Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 24 - அரக்கியர்கள் சீதையைக் கொன்றுவிடுவதாக மிரட்டுகிறார்கள்.

HOME          PREVIOUS               NEXT

ततः सीताम् उपागम्य राक्षस्यः विकृत-आननाः ।
परुषम् परुषाः नार्यः ऊचुः ताम् वाक्यम् अप्रियम् ॥ 1 ॥

किम् त्वम् अन्तः-पुरे सीते सर्व-भूत-मनोहरे ।
महा-अर्ह-शयन-उपेते न वासम् अनुमन्यसे ॥ 2 ॥

मानुषी मानुषस्य एव भार्यात्वम् बहु-मन्यसे ।
प्रत्याहर मनः रामात् न त्वम् जातु भविष्यसि ॥ 3 ॥

त्रैलोक्य-वसु-भोक्तारम् रावणम् राक्षस-ईश्वरम् ।
भर्तारम् उपसंगम्य विहरस्व यथा-सुखम् ॥ 4 ॥

मानुषी मानुषम् तम् तु रामम् इच्छसि शोभने ।
राज्यात् भ्रष्टम् असिद्ध-अर्थम् विक्लबम् त्वम् अनिन्दिते ॥ 5 ॥

राक्षसीनाम् वचः श्रुत्वा सीता पद्म-निभ-ईक्षणा ।
नेत्राभ्याम् अश्रु-पूर्णाभ्याम् इदम् वचनम् अब्रवीत् ॥ 6 ॥

यत् इदम् लोक-विद्विष्टम् उदाहरथ संगताः ।
न एतत् मनसि वाक्यम् मे किल्बिषम् प्रतिभाति वः ॥ 7 ॥

न मानुषी राक्षसस्य भार्या भवितुम् अर्हति ।
कामम् खादत माम् सर्वाः न करिष्यामि वः वचः ॥ 8 ॥

दीनः वा राज्य-हीनः वा यः मे भर्ता सः मे गुरुः ।
तम् नित्यम् अनुरक्ता अस्मि यथा सूर्यम् सुवर्चला ॥ 9 ॥

यथा शची महा-भागा शक्रम् समुपतिष्ठति ।
अरुंधती वसिष्ठम् च रोहिणी शशिनम् यथा ॥ 10 ॥

लोपामुद्रा यथा अगस्त्यम् सुकन्या च्यवनम् यथा ।
सावित्री सत्यवन्तम् च कपिलम् श्रीमती यथा ॥ 11 ॥

सौदासम् मदयंती इव केशिनी सगरम् यथा ।
नैषधम् दमयंती इव भैमी पतिम् अनुव्रता ॥ 12 ॥

तथा अहम् इक्ष्वाकु-वरम् रामम् पतिम् अनुव्रता ।
सीतायाः वचनम् श्रुत्वा राक्षस्यः क्रोध-मूर्छिताः ॥ 13 ॥

भर्त्सयन्ति स्म परुषैः वाक्यैः रावण-चोदिताः ।
अवलीनः सः निर्वाक्यः हनूमान् शिंशुपा-द्रुमे ॥ 14 ॥

यः सीताम् संतर्जयन्तीः ताः राक्षसीः अशृणोत् कपिः ।
ताम् अभिक्रम्य संक्रुद्धाः वेपमानाम् समन्ततः ॥ 15 ॥

भृशम् संलिलिहुः दीप्तान् प्रलम्बान् दशन-च्छदान् ।
ऊचुः च परम-क्रुद्धाः प्रगृह्य आशु परश्वधान् ॥ 16 ॥

न इयम् अर्हति भर्तारम् रावणम् राक्षस-अधिपम् ।
सा भर्त्स्यमाना भीमाभिः राक्षसीभिः वर-आनना ॥ 17 ॥

स-बाष्पम् अप सर्पन्ती शिंशुपाम् ताम् उपागमत् ।
ततः ताम् शिंशुपाम् सीता राक्षसीभिः समावृता ॥ 18 ॥

अभिगम्य विशाल-अक्षी तस्थौ शोक-परिप्लुता ।
ताम् कृशाम् दीन-वदनाम् मलिन-अम्बर-धारिणीम् ॥ 19 ॥

भर्त्सयाम् चक्रिरे सीताम् राक्षस्यः ताम् समन्ततः ।
ततः ताम् विनता नाम राक्षसी भीम-दर्शना ॥ 20 ॥

अब्रवीत् कुपित-आकारा कराला निर्-नतोदरी ।
सीते पर्याप्तम् एतावत् भर्तुः स्नेहः निदर्शितः ॥ 21 ॥

सर्वत्र अतिकृतम् भद्रे व्यसनाय उपकल्पते ।
परितुष्टा अस्मि भद्रम् ते मानुषः ते कृतः विधिः ॥ 22 ॥

मम अपि तु वचः पथ्यम् ब्रुवन्त्याः कुरु मैथिलि ।
रावणम् भज भर्तारम् भर्तारम् सर्व-रक्षसाम् ॥ 23 ॥

