मनो-रमाः ।
तथा काञ्चन-भूमीः च ददर्श विचरन् कपिः ॥ 21 ॥

वापीः च विविध-आकाराः पूर्णाः परम-वारिणा ।
महा-अर्हैः मणि-सोपानैः उपपन्नाः ततः ततः ॥ 22 ॥

मुक्ता-प्रवाल-सिकताः स्फाटिक-अन्तर-कुट्टिमाः ।
काञ्चनैः तरुभिः चित्रैः तीर-जैः उपशोभिताः ॥ 23 ॥

फुल्ल-पद्म-उत्पल-वनाः चक्रवाक-उपकूजिताः ।
नत्यूह-रुत-संघुष्टाः हंस-सारस-नादिताः ॥ 24 ॥

दीर्घाभिः द्रुम-युक्ताभिः सरद्भिः च समन्ततः ।
अमृत-उपम-तोयाभिः शिवाभिः उपसंस्कृताः ॥ 25 ॥

लता-शतैः अवतताः सन्तान-कुसुम-आवृताः ।
नाना-गुल्म-आवृत-घनाः करवीर-कृत-अन्तराः ॥ 26 ॥

वापीः च विविध-आकाराः पूर्णाः परम-वारिणा ।
महा-अर्हैः मणि-सोपानैः उपपन्नाः ततः ततः ॥ 27 ॥

मुक्ता-प्रवाल-सिकताः स्फाटिक-अन्तर-कुट्टिमाः ।
काञ्चनैः तरुभिः चित्रैः तीर-जैः उपशोभितैः ॥ 28 ॥

फुल्ल-पद्म-उत्पल-वनाः चक्रवाक-उपकूजिताः ।
नत्यूह-रुत-संघुष्टाः हंस-सारस-नादिताः ॥ 29 ॥

दीर्घाभिः द्रुम-युक्ताभिः सरद्भिः च समन्ततः ।
अमृत-उपम-तोयाभिः शिवाभिः उपसंस्कृताः ॥ 30 ॥

लता-शतैः अवतताः सन्तान-कुसुम-आवृताः ।
नाना-गुल्म-आवृत-घनाः करवीर-кृत-अन्तराः ॥ 31 ॥

ततः अम्बुधर-संकाशम् प्रवृद्ध-शिखरम् गिरिम् ।
विचित्र-कूटम् कूटैः च सर्वतः परिवारितम् ॥ 32 ॥

शिला-गृहैः अवततम् नाना-वृक्षैः समावृतम् ।
ददर्श हरि-शार्दूलः रम्यम् जगति पर्वतम् ॥ 33 ॥

ददर्श च नगात् तस्मात् नदीम् निपतिताम् कपिः ।
अङ्कात् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥ 34 ॥

जले निपतित-अग्रैः च पादपैः उपशोभिताम् ।
वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय-बन्धुभिः ॥ 35 ॥

पुनः-आवृत्त-तोयाम् च ददर्श स महा-कपिः ।
प्रसन्नाम् इव कान्तस्य कान्ताम् पुनः उपस्थिताम् ॥ 36 ॥

तस्याः दूरात् स-पद्मिन्यः नाना-द्विज-गण-आयुताः ।
ददर्श हरि-शार्दूलः हनुमान् मारुत-आत्मजः ॥ 37 ॥

कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा ।
मणि-प्रवर-सोपानाम् मुक्तासिकत-शोभिताम् ॥ 38 ॥

विविधैः मृग-संघैः च विचित्राम् चित्र-काननाम् ।
प्रासादैः सु-महत्भिः च निर्मितैः विश्व-कर्मणा ॥ 39 ॥

काननैः कृत्रिमैः च अपि सर्वतः समलंकृताम् ।
ये केचित् पादपाः तत्र पुष्प-उपग-फल-उपगाः ॥ 40 ॥

स-च्छत्राः स-वितर्दीकाः सर्वे सौवर्ण-वेदिकाः ।
लता-प्रतानैः बहुभिः पर्णैः च बहुभिः वृताम् ॥ 41 ॥

काञ्चनीम् शिंशुपाम् एकाम् ददर्श हरि-यूथ-पः ।
वृताम् हेम-मयीभिः तु वेदिकाभिः समन्ततः ॥ 42 ॥

सः अपश्यत् भूमि-भागान् च गर्त-प्रस्रवणानि च ।
सुवर्ण-वृक्षान् अपरान् ददर्श शिखि-सन्निभान् ॥ 43 ॥

तेषाम् द्रुमाणाम् प्रभया मेरोः इव दिवाकरः ।
अमन्यत तदा वीरः काञ्चनः अस्मि इति वानरः ॥ 44 ॥

ताम् काञ्चनैः तरु-गणैः मारुतेन च वीजिताम् ।
किङ्किणी-शत-निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥ 45 ॥

स पुष्पित-अग्राम् रुचिराम् तरुण-अङ्कुर-पल्लवाम् ।
ताम् आरुह्य महा-बाहुः शिंशुपाम् पर्ण-संवृताम् ॥ 46 ॥

इतः द्रक्ष्यामि वैदेहीम् राम-दर्शन-लालसाम् ।
इतः च इतः च दुःख-आर्ताम् सम्पतन्तीम् यदृच्छया ॥ 47 ॥

अशोक-वनिका च इयम् दृढम् रम्या दुरात्मनः ।
चम्पकैः चन्दनैः च अपि वकुलैः च विभूषिता ॥ 48 ॥

इयम् च नलिनी रम्या द्विज-संघ-निषेविता ।
इमाम् सा राम-महिषी नूनम् एष्यति जानकी ॥ 49 ॥

सा रामा राम-महिषी राघवस्य प्रिया सती ।
वन-संचार-कुशला नूनम् एष्यति जानकी ॥ 50 ॥

अथवा मृग-शाब-अक्षी वनस्य अस्य विचक्षणा ।
वनम् एष्यति सा आर्या इह राम-चिन्ता-अनुकर्शिता ॥ 51 ॥

राम-शोक-अभिसन्तप्ता सा देवी वाम-लोचना ।
वन-वासे रता नित्यम् एष्यते वन-चारिणी ॥ 52 ॥

वने-चराणाम् सततम् नूनम् स्पृहयते पुरा ।
रामस्य दयिता भार्या जनकस्य सुता सती ॥ 53 ॥

सन्ध्या-काल-मनाः श्यामा ध्रुवम् एष्यति जानकी ।
नदीम् च इमाम् शुभ-जलाम् सन्ध्या-अर्थे वर-वर्णिनी ॥ 54 ॥

तस्याः च अपि अनुरूपा इयम् अशोक-वनिका शुभा ।
शुभा या पार्थिव-इन्द्रस्य पत्नी रामस्य सम्मता ॥ 55 ॥

यदि जीवति सा देवी तारा-अधिप-निभ-आनना ।
आगमिष्यति सा अवश्यम् इमाम् शिव-जलाम् नदीम् ॥ 56 ॥

एवम् तु मत्वा हनुमान् महा-आत्मा प्रतीक्षमाणः मनुज-इन्द्र-पत्नीम् ।
अवेक्षमाणः च ददर्श सर्वम् सु-पुष्पिते पर्ण-घने निलीनः ॥ 57 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे चतुर्दशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: