सीता तत् वचनं श्रुत्वा पूर्ण-चन्द्र-निभ-आनना ।
हनूमन्तम् उवाच इदं धर्म-अर्थ-सहितं वचः ॥ 1 ॥
अमृतं विष-संसृष्टं त्वया वानर भाषितम् ।
यत् च न अन्य-मनाः रामः यत् च शोक-परायणः ॥ 2 ॥
ऐश्वर्ये वा सु-विस्तीर्णे व्यसने वा सु-दारुणे ।
रज्जुः इव पुरुषं बद्ध्वा कृत-अन्तः परिकर्षति ॥ 3 ॥
विधिः नूनम् असंहार्यः प्राणिनां प्लवग-उत्तम ।
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ 4 ॥
शोकस्य अस्य कदा पारं राघवः अधिगमिष्यति ।
प्लवमानः परिश्रान्तः हत-नौः सागरे यथा ॥ 5 ॥
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
लङ्काम् उन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ 6 ॥
सः वाच्यः सन्त्वरस्व इति यावत् एव न पूर्यते ।
अयं संवत्सरः कालः तावत् हि मम जीवितम् ॥ 7 ॥
वर्तते दशमः मासः द्वौ तु शेषौ प्लवङ्गम ।
रावणेन नृशंसेन समयः यः कृतः मम ॥ 8 ॥
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ 9 ॥
मम प्रतिप्रदानं हि रावणस्य न रोचते ।
रावणं मार्गते संख्ये मृत्युः काल-वशं गतम् ॥ 10 ॥
ज्येष्ठा कन्या नला नाम विभीषण-सुता कपे ।
तया मम इदम् आख्यातं मात्रा प्रहितया स्वयम् ॥ 11 ॥
असंशयं हरि-श्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
अन्तर-आत्मा च मे शुद्धः तस्मिन् च बहवः गुणाः ॥ 12 ॥
उत्साहः पौरुषं सत्त्वम् आनृशंस्यं कृतज्ञता ।
विक्रमः च प्रभावः च सन्ति वानर राघवे ॥ 13 ॥
चतुर्दश-सहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कः तस्य न उद्विजेत् ॥ 14 ॥
न सः शक्यः तुलयितुं व्यसनैः पुरुष-ऋषभः ।
अहं तस्य प्रभाव-ज्ञा शक्रस्य इव पुलोमजा ॥ 15 ॥
शर-जाल-अंशुमान् शूरः कपे राम-दिवाकरः ।
शत्रु-रक्षः-मयं तोयम् उपशोषं नयिष्यति ॥ 16 ॥
इति संजल्पमानां तां राम-अर्थे शोक-कर्शिताम् ।
आश्रु-संपूर्ण-नयनाम् उवाच वचनं कपिः ॥ 17 ॥
श्रुत्वा एव तु वचः मह्यं क्षिप्रम् एष्यति राघवः ।
चमूं प्रकर्षन् महतीं हरि-ऋक्ष-गण-सङ्कुलाम् ॥ 18 ॥
अथवा मोचयिष्यामि त्वाम् अद्य एव वर-आनने ।
अस्मात् दुःखात् उपारोह मम पृष्ठम् अनिन्दिते ॥ 19 ॥
त्वां हि पृष्ठ-गतां कृत्वा संतरिष्यामि सागरम् ।
शक्तिः अस्ति हि मे वोढुं लङ्काम् अपि स-रावणाम् ॥ 20 ॥
अहं प्रस्रवण-स्थाय राघवाय अद्य मैथिलि ।
प्रापयिष्यामि शक्राय हव्यं हुतम् इव अनलः ॥ 21 ॥
द्रक्ष्यसि अद्य एव वैदेहि राघवं सह-लक्ष्मणम् ।
व्यवसाय-समायुक्तं विष्णुं दैत्य-वधे यथा ॥ 22 ॥
त्वत्-दर्शन-कृत-उत्साहम् आश्रम-स्थं महा-बलम् ।
पुरन्दरम् इव आसीनं नाग-राजस्य मूर्धनि ॥ 23 ॥
पृष्ठम् आरोह मे देवि मा विकाङ्क्षस्व शोभने ।
योगम् अन्विच्छ रामेण शशाङ्केन इव रोहिणी ॥ 24 ॥
कथयन्ती इव चन्द्रेण सूर्येण च महा-अर्चिषा ।
मत्-पृष्ठम् अधिरुह्य त्वं तर आकाश-महा-अर्णवौ ॥ 25 ॥
न हि मे संप्रयातस्य त्वाम् इतः नयतः अङ्गने ।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्का-निवासिनः ॥ 26 ॥
यथा एव अहम् इह प्राप्तः तथा एव अहम् असंशयः ।
यास्यामि पश्य वैदेहि त्वाम् उद्यम्य विहायसम् ॥ 27 ॥
मैथिली तु हरि-श्रेष्ठात् श्रुत्वा वचनम् अद्भुतम् ।
हर्ष-विस्मित-सर्व-अङ्गी हनूमन्तम् अथ अब्रवीत् ॥ 28 ॥
हनुमन् दूरम् अध्वानं कथं मां वोढुम् इच्छसि ।
तत् एव खलु ते मन्ये कपित्वं हरि-यूथप ॥ 29 ॥
कथं वा अल्प-शरीरः त्वं माम् इतः नेतुम् इच्छसि ।
सकाशं मानवेन्द्रस्य भर्तुः मे प्लवग-ऋषभ ॥ 30 ॥
सीतायाः वचनं श्रुत्वा हनूमान् मारुत-आत्मजः ।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ॥ 31 ॥
न मे जानाति सत्त्वं वा प्रभावं वा असित-ईक्षणा ।
तस्मात् पश्यतु वैदेही यत्-रूपं मम कामतः ॥ 32 ॥
इति सञ्चिन्त्य हनुमान् तदा प्लवग-सत्तमः ।
दर्शयामास वैदेह्याः स्वरूपम् अरि-मर्दनः ॥ 33 ॥
सः तस्मात् पादपात् धीमान् आप्लुत्य प्लवग-ऋषभः ।
ततः वर्धितुम् आरभे सीता-प्रत्यय-कारणात् ॥ 34 ॥
मेरु-मन्दर-सङ्काशः बभौ दीप्त-अनल-प्रभः ।
अग्रतः व्यवतस्थे च सीतायाः वानर-उत्तमः ॥ 35 ॥
हरिः पर्वत-सङ्काशः ताम्र-वक्त्रः महा-बलः ।
वज्र-दंष्ट्र-नखः भीमः वैदेहीम् इदम् अब्रवीत् ॥ 36 ॥
स-पर्वत-वन-उद्देशां स-अट्ट-प्राकार-तोरणाम् ।
लङ्काम् इमां सनाथां वा नयितुं शक्तिः अस्ति मे ॥ 37 ॥
तत् अवस्थाप्यतां बुद्धिः अलं देवि विकाङ्क्षया ।
विशोकं कुरु वैदेहि राघवं सह-लक्ष्मणम् ॥ 38 ॥
तं दृष्ट्वा भीम-सङ्काशम् उवाच जनक-आत्मजा ।
पद्म-पत्र-विशाल-अक्षी मारुतस्य औरसं सुतम् ॥ 39 ॥
तव सत्त्वं बलं च एव विजानामि महा-कपे ।
वायोः इव गतिं च एव तेजः च अग्नेः इव अद्भुतम् ॥ 40 ॥
प्राकृतः अन्यः कथं च इमां भूमिम् आगन्तुम् अर्हति ।
उदधेः अप्रमेयस्य पारं वानर-पुङ्गव ॥ 41 ॥
जानामि गमने शक्तिं नयने च अपि ते मम ।
अवश्यं संप्रधार्य आशु कार्य-सिद्धिः महा-आत्मनः ॥ 42 ॥
अयुक्तं तु कपि-श्रेष्ठ मम गन्तुं त्वया अनघ ।
वायु-वेग-सवेगस्य वेगः मां मोहयेत् तव ॥ 43 ॥
अहम् आकाशम् आपन्ना हि उपरि-उपरि सागरम् ।
प्रपतेयं हि ते पृष्ठात् भयात् वेगेन गच्छतः ॥ 44 ॥
पतिता सागरे च अहं तिमि-नक्र-झष-आकुले ।
भवेयम् आशु विवशा यादसाम् अन्नम् उत्तमम् ॥ 45 ॥
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रु-विनाशन ।
कलत्र-वति सन्देहः त्वयि अपि स्यात् असंशयः ॥ 46 ॥
ह्रियमाणां तु मां दृष्ट्वा राक्षसाः भीम-विक्रमाः ।
अनुगच्छेयुः आदिष्टाः रावणेन दुरात्मना ॥ 47 ॥
तैः त्वं परिवृतः शूरैः शूल-मुद्गर-पाणिभिः ।
भवेत् त्वं संशयं प्राप्तः मया वीर कलत्रवान् ॥ 48 ॥
स-आयुधाः बहवः व्योम्नि राक्षसाः त्वं निरायुधः ।
कथं शक्ष्यसि संयातुं मां च एव परिरक्षितुम् ॥ 49 ॥
युध्यमानस्य रक्षोभिः तव तैः क्रूर-कर्मभिः ।
प्रपतेयं हि ते पृष्ठात् भय-आर्ता कपि-सत्तम ॥ 50 ॥
अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।
कथंचित् सांपराये त्वां जयेयुः कपि-सत्तम ॥ 51 ॥
अथवा युध्यमानस्य पतेयं विमुखस्य ते ।
पतितां च गृहीत्वा मां नयेयुः पाप-राक्षसाः ॥ 52 ॥
मां वा हरेयुः त्वत्-हस्तात् विशसेयुः अथ अपि वा ।
अव्यवस्थौ हि दृश्येते युद्धे जय-पराजयौ ॥ 53 ॥
अहं वा अपि विपद्येयं रक्षोभिः अभितर्जिता ।
त्वत्-प्रयत्नः हरि-श्रेष्ठ भवेत् निष्फलः एव तु ॥ 54 ॥
कामं त्वम् असि पर्याप्तः निहन्तुं सर्व-राक्षसान् ।
राघवस्य यशः हीयेत् त्वया शस्तैः तु राक्षसैः ॥ 55 ॥
अथवा आदाय रक्षांसि न्यसेयुः संवृते हि माम् ।
यत्र ते न अभिजानीयुः हरयः न अपि राघवौ ॥ 56 ॥
आरम्भः तु मद्-अर्थः अयं ततः तव निरर्थकः ।
त्वया हि सह रामस्य महान् आगमने गुणः ॥ 57 ॥
मयि जीवितम् आयत्तं राघवस्य महा-आत्मनः ।
भ्रातॄणां च महा-बाहो तव राज-कुलस्य च ॥ 58 ॥
तौ निराशौ मद्-अर्थं तु शोक-सन्ताप-कर्शितौ ।
सह सर्व-ऋक्ष-हरिभिः त्यक्ष्यतः प्राण-संग्रहम् ॥ 59 ॥
भर्तुः भक्तिं पुरस्कृत्य रामात् अन्यस्य वानर ।
न स्पृशामि शरीरं तु पुंसः वानर-पुङ्गव ॥ 60 ॥
यत् अहं गात्र-संस्पर्शं रावणस्य बलात् गता ।
अनीशा किं करिष्यामि विना-था विवशा सती ॥ 61 ॥
यदि रामः दश-ग्रीवम् इह हत्वा स-बान्धवम् ।
माम् इतः गृह्य गच्छेत् तत् तस्य सदृशं भवेत् ॥ 62 ॥
श्रुताः हि दृष्टाः च मया पराक्रमाः महा-आत्मनः तस्य रण-अवमर्दिनः ।
न देव-गन्धर्व-भुजङ्ग-राक्षसाः भवन्ति रामेण समाः हि संयुगे ॥ 63 ॥
समीक्ष्य तं संयति चित्र-कार्मुकं महा-बलं वासव-तुल्य-विक्रमम् ।
स-लक्ष्मणं कः विषहेत् राघवं हुत-अशनं दीप्तम् इव अनिल-ईरितम् ॥ 64 ॥
स-लक्ष्मणं राघवम् आजि-मर्दनं दिग्-गजं मत्तम् इव व्यवस्थितम् ।
सहेत कः वानर-मुख्य संयुगे युग-अन्त-सूर्य-प्रतिमं शर-अर्चिषम् ॥ 65 ॥
सः मे हरि-श्रेष्ठ स-लक्ष्मणं पतिं स-यूथपं क्षिप्रम् इह उपपादय ।
चिराय रामं प्रति शोक-कर्शितां कुरुष्व मां वानर-मुख्य हर्षिताम् ॥ 66 ॥
इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे सप्त-त्रिंशः सर्गः ॥

No comments:
Post a Comment