Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 21 - உயிருடன் இருக்க விரும்பினால் தன்னை இராமனிடம் திருப்பிக் கொடுக்க வேண்டும் என்று சீதை இராவணனிடம் கூறுகிறாள்.

HOME          PREVIOUS               NEXT

तस्य तत् वचनम् श्रुत्वा सीता रौद्रस्य रक्षसः ।
आर्ता दीन-स्वरा दीनम् प्रत्युवाच शनैः वचः ॥ 1 ॥

दुःख-आर्ता रुदती सीता वेपमाना तपस्विनी ।
चिन्तयन्ती वर-आरोहा पतिम् एव पतिव्रता ॥ 2 ॥

तृणम् अन्तरतः कृत्वा प्रत्युवाच शुचि-स्मिता ।
निवर्तय मनः मत्तः स्व-जने क्रियताम् मनः ॥ 3 ॥

न माम् प्रार्थयितुम् युक्तम् सु-सिद्धिम् इव पाप-कृत् ।
अकार्यं न मया कार्यम् एक-पत्न्या विगर्हितम् ॥ 4 ॥

कुलम् सम्प्राप्तया पुण्यम् कुले महति जातया ।
एवम् उक्त्वा तु वैदेही रावणम् तम् यशस्विनी ॥ 5 ॥

राक्षसम् पृष्ठतः कृत्वा भूयः वचनम् अब्रवीत् ।
न अहम् औपयिकी भार्या पर-भार्या सती तव ॥ 6 ॥

साधु धर्मम् अवेक्षस्व साधु साधु-व्रतम् चर ।
यथा तव तथा अन्येषाम् दाराः रक्ष्याः निशाचर ॥ 7 ॥

आत्मानम् उपमाम् कृत्वा स्वेषु दारेषु रम्यताम् ।
अतुष्टम् स्वेषु दारेषु चपलम् चलित-इन्द्रियम् ॥ 8 ॥

नयन्ति निकृति-प्रज्ञम् पर-दाराः पराभवम् ।
इह सन्तः न वा सन्ति सतः वा न अनुवर्तसे ॥ 9 ॥

तथा हि विपरीता ते बुद्धिः आचार-वर्जिता ।
वचः मिथ्या-प्रणीत-आत्मा पथ्यम् उक्तम् विचक्षणैः ॥ 10 ॥

राक्षसानाम् अभावाय त्वम् वा न प्रतिपद्यसे ।
अकृत-आत्मानम् आसाद्य राजानम् अनये रतम् ॥ 11 ॥

समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ।
तथा इयम् त्वाम् समासाद्य लङ्का रत्न-ओघ-सङ्कुला ॥ 12 ॥

अपराधात् तव एकस्य न चिरात् विनशिष्यति ।
स्व-कृतैः हन्यमानस्य रावण अदीर्घ-दर्शिनः ॥ 13 ॥

अभिनन्दन्ति भूतानि विनाशे पाप-कर्मणः ।
एवम् त्वाम् पाप-कर्माणम् वक्ष्यन्ति निकृताः जनाः ॥ 14 ॥

दिष्ट्या एतत् व्यसनम् प्राप्तः रौद्रः इति एव हर्षिताः ।
शक्या लोभयितुम् न अहम् ऐश्वर्येण धनेन वा ॥ 15 ॥

अनन्या राघवेण अहम् भास्करेण प्रभा यथा ।
उपधाय भुजम् तस्य लोक-नाथस्य सत्-कृतम् ॥ 16 ॥

कथम् नाम उपधास्यामि भुजम् अन्यस्य कस्य चित् ।
अहम् औपयिकी भार्या तस्य एव वसुधा-पतेः ॥ 17 ॥

व्रत-स्नातस्य विप्रस्य विद्या इव विदित-आत्मनः ।
साधु रावण रामेण माम् समानय दुःखिताम् ॥ 18 ॥

वने वाशितया सार्धम् करेणु-इव गज-अधिपम् ।
मित्रम् औपयिकम् कर्तुम् रामः स्थानम् परीप्सता ॥ 19 ॥

वधम् च अनिच्छता घोरम् त्वया असौ पुरुष-ऋषभः ।
विदितः सः हि धर्म-ज्ञः शरणागत-वत्सलः ॥ 20 ॥

तेन मैत्री भवतु ते यदि जीवितुम् इच्छसि ।
प्रसादयस्व त्वम् च एनम् शरणागत-वत्सलम् ॥ 21 ॥

माम् च अस्मै नियतः भूत्वा निर्यातयितुम् अर्हसि ।
एवम् हि ते भवेत् स्वस्ति सम्प्रदाय रघु-उत्तमे ॥ 22 ॥

अन्यथा त्वम् हि कुर्वाणः वधम् प्राप्स्यसि रावण ।
वर्जयेत् वज्रम् उत्सृष्टम् वर्जयेत् अन्तकः चिरम् ॥ 23 ॥

त्वत्-विधम् तु न संकृद्धः लोक-नाथः सः राघवः ।
रामस्य धनुषः शब्दम् श्रोष्यसि त्वम् महा-स्वनम् ॥ 24 ॥

शत-क्रतु-विसृष्टस्य निर्घोषम् अशनेः इव ।
इह शीघ्रम् सु-पर्वाणः ज्वलित-आस्याः इव उरगाः ॥ 25 ॥

इषवः निपतिष्यन्ति राम-लक्ष्मण-लक्षणाः ।
रक्षांसि परिनिघ्नन्तः पुर्याम् अस्याम् समन्ततः ॥ 26 ॥

असम्पातम् करिष्यन्ति पतन्तः कङ्क-वाससः ।
राक्षस-इन्द्र-महा-सर्पान् सः राम-गरुडः महान् ॥ 27 ॥

उद्धरिष्यति वेगेन वैनतेयः इव उरगान् ।
अपनेष्यति माम् भर्ता त्वत्तः शीघ्रम् अरि-दमः ॥ 28 ॥

असुरेभ्यः श्रियम् दीप्ताम् विष्णुः त्रिभिः इव क्रमैः ।
जन-स्थाने हत-स्थाने निहते रक्षसाम् बले ॥ 29 ॥

अशक्तेन त्वया रक्षः कृतम् एतत् असाधु वै ।
आश्रमम् तु तयोः शून्यम् प्रविश्य नर-सिंहयोः ॥ 30 ॥

गोचरम् गतयोः भ्रात्रोः अपनीता त्वया अधम ।
न हि गन्धम् उपाघ्राय राम-लक्ष्मणयोः त्वया ॥ 31 ॥

शक्यम् सन्दर्शने स्थातुम् शुना शार्दूलयोः इव ।
तस्य ते विग्रहे ताभ्याम् युग-ग्रहणम् अस्थिरम् ॥ 32 ॥

वृत्रस्य इव इन्द्र-बाहुभ्याम् बाहोः एकस्य विग्रहे ।
क्षिप्रम् तव सः नाथः मे रामः सौमित्रिणा सह ॥ 33 ॥

तोयम् अल्पम् इव आदित्यः प्राणान् आदास्यते शरैः ।
गिरिम् कुबेरस्य गतः अथ वा अलयम् सभाम् गतः वा वरुणस्य राज्ञः ।
असंशयम् दाशरथेः न मोक्ष्यसे महा-द्रुमः काल-हतः अशनेः इव ॥ 34 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एक-विंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: