सः लम्ब-शिखरे लम्बे लम्ब-तोयद-सन्निभे ।
सत्त्वम् आस्थाय मेधावी हनुमान् मारुत-आत्मजः ॥ 1 ॥
निशि लङ्कां महा-सत्त्वः विवेश कपि-कुञ्जरः ।
रम्य-कानन-तोय-आढ्यां पुरीं रावण-पालिताम् ॥ 2 ॥
शारद-अम्बुधर-प्रख्यैः भवनैः उपशोभिताम् ।
सागर-उपम-निर्घोषां सागर-अनिल-सेविताम् ॥ 3 ॥
सु-पुष्ट-बल-सम्पुष्टां यथा एव विटपावतीम् ।
चारु-तोरण-निर्यूहां पाण्डुर-द्वार-तोरणाम् ॥ 4 ॥
भुजग-आचरितां गुप्तां शुभां भोगवतीम् इव ।
तां सः विद्युत्-घन-आकीर्णां ज्योतिः-मार्ग-निषेविताम् ॥ 5 ॥
मन्द-मारुत-सञ्चारां यथा इन्द्रस्य अमरावतीम् ।
शात-कुम्भेन महता प्राकारेण अभिसंवृताम् ॥ 6 ॥
किङ्किणी-जाल-घोषाभिः पताकाभिः अलङ्कृताम् ।
आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् ॥ 7 ॥
विस्मय-आविष्ट-हृदयः पुरीम् आलोक्य सर्वतः ।
जाम्बूनद-मयैः द्वारैः वैडूर्य-कृत-वेदिकैः ॥ 8 ॥
वज्र-स्फटिक-मुक्ताभिः मणि-कुट्टिम-भूषितैः ।
तप्त-हाटक-निर्यूहैः रजत-अमल-पाण्डुरैः ॥ 9 ॥
वैडूर्य-कृत-सोपानैः स्फाटिक-अन्तर-पांसुभिः ।
चारु-सञ्जवन-उपेतैः खम् इव उत्पतितैः शुभैः ॥ 10 ॥
क्रौञ्च-बर्हिण-सङ्घुष्टैः राज-हंस-निषेवितैः ।
तूर्य-आभरण-निर्घोषैः सर्वतः प्रतिनादिताम् ॥ 11 ॥
वस्वौकसार-प्रतिमां तां वीक्ष्य नगरीं ततः ।
खम् इव उत्पतितुं कामां जहर्ष हनुमान् कपिः ॥ 12 ॥
तां समीक्ष्य पुरीं रम्यां राक्षस-अधिपतेः शुभाम् ।
अनुत्तमाम् ऋद्धि-युतां चिन्तयामास वीर्यवान् ॥ 13 ॥
न इयम् अन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावण-बलैः उद्यत-आयुध-धारिभिः ॥ 14 ॥
कुमुद-अङ्गदयोः वा अपि सुषेणस्य महा-कपेः ।
प्रसिद्धा इयं भवेत् भूमिः मैन्द-द्विविदयोः अपि ॥ 15 ॥
विवस्वतः तनूजस्य हरेः च कुश-पर्वणः ।
ऋक्षस्य केतुमालस्य मम च एव गतिः भवेत् ॥ 16 ॥
समीक्ष्य तु महा-बाहोः राघवस्य पराक्रमम् ।
लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः ॥ 17 ॥
तां रत्न-वसन-उपेतां कोष्ठ-आगार-वतंसकाम् ।
यन्त्र-आगार-स्तनीम् ऋद्धां प्रमदाम् इव भूषिताम् ॥ 18 ॥
तां नष्ट-तिमिरां दीप्तैः भास्वरैः च महा-गृहैः ।
नगरीं राक्षस-इन्द्रस्य सः ददर्श महा-कपिः ॥ 19 ॥
अथ सा हरि-शार्दूलं प्रविशन्तं महा-बलम् ।
नगरी स्वेन रूपेण ददर्श पवन-आत्मजम् ॥ 20 ॥
सा तं हरि-वरं दृष्ट्वा लङ्का रावण-पालिता ।
स्वयम् एव उत्थिता तत्र विकृत-आनन-दर्शना ॥ 21 ॥
पुरस्तात् कपि-वर्यस्य वायु-सूनोः अतिष्ठत ।
मुञ्चमाना महा-नादम् अब्रवीत् पवन-आत्मजम् ॥ 22 ॥
कः त्वम् केन च कार्येण इह प्राप्तः वन-आलय ।
कथयस्व इह यत् तत्त्वं यावत् प्राणाः धरन्ति ते ॥ 23 ॥
न शक्यम् खलु इयं लङ्का प्रवेष्टुं वानर त्वया ।
रक्षिता रावण-बलैः अभिगुप्ता समन्ततः ॥ 24 ॥
अथ ताम् अब्रवीत् वीरः हनुमान् अग्रतः स्थिताम् ।
कथयिष्यामि ते तत्त्वं यत् माम् त्वं परिपृच्छसि ॥ 25 ॥
का त्वं विरूप-नयना पुर-द्वारे अवतिष्ठसि ।
किम्-अर्थम् च अपि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ 26 ॥
हनुमत्-वचनं श्रुत्वा लङ्का सा काम-रूपिणी ।
उवाच वचनं क्रुद्धा परुषं पवन-आत्मजम् ॥ 27 ॥
अहम् राक्षस-राजस्य रावणस्य महा-आत्मनः ।
आज्ञा-प्रतीक्षा दुर्धर्षा रक्षामि नगरीम् इमाम् ॥ 28 ॥
न शक्या माम् अवज्ञाय प्रवेष्टुं नगरी त्वया ।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतः मया ॥ 29 ॥
अहम् हि नगरी लङ्का स्वयम् एव प्लवङ्गम ।
सर्वतः परिरक्षामि हि एतत् ते कथितं मया ॥ 30 ॥
लङ्कायाः वचनं श्रुत्वा हनुमान् मारुत-आत्मजः ।
यत्नवान् सः हरि-श्रेष्ठः स्थितः शैलः इव अपरः ॥ 31 ॥
सः तां स्त्री-रूप-विकृतां दृष्ट्वा वानर-पुङ्गवः ।
आबभाषे अथ मेधावी सत्त्ववान् प्लवग-ऋषभः ॥ 32 ॥
द्रक्ष्यामि नगरीं लङ्कां स-अट्ट-प्राकार-तोरणाम् ।
निर्विशङ्कम् इमम् लोकं पश्यन्त्याः तव साम्प्रतम् ।
इति-अर्थम् इह सम्प्राप्तः परं कौतूहलं हि मे ॥ 33 ॥
वनानि उपवनानि इह लङ्कायाः काननानि च ।
सर्वतः गृह-मुख्यानि द्रष्टुम् आगमनं हि मे ॥ 34 ॥
तस्य तत् वचनं श्रुत्वा लङ्का सा काम-रूपिणी ।
भूयः एव पुनः वाक्यं बभाषे परुष-अक्षरम् ॥ 35 ॥
माम् अनिर्जित्य दुर्बुद्धे राक्षस-ईश्वर-पालिताम् ।
न शक्यम् अद्य ते द्रष्टुं पुरी इयं वानर-अधम ॥ 36 ॥
ततः सः कपि-शार्दूलः ताम् उवाच निशाचरीम् ।
दृष्ट्वा पुरीम् इमां भद्रे पुनः यास्ये यथा-आगतम् ॥ 37 ॥
ततः कृत्वा महा-नादं सा वै लङ्का भयावहम् ।
तलेन वानर-श्रेष्ठं ताडयामास वेगिता ॥ 38 ॥
ततः सः कपि-शार्दूलः लङ्कया ताडितः भृशम् ।
ननाद सु-महा-नादं वीर्यवान् पवन-आत्मजः ॥ 39 ॥
ततः संवर्तयामास वाम-हस्तस्य सः अङ्गुलीः ।
मुष्टिना अभिजघान एनां हनुमान् क्रोध-मूर्छितः ॥ 40 ॥
स्त्री च इति मन्यमानेन न अति-क्रोधः स्वयम् कृतः ।
सा तु तेन प्रहारेण विह्वल-अङ्गी निशाचरी ॥ 41 ॥
पपात सहसा भूमौ विकृत-आनन-दर्शना ।
ततः तु हनुमान् प्राज्ञः तां दृष्ट्वा विनिपातिताम् ॥ 42 ॥
कृपां चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम् ।
ततः वै भृश-संविग्ना लङ्का सा गद्गद-अक्षरम् ॥ 43 ॥
उवाच अ-गर्वितं वाक्यं हनूमन्तं प्लवङ्गमम् ।
प्रसीद सु-महा-बाहो त्रायस्व हरि-सत्तम ॥ 44 ॥
समये सौम्य तिष्ठन्ति सत्त्ववन्तः महा-बलाः ।
अहम् तु नगरी लङ्का स्वयम् एव प्लवङ्गम ॥ 45 ॥
निर्जिता अहं त्वया वीर विक्रमेण महा-बल ।
इदं तु तथ्यं शृणु वै ब्रुवन्त्याः मे हरि-ईश्वर ॥ 46 ॥
स्वयम्भुवा पुरा दत्तं वर-दानं यथा मम ।
यदा त्वां वानरः कश्चित् विक्रमात् वशम् आनयेत् ॥ 47 ॥
तदा त्वया हि विज्ञेयं रक्षसां भयम् आगतम् ।
सः हि मे समयः सौम्य प्राप्तः अद्य तव दर्शनात् ॥ 48 ॥
स्वयम्भू-विहितः सत्यः न तस्य अस्ति व्यतिक्रमः ।
सीता-निमित्तं राज्ञः तु रावणस्य दुरात्मनः ॥ 49 ॥
रक्षसां च एव सर्वेषां विनाशः समुपागतः ।
तत् प्रविश्य हरि-श्रेष्ठ पुरीं रावण-पालिताम् ॥ 50 ॥
विधत्स्व सर्व-कार्याणि यानि यानि इह वाञ्छसि ।
प्रविश्य शाप-उपहतां हरि-ईश्वर शुभां पुरीं राक्षस-मुख्य-पालिताम् ।
यदृच्छया त्वं जनक-आत्मजां सतीं विमार्ग सर्वत्र गतः यथा-सुखम् ॥ 51 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे तृतीयः सर्गः ॥

No comments:
Post a Comment