विक्रान्तम् रूप-वन्तम् च सुर-ईशम् इव वासवम् ।
दक्षिणम् त्याग-शीलम् च सर्वस्य प्रिय-दर्शनम् ॥ 24 ॥

मानुषम् कृपणम् रामम् त्यक्त्वा रावणम् आश्रय ।
दिव्य-अङ्ग-रागा वैदेहि दिव्य-आभरण-भूषिता ॥ 25 ॥

अद्य-प्रभृति सर्वेषाम् लोकानाम् ईश्वरी भव ।
अग्नेः स्वाहा यथा देवी शची इव इन्द्रस्य शोभने ॥ 26 ॥

किम् ते रामेण वैदेहि कृपणेन गत-आयुषा ।
एतत् उक्तम् च मे वाक्यम् यदि त्वम् न करिष्यसि ॥ 27 ॥

अस्मिन् मुहूर्ते सर्वाः त्वाम् भक्षयिष्यामहे वयम् ।
अन्या तु विकटा नाम लम्बमान-पयोधरा ॥ 28 ॥

अब्रवीत् कुपिता सीताम् मुष्टिम् उद्यम्य गर्जती ।
बहूनि अप्रिय-रूपाणि वचनानि सु-दुर्मते ॥ 29 ॥

अनुक्रोशात् मृदुत्वात् च सोढानि तव मैथिलि ।
न च नः कुरुषे वाक्यम् हितम् काल-पुरस्कृतम् ॥ 30 ॥

आनीता असि समुद्रस्य पारम् अन्यैः दुरासदम् ।
रावण-अन्तः-पुरम् घोरम् प्रविष्टा च असि मैथिलि ॥ 31 ॥

रावणस्य गृहे रुद्धाम् अस्माभिः तु सुरक्षिताम् ।
न त्वाम् शक्तः परित्रातुम् अपि साक्षात् पुरन्दरः ॥ 32 ॥

कुरुष्व हित-वादिन्याः वचनम् मम मैथिलि ।
अलम् अश्रु-प्रपातेन त्यज शोकम् अनर्थकम् ॥ 33 ॥

भज प्रीतिम् च हर्षम् च त्यज एताम् नित्य-दैन्यताम् ।
सीते राक्षस-राजेन सह क्रीड यथा-सुखम् ॥ 34 ॥

जानासि हि यथा भीरु स्त्रीणाम् यौवनम् अध्रुवम् ।
यावत् न ते व्यतिक्रामेत् तावत् सुखम् अवाप्नुहि ॥ 35 ॥

उद्यानानि च रम्याणि पर्वत-उपवनानि च ।
सह राक्षस-राजेन चर त्वम् मदिर-ईक्षणे ॥ 36 ॥

स्त्री-सहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरी ।
रावणम् भज भर्तारम् भर्तारम् सर्व-रक्षसाम् ॥ 37 ॥

उत्पाट्य वा ते हृदयम् भक्षयिष्यामि मैथिलि ।
यदि मे व्याहृतम् वाक्यम् न यथावत् करिष्यसि ॥ 38 ॥

ततः चण्ड-उदरी नाम राक्षसी क्रोध-मूर्छिता ।
भ्रामयन्ती महत् शूलम् इदम् वचनम् अब्रवीत् ॥ 39 ॥

इमाम् हरिण-लोल-अक्षीम् त्रास-उत्कम्पि-पयोधराम् ।
रावणेन हृताम् दृष्ट्वा दौहृदः मे महान् अभूत् ॥ 40 ॥

यकृत्-प्लीहम् अथ उत्पीडम् हृदयम् च स-बन्धनम् ।
आन्त्राणि अपि तथा शीर्षम् खादेयम् इति मे मतिः ॥ 41 ॥

ततः तु प्रघसा नाम राक्षसी वाक्यम् अब्रवीत् ।
कण्ठम् अस्याः नृशंसायाः पीडयाम किम् आस्यते ॥ 42 ॥

निवेद्यताम् ततः राज्ञे मानुषी सा मृता इति ह ।
न अत्र कश्चन संदेहः खादत इति सः वक्ष्यति ॥ 43 ॥

ततः तु अजामुखी नाम राक्षसी वाक्यम् अब्रवीत् ।
विशस्य इमाम् ततः सर्वाः समान् कुरुत पिण्डकान् ॥ 44 ॥

विभजाम ततः सर्वाः विवादः मे न रोचते ।
पेयम् आनियताम् क्षिप्रम् लेह्यम् उच्च-अवचम् बहु ॥ 45 ॥

ततः शूर्पणखा नाम राक्षसी वाक्यम् अब्रवीत् ।
अजामुख्या यत् उक्तम् हि तत् एव मम रोचते ॥ 46 ॥

सुरा च आनियताम् क्षिप्रम् सर्व-शोक-विनाशिनी ।
मानुषम् मांसम् आस्वाद्य नृत्यामः अथ निकुम्भिलाम् ॥ 47 ॥

एवम् संभर्त्स्यमाना सा सीता सुर-सुत-उपमा ।
राक्षसीभिः सु-घोराभिः धैर्यम् उत्सृज्य रोदिति ॥ 48 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे चतुर्विंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: