Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 47 - இளவரசன் அக்ஷகுமாரனை வதம் செய்கிறார்.

HOME          PREVIOUS               NEXT

सेनापतीन् पञ्च सः तु प्रमापितान् हनूमता स-अनुचरान् स-वाहनान् ।
समीक्ष्य राजा समर-उद्धत-उन्मुखं कुमारम् अक्षं प्रसमैक्षत अग्रतः ॥ 1 ॥

सः तस्य दृष्टि-अर्पण-सम्प्रचोदितः प्रतापवान् काञ्चन-चित्र-कार्मुकः ।
समुत्पपात अथ सदसि उदीरितः द्विजाति-मुख्यैः हविषा इव पावकः ॥ 2 ॥

ततः महत् बाल-दिवाकर-प्रभं प्रतप्त-जाम्बूनद-जाल-सन्ततम् ।
रथं समास्थाय ययौ सः वीर्यवान् महा-हरिं तं प्रति नैरृत-ऋषभः ॥ 3 ॥

ततः तपः-सङ्ग्रह-सञ्चय-अर्जितं प्रतप्त-जाम्बूनद-जाल-शोभितम् ।
पताकिनं रत्न-विभूषित-ध्वजं मनो-जव-अष्ट-अश्व-वरैः सु-योजितम् ॥ 4 ॥

सुर-असुर-अधृष्यम् असङ्ग-चारिणं रवि-प्रभं व्योम-चरं समाहितम् ।
स-तूणम् अष्ट-असि-निबद्ध-बन्धुरं यथा-क्रम-आवेशित-शक्ति-तोमरम् ॥ 5 ॥

विराजमानं प्रति-पूर्ण-वस्तुना स-हेम-दाम्ना शशि-सूर्य-वर्चसा ।
दिवाकर-आभं रथम् आस्थितः ततः सः निर्जगाम अमर-तुल्य-विक्रमः ॥ 6 ॥

सः पूरयन् खं च महीं च स-अचलां तुरङ्ग-मातङ्ग-महा-रथ-स्वनैः ।
बलैः समेतैः सः हि तोरण-स्थितं समर्थम् आसीनम् उपागमत् कपिम् ॥ 7 ॥

सः तं समासाद्य हरिं हरि-ईक्षणः युग-अन्त-काल-अग्निम् इव प्रजा-क्षये ।
अवस्थितं विस्मित-जात-सम्भ्रमः समैक्षत अक्षः बहु-मान-चक्षुषा ॥ 8 ॥

सः तस्य वेगं च कपेः महा-आत्मनः पराक्रमं च अरिषु पार्थिव-आत्मजः ।
विचारयन् स्वं च बलं महा-बलः हिम-क्षये सूर्यः इव अभिवर्धते ॥ 9 ॥

सः जात-मन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थिरः संयति दुर्निवारणम् ।
समाहित-आत्मा हनूमन्तम् आहवे प्रचोदयामास शरैः त्रिभिः शितैः ॥ 10 ॥

ततः कपिं तं प्रसमीक्ष्य गर्वितं जित-श्रमं शत्रु-पराजय-उर्जितम् ।
अवैक्षत अक्षः समुदीर्ण-मानसः स-बाण-पाणिः प्रगृहीत-कार्मुकः ॥ 11 ॥

सः हेम-निष्क-अङ्गद-चारु-कुण्डलः समाससाद आशु-पराक्रमः कपिम् ।
तयोः बभूव अप्रतिमः समागमः सुर-असुराणाम् अपि सम्भ्रम-प्रदः ॥ 12 ॥

ररास भूमिः न तताप भानुमान् न ववौ न वायुः प्रचचाल न अचलः ।
कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौः उदधिः च चुक्षुभे ॥ 13 ॥

ततः सः वीरः सु-मुखान् पतत्रिणः सुवर्ण-पुङ्खान् स-विषान् इव उरगान् ।
समाधि-संयोग-विमोक्ष-तत्त्व-वित् शरान् अथ त्रीन् कपि-मूर्ध्नि अपातयत् ॥ 14 ॥

सः तैः शरैः मूर्ध्नि समं निपातितैः क्षरन् असृक्-दिग्ध-विवृत्त-लोचनः ।
नव-उदित-आदित्य-निभः शर-अंशुमान् व्यराजत आदित्यः इव अंशु-मालिकः ॥ 15 ॥

ततः सः पिङ्ग-अधिप-मन्त्रि-सत्तमः समीक्ष्य तं राज-वर-आत्मजं रणे ।
उदग्र-चित्र-आयुध-चित्र-कार्मुकं जहर्ष च आपूर्यत च आहव-उन्मुखः ॥ 16 ॥

सः मन्दर-अग्र-स्थः इव अंशु-मालिकः विवृद्ध-कोपः बल-वीर्य-संयुतः ।
कुमारम् अक्षं स-बलं स-वाहनं ददाह नेत्र-अग्नि-मरीचिभिः तदा ॥ 17 ॥

ततः सः बाण-आसन-चित्र-कार्मुकः शर-प्रवर्षः युधि राक्षस-अम्बुदः ।
शरान् मुमोच आशु हरि-ईश्वर-अचले वलाहकः वृष्टिम् इव अचल-उत्तमे ॥ 18 ॥

ततः कपिः तं रण-चण्ड-विक्रमं विवृद्ध-तेजः-बल-वीर्य-संयुतम् ।
कुमारम् अक्षं प्रसमीक्ष्य संयुगे ननाद हर्षात् घन-तुल्य-विक्रमम् ॥ 19 ॥

सः बाल-भावात् युधि वीर्य-दर्पितः प्रवृद्ध-मन्युः क्षतज-उपम-ईक्षणः ।
समाससाद अप्रतिमं कपिं रणे गजः महा-कूपम् इव आवृतं तृणैः ॥ 20 ॥

सः तेन बाणैः प्रसभं निपातितैः चकार नादं घन-नाद-निःस्वनः ।
समुत्पपात आशु नभः सः मारुतिः भुज-ऊरु-विक्षेपण-घोर-दर्शनः ॥ 21 ॥

समुत्पतन्तं समभिद्रवत् बली सः राक्षसानां प्रवरः प्रतापवान् ।
रथी रथि-श्रेष्ठ-तमः किरन् शरैः पयोधरः शैलम् इव अश्म-वृष्टिभिः ॥ 22 ॥

सः तान् शरान् तस्य हरिः विमोक्षयन् चचार वीरः पथि वायु-सेविते ।
शर-अन्तरे मारुतवत् विनिष्पतन् मनो-जवः संयति चण्ड-विक्रमः ॥ 23 ॥

तम् आत्त-बाण-आसनम् आहव-उन्मुखं खम् आस्तृणन्तं विशिखैः शर-उत्तमैः ।
अवैक्षत अक्षं बहु-मान-चक्षुषा जगाम चिन्तां च सः मारुत-आत्मजः ॥ 24 ॥

ततः शरैः भिन्न-भुज-अन्तरः कपिः कुमार-वीरेण महा-आत्मना नदन् ।
महा-भुजः कर्म-विशेष-तत्त्व-वित् विचिन्तयामास रणे पराक्रमम् ॥ 25 ॥

अ-बालवत् बाल-दिवाकर-प्रभः करोति अयं कर्म महत् महा-बलः ।
न च अस्य सर्व-आहव-कर्म-शोभिनः प्रमापणे मे मतिः अत्र जायते ॥ 26 ॥

अयं महा-आत्मा च महान् च वीर्यतः समाहितः च अति-सहः च संयुगे ।
असंशयं कर्म-गुण-उदयात् अयं स-नाग-यक्षैः मुनिभिः च पूजितः ॥ 27 ॥

पराक्रम-उत्साह-विवृद्ध-मानसः समीक्षते मां प्रमुख-अग्रतः स्थितः ।
पराक्रमः हि अस्य मनांसि कम्पयेत् सुर-असुराणाम् अपि शीघ्र-गामिनः ॥ 28 ॥

न खलु अयं न अभिभवेत् उपेक्षितः पराक्रमः हि अस्य रणे विवर्धते ।
प्रमापणं तु एव मम अद्य रोचते न वर्धमानः अग्निः उपेक्षितुं क्षमः ॥ 29 ॥

इति प्रवेगं तु परस्य चिन्तयन् स्व-कर्म-योगं च विधाय वीर्यवान् ।
चकार वेगं तु महा-बलः तदा मतिं च चक्रे अस्य वधे महा-कपिः ॥ 30 ॥

सः तस्य तान् अष्ट-हयान् महा-जवान् समाहितान् भार-सहान् विवर्तने ।
जघान वीरः पथि वायु-सेविते तल-प्रहारैः पवन-आत्मजः कपिः ॥ 31 ॥

ततः तलेन अभिहतः महा-रथः सः तस्य पिङ्ग-अधिप-मन्त्रि-निर्जितः ।
प्रभग्न-नीडः परिमुक्त-कूबरः पपात भूमौ हत-वाजि अम्बरात् ॥ 32 ॥

सः तं परित्यज्य महा-रथः रथं स-कार्मुकः खड्ग-धरः खम् उत्पतन् ।
तपः-अभियोगात् ऋषिः उग्र-वीर्यवान् विहाय देहं मरुताम् इव आलयम् ॥ 33 ॥

ततः कपिः तं विचरन्तम् अम्बरे पतत्रि-राज-अनिल-सिद्ध-सेविते ।
समेत्य तं मारुत-तुल्य-विक्रमः क्रमेण जग्राह सः पादयोः दृढम् ॥ 34 ॥

सः तं समाविध्य सहस्रशः कपिः महा-उरगं गृह्य इव अण्डज-ईश्वरः ।
मुमोच वेगात् पितृ-तुल्य-विक्रमः मही-तले संयति वानर-उत्तमः ॥ 35 ॥

सः भग्न-बाहु-ऊरु-कटी-शिरोधरः क्षरन् असृक्-निर्मथित-अस्थि-लोचनः ।
संभग्न-सन्धिः प्रविकीर्ण-बन्धनः हतः क्षितौ वायु-सुतेन राक्षसः ॥ 36 ॥

महा-कपिः भूमि-तले निपीड्य तं चकार रक्षः-अधिपतेः महत् भयम् ।
महर्षिभिः चक्र-चरैः महा-व्रतैः समेत्य भूतैः च स-यक्ष-पन्नगैः ॥ 37 ॥

सुरैः च स-इन्द्रैः भृश-जात-विस्मयैः हते कुमारे सः कपिः निरीक्षितः ।
निहत्य तं वज्रि-सुत-उपम-प्रभं कुमारम् अक्षं क्षतज-उपम-ईक्षणम् ।
तम् एव वीरः अभिजगाम तोरणं कृत-क्षणः कालः इव प्रजा-क्षये ॥ 38 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे सप्त-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: