सः तस्य मध्ये भवनस्य मारुतिः लता-गृहान् चित्र-गृहान् निशा-गृहान् ।
जगाम सीतां प्रति दर्शन-उत्सुकः न च एव तां पश्यति चारु-दर्शनाम् ॥ 1 ॥
सः चिन्तयामास ततः महा-कपिः प्रियाम् अपश्यन् रघु-नन्दनस्य ताम् ।
ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतः दर्शनम् एति मैथिली ॥ 2 ॥
सा राक्षसानां प्रवरेण जानकी स्व-शील-संरक्षण-तत्परा सती ।
अनेन नूनं प्रति दुष्ट-कर्मणा हता भवेत् आर्य-पथे परे स्थिता ॥ 3 ॥
विरूप-रूपाः विकृताः विवर्चसः महा-आननाः दीर्घ-विरूप-दर्शनाः ।
समीक्ष्य सा राक्षस-राज-योषितः भयात् विनष्टा जनक-ईश्वर-आत्मजा ॥ 4 ॥
सीताम् अदृष्ट्वा हि अनवाप्य पौरुषं विहृत्य कालं सह वानरैः चिरम् ।
न मे अस्ति सुग्रीव-समीपगा गतिः सु-तीक्ष्ण-दण्डः बलवान् च वानरः ॥ 5 ॥
दृष्टम् अन्तः-पुरं सर्वं दृष्टाः रावण-योषितः ।
न सीता दृश्यते साध्वी वृथा जातः मम श्रमः ॥ 6 ॥
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ।
गत्वा तत्र त्वया वीर किं कृतं तत् वदस्व नः ॥ 7 ॥
अदृष्ट्वा किं प्रवक्ष्यामि ताम् अहं जनक-आत्मजाम् ।
ध्रुवं प्रायम् उपैष्यन्ति कालस्य व्यतिवर्तने ॥ 8 ॥
किं वा वक्ष्यति वृद्धः च जाम्बवान् अङ्गदः च सः ।
गतं पारं समुद्रस्य वानराः च समागताः ॥ 9 ॥
अनिर्वेदः श्रियः मूलम् अनिर्वेदः परं सुखम् ।
अनिर्वेदः हि सततं सर्व-अर्थेषु प्रवर्तकः ॥ 10 ॥
करोति सफलं जन्तोः कर्म यत् तत् करोति सः ।
तस्मात् अनिर्वेद-कृतं यत्नं चेष्टे अहम् उत्तमम् ॥ 11 ॥
भूयः तावत् विचेष्यामि देशान् रावण-पालितान् ।
आपान-शालाः विचिताः तथा पुष्प-गृहाणि च ॥ 12 ॥
चित्र-शालाः च विचिताः भूयः क्रीडा-गृहाणि च ।
निष्कुट-अन्तर-रथ्याः च विमानानि च सर्वशः ॥ 13 ॥
इति सञ्चिन्त्य भूयः अपि विचेतुम् उपचक्रमे ।
भूमि-गृहान् चैत्य-गृहान् गृहाति-गृहकान् अपि ॥ 14 ॥
उत्पतन् निष्पतन् च अपि तिष्ठन् गच्छन् पुनः पुनः ।
अपावृण्वन् च द्वाराणि कवाटानि अवघाटयन् ॥ 15 ॥
प्रविशन् निष्पतन् च अपि प्रपतन् उत्पतन् अपि ।
सर्वम् अपि अवकाशं सः विचचार महा-कपिः ॥ 16 ॥
चतुर्-अङ्गुल-मात्रः अपि न अवकाशः सः विद्यते ।
रावण-अन्तः-पुरे तस्मिन् यं कपिः न जगाम सः ॥ 17 ॥
प्राकार-अन्तर-रथ्याः च वेदिकाः चैत्य-संश्रयाः ।
दीर्घिकाः पुष्करिण्यः च सर्वं तेन अवलोकितम् ॥ 18 ॥
राक्षस्यः विविध-आकाराः विरूपाः विकृताः तथा ।
दृष्टाः हनुमता तत्र न तु सा जनक-आत्मजा ॥ 19 ॥
रूपेण अप्रतिमा लोके वराः विद्याधर-स्त्रियः ।
दृष्टाः हनुमता तत्र न तु राघव-नन्दिनी ॥ 20 ॥
नाग-कन्याः वर-आरोहाः पूर्ण-चन्द्र-निभ-आननाः ।
दृष्टाः हनुमता तत्र न तु सीता सु-मध्यमा ॥ 21 ॥
प्रमथ्य राक्षस-इन्द्रेण नाग-कन्याः बलात् धृताः ।
दृष्टाः हनुमता तत्र न सा जनक-नन्दिनी ॥ 22 ॥
सः अपश्यन् तां महा-बाहुः पश्यन् च अन्याः वर-स्त्रियः ।
विषसाद मुहुः धीमान् हनुमान् मारुत-आत्मजः ॥ 23 ॥
उद्योगं वानर-इन्द्राणां प्लवनं सागरस्य च ।
व्यर्थं वीक्ष्य अनिल-सुतः चिन्तां पुनः उपागमत् ॥ 24 ॥
अवतीर्य विमानात् च हनुमान् मारुत-आत्मजः ।
चिन्ताम् उपजगाम अथ शोक-उपहत-चेतनः ॥ 25 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे द्वादशः सर्गः ॥

No comments:
Post a Comment