Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 10 - மதுபோதையில் இசைக்கருவிகளை அணைத்தபடி உறங்கும் பெண்களைக் காண்கிறார்; மண்டோதரியை சீதை என்று தவறாக எண்ணுகிறார்.

 

HOME          PREVIOUS               NEXT

तत्र दिव्य-उपमं मुख्यं स्फाटिकं रत्न-भूषितम् ।
अवेक्षमाणः हनुमान् ददर्श शयन-आसनम् ॥ 1 ॥

दन्त-काञ्चन-चित्र-अङ्गैः वैडूर्यैः च वर-आसनैः ।
महार्ह-आस्तरण-उपेतैः उपपन्नं महा-धनैः ॥ 2 ॥

तस्य च एकतमे देशे सः अग्र्य-माला-विभूषितम् ।
ददर्श पाण्डुरं छत्रं तारा-अधिपति-सन्निभम् ॥ 3 ॥

जात-रूप-परिक्षिप्तं चित्र-भानु-सम-प्रभम् ।
अशोक-माला-विततं ददर्श परम-आसनम् ॥ 4 ॥

वाल-व्यजन-हस्ताभिः वीज्यमानं समन्ततः ।
गन्धैः च विविधैः जुष्टं वर-धूपेन धूपितम् ॥ 5 ॥

परम-आस्तरण-आस्तीर्णम् आविक-अजिन-संवृतम् ।
दामभिः वर-माल्यानां समन्तात् उपशोभितम् ॥ 6 ॥

तस्मिन् जीमूत-सङ्काशं प्रदीप्त-उत्तम-कुण्डलम् ।
लोहित-अक्षं महा-बाहुं महा-रजत-वाससम् ॥ 7 ॥

लोहितेन अनु-लिप्त-अङ्गं चन्दनेन सु-गन्धिना ।
सन्ध्या-रक्तम् इव आकाशे तोयदं स-तटित्-गणम् ॥ 8 ॥

वृतम् आभरणैः दिव्यैः सु-रूपं काम-रूपिणम् ।
स-वृक्ष-वन-गुल्म-आढ्यं प्रसुप्तम् इव मन्दरम् ॥ 9 ॥

क्रीडित्वा उपरतं रात्रौ वर-आभरण-भूषितम् ।
प्रियं राक्षस-कन्यानां राक्षसानां सुख-आवहम् ॥ 10 ॥

पीत्वा अपि उपरतं च अपि ददर्श सः महा-कपिः ।
भास्वरे शयने वीरं प्रसुप्तं राक्षस-अधिपम् ॥ 11 ॥

निःश्वसन्तं यथा नागं रावणं वानर-ऋषभः ।
आसाद्य परम-उद्विग्नः सः उपासर्पत् सु-भीत-वत् ॥ 12 ॥

अथ आरोहणम् आसाद्य वेदिका-अन्तरम् आश्रितः ।
सुप्तं राक्षस-शार्दूलं प्रेक्षते स्म महा-कपिः ॥ 13 ॥

शुशुभे राक्षस-इन्द्रस्य स्वपतः शयन-उत्तमम् ।
गन्ध-हस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ 14 ॥

काञ्चन-अङ्गद-सन्नद्धौ च ददर्श सः महा-आत्मनः ।
विक्षिप्तौ राक्षस-इन्द्रस्य भुजौ इन्द्र-ध्वज-उपमौ ॥ 15 ॥

ऐरावत-विषाण-अग्रैः आपीडन-कृत-व्रणौ ।
वज्र-उल्लिखित-पीन-अंसौ विष्णु-चक्र-परिक्षतौ ॥ 16 ॥

पीनौ सम्-सुजात-अंसौ सङ्गतौ बल-संयुतौ ।
सु-लक्षण-नख-अङ्गुष्ठौ सु-अङ्गुली-तल-लक्षितौ ॥ 17 ॥

संहतौ परिघ-आकारौ वृत्तौ करि-कर-उपमौ ।
विक्षिप्तौ शयने शुभ्रे पञ्च-शीर्षौ इव उरगौ ॥ 18 ॥

शश-क्षतज-कल्पेन सु-शीतेन सु-गन्धिना ।
चन्दनेन पर-अर्ध्येन सु-अनुलिप्तौ सु-अलङ्कृतौ ॥ 19 ॥

उत्तम-स्त्री-विमृदितौ गन्ध-उत्तम-निषेवितौ ।
यक्ष-पन्नग-गन्धर्व-देव-दानव-राविणौ ॥ 20 ॥

ददर्श सः कपिः तत्र बाहू शयन-संस्थितौ ।
मन्दरस्य अन्तरे सुप्तौ महा-अही रुषितौ इव ॥ 21 ॥

ताभ्यां सः परिपूर्णाभ्यां भुजाभ्यां राक्षस-ईश्वरः ।
शुशुभे अचल-सङ्काशः शृङ्गाभ्याम् इव मन्दरः ॥ 22 ॥

चूत-पुन्नाग-सुरभिः वकुल-उत्तम-संयुतः ।
मृष्ट-अन्न-रस-संयुक्तः पान-गन्ध-पुरस्कृतः ॥ 23 ॥

तस्य राक्षस-सिंहस्य निःचक्राम महा-मुखात् ।
शयानस्य विनिःश्वासः पूरयन् इव तत् गृहम् ॥ 24 ॥

मुक्ता-मणि-विचित्रेण काञ्चनेन विराजितम् ।
मकुटेन अपवृत्तेन कुण्डल-उज्ज्वलित-आननम् ॥ 25 ॥

रक्त-चन्दन-दिग्धेन तथा हारेण शोभिना ।
पीन-आयत-विशालेन वक्षसा अभिविराजितम् ॥ 26 ॥

पाण्डरेण अपविद्धेन क्षौमेण क्षतज-ईक्षणम् ।
महार्हेण सु-संवीतं पीतेन उत्तम-वाससा ॥ 27 ॥

माष-राशि-प्रतीकाशं निःश्वसन्तं भुजङ्ग-वत् ।
गाङ्गे महति तोय-अन्ते प्रसुप्तम् इव कुञ्जरम् ॥ 28 ॥

चतुर्भिः काञ्चनैः दीपैः धीप्यमान-चतुर्-दिशम् ।
प्रकाशीकृत-सर्व-अङ्गं मेघं विद्युत्-गणैः इव ॥ 29 ॥

पाद-मूल-गताः च अपि ददर्श सु-महा-आत्मनः ।
पत्नीः सः प्रिय-भार्यस्य तस्य रक्षः-पतेः गृहे ॥ 30 ॥

शशि-प्रकाश-वदनाः चारु-कुण्डल-भूषिताः ।
अम्लान-माल्य-आभरणाः ददर्श हरि-यूथपः ॥ 31 ॥

नृत्य-वादित्र-कुशलाः राक्षस-इन्द्र-भुज-अङ्क-गाः ।
वर-आभरण-धारिण्यः निषण्णाः ददृशे हरिः ॥ 32 ॥

वज्र-वैडूर्य-गर्भाणि श्रवण-अन्तेषु योषिताम् ।
ददर्श तापनीयानि कुण्डलानि अङ्गदानि च ॥ 33 ॥

तासां चन्द्र-उपमैः वक्त्रैः शुभैः ललित-कुण्डलैः ।
विरराज विमानं तत् नभः-तारा-गणैः इव ॥ 34 ॥

मद-व्यायाम-खिन्नाः ताः राक्षस-इन्द्रस्य योषितः ।
तेषु तेषु अवकाशेषु प्रसुप्ताः तनु-मध्यमाः ॥ 35 ॥

अङ्गहारैः तथा एव अन्या कोमलैः नृत्य-शालिनी ।
विन्यस्त-शुभ-सर्व-अङ्गी प्रसुप्ता वर-वर्णिनी ॥ 36 ॥

काचित् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते ।
महा-नदी-प्रकीर्णा इव नलिनी पोतम् आश्रिता ॥ 37 ॥

अन्या कक्ष-गतेन एव मड्डुकेन असित-ईक्षणा ।
प्रसुप्ता भामिनी भाति बाल-पुत्रा इव वत्सला ॥ 38 ॥

पटहं चारु-सर्व-अङ्गी पीड्य शेते शुभ-स्तनी ।
चिरस्य रमणं लब्ध्वा परिष्वज्य इव भामिनी ॥ 39 ॥

काचित् वंशं परिष्वज्य सुप्ता कमल-लोचना ।
रहः प्रिय-तमं गृहीत्वा स-कामा इव च कामिनी ॥ 40 ॥

विपञ्चीं परिगृह्य अन्या नियता नृत्य-शालिनी ।
निद्रा-वशम् अनुप्राप्ता सह कान्ता इव भामिनी ॥ 41 ॥

अन्या कनक-सङ्काशैः मृदु-पीनैः मनोरमैः ।
मृदङ्गं परिपीड्य अङ्गैः प्रसुप्ता मत्त-लोचना ॥ 42 ॥

भुज-पार्श्व-अन्तर-स्थेन कक्ष-गेन कृश-उदरी ।
पणवेन इव सह अनिन्द्या सुप्ता मद-कृत-श्रमा ॥ 43 ॥

डिण्डिमं परिगृह्य अन्या तथा एव आसक्त-डिण्डिमा ।
प्रसुप्ता तरुणं वत्सम् उपगूह्य इव भामिनी ॥ 44 ॥

काचित् आडम्बरं नारी भुज-संयोग-पीडितम् ।
कृत्वा कमल-पत्र-अक्षी प्रसुप्ता मद-मोहिता ॥ 45 ॥

कलशीम् अपविध्य अन्या प्रसुप्ता भाति भामिनी ।
वसन्ते पुष्प-शबला माला इव परिमार्जिता ॥ 46 ॥

पाणिभ्यां च कुचौ काचित् सुवर्ण-कलश-उपमौ ।
उपगूह्य अबला सुप्ता निद्रा-बल-पराजिता ॥ 47 ॥

अन्या कमल-पत्र-अक्षी पूर्ण-इन्दु-सदृश-आनना ।
अन्याम् आलिङ्ग्य सु-श्रोणीं प्रसुप्ता मद-विह्वला ॥ 48 ॥

आतोद्यानि विचित्राणि परिष्वज्य वर-स्त्रियः ।
निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव ॥ 49 ॥

तासाम् एकान्त-विन्यस्ते शयानानां शयने शुभे ।
ददर्श रूप-सम्पन्नाम् अपरां सः कपिः स्त्रियम् ॥ 50 ॥

मुक्ता-मणि-समायुक्तैः भूषणैः सु-विभूषिताम् ।
विभूषयन्तीम् इव तत् स्व-श्रिया भवन-उत्तमम् ॥ 51 ॥

गौरीं कनक-वर्ण-आभाम् इष्टाम् अन्तः-पुर-ईश्वरीम् ।
कपिः मन्दोदरीं तत्र शयानां चारु-रूपिणीम् ॥ 52 ॥

सः तां दृष्ट्वा महा-बाहुः भूषितां मारुत-आत्मजः ।
तर्कयामास सीता इति रूप-यौवन-सम्पदा ॥ 53 ॥

हर्षेण महता युक्तः ननन्द हरि-यूथपः ।
आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ।
स्तम्भान् अरोहन् निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥ 54 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे दशमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: