Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 54 - அனுமன் இலங்கைக்கு தீ வைக்கிறார்.

HOME          PREVIOUS               NEXT

वीक्षमाणः ततः लङ्कां कपिः कृत-मनोरथः ॥ 1 ॥

वर्धमान-समुत्साहः कार्य-शेषम् अचिन्तयत् ।
किम् नु खलु अवशिष्टं मे कर्तव्यम् इह साम्प्रतम् ॥ 2 ॥

यत् एषां रक्षसां भूयः सन्ताप-जननं भवेत् ।
वनं तावत् प्रमथितं प्रकृष्टाः राक्षसाः हताः ॥ 3 ॥

बल-एक-देशः क्षपितः शेषं दुर्ग-विनाशनम् ।
दुर्गे विनाशिते कर्म भवेत् सुख-परिश्रमम् ।
अल्प-यत्नेन कार्ये अस्मिन् मम स्यात् सफलः श्रमः ॥ 4 ॥

यः हि अयं मम लाङ्गूले दीप्यते हव्य-वाहनः ।
अस्य सन्तर्पणं न्याय्यं कर्तुम् एभिः गृह-उत्तमैः ॥ 5 ॥

ततः प्रदीप्त-लाङ्गूलः स-विद्युत् इव तोयदः ।
भवन-अग्रेषु लङ्कायाः विचचार महा-कपिः ॥ 6 ॥

गृहात् गृहं राक्षसानाम् उद्यानानि च वानरः ।
वीक्षमाणः हि असन्त्रस्तः प्रासादान् च चचार सः ॥ 7 ॥

अवप्लुत्य महा-वेगः प्रहस्तस्य निवेशनम् ।
अग्निं तत्र सः निक्षिप्य श्वसनेन समः बली ॥ 8 ॥

ततः अन्यत् पुप्लुवे वेश्म महा-पार्श्वस्य वीर्यवान् ।
मुमोच हनुमान् अग्निं काल-अनल-शिखा-उपमम् ॥ 9 ॥

वज्र-दंष्ट्रस्य च तदा पुप्लुवे सः महा-कपिः ।
शुकस्य च महा-तेजाः सारणस्य च धीमतः ॥ 10 ॥

तथा च इन्द्र-जितः वेश्म ददाह हरि-यूथपः ।
जम्बु-मालेः सुमालेः च ददाह भवनं ततः ॥ 11 ॥

रश्मि-केतोः च भवनं सूर्य-शत्रोः तथा एव च ।
ह्रस्व-कर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 12 ॥

युद्ध-उन्मत्तस्य मत्तस्य ध्वज-ग्रीवस्य रक्षसः ।
विद्युत्-जिह्वस्य घोरस्य तथा हस्ति-मुखस्य च ॥ 13 ॥

करालस्य पिशाचस्य शोणित-अक्षस्य च एव हि ।
कुम्भ-कर्णस्य भवनं मकर-अक्षस्य च एव हि ॥ 14 ॥

यज्ञ-शत्रोः च भवनं ब्रह्म-शत्रोः तथा एव च ।
नर-अन्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥ 15 ॥

वर्जयित्वा महा-तेजाः विभीषण-गृहं प्रति ।
क्रममाणः क्रमेण एव ददाह हरि-पुङ्गवः ॥ 16 ॥

तेषु तेषु महा-अर्हेषु भवनेषु महा-यशाः ।
गृहेषु वृद्धिमताम् ऋद्धिं ददाह सः महा-कपिः ॥ 17 ॥

सर्वेषां समतिक्रम्य राक्षस-इन्द्रस्य वीर्यवान् ।
आससाद अथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ 18 ॥

ततः तस्मिन् गृहे मुख्ये नाना-रत्न-विभूषिते ।
मेरु-मन्दर-सङ्काशे सर्व-मङ्गल-शोभिते ॥ 19 ॥

प्रदीप्तम् अग्निम् उत्सृज्य लाङ्गूल-अग्रे प्रतिष्ठितम् ।
ननाद हनुमान् वीरः युग-अन्त-जलदः यथा ॥ 20 ॥

श्वसनेन च संयोगात् अति-वेगः महा-बलः ।
काल-अग्निः इव जज्वाल प्रावर्धत हुताशनः ॥ 21 ॥

प्रदीप्तम् अग्निं पवनः तेषु वेश्मसु अचारयत् ।
अभूत् श्वसन-संयोगात् अति-वेगः हुताशनः ॥ 22 ॥

तानि काञ्चन-जालानि मुक्ता-मणि-मयानि च ।
भवनानि अवशीर्यन्त रत्नवन्ति महान्ति च ॥ 23 ॥

संजज्ञे तुमुलः शब्दः राक्षसानां प्रधावताम् ।
स्व-गृहस्य परित्राणे भग्न-उत्साह-ऊर्जित-श्रियम् ॥ 24 ॥

नूनम् एषः अग्निः आयातः कपि-रूपेण हा इति ।
क्रन्दन्त्यः सहसा पेतुः स्तनन्धय-धराः स्त्रियः ॥ 25 ॥

काश्चित् अग्नि-परीतेभ्यः हर्म्येभ्यः मुक्त-मूर्धजाः ।
पतन्त्यः रेजिरे अभ्रेभ्यः सौदामन्यः इव अम्बरात् ॥ 26 ॥

वज्र-विद्रुम-वैदूर्य-मुक्ता-रजत-संहितान् ।
विचित्रान् भवनात् धातून् स्यन्दमानान् ददर्श सः ॥ 27 ॥

न अग्निः तृप्यति काष्ठानां तृणानां च यथा तथा ।
हनुमान् राक्षस-इन्द्राणां विशस्तानां न तृप्यति ॥ 28 ॥

क्वचित् किंशुक-संकाशाः क्वचित् शाल्मलि-सन्निभाः ॥ 29 ॥

क्वचित् कुङ्कुम-संकाशाः शिखाः वह्नेः चकाशिरे ।
हनुमता वेगवता वानरेण महा-आत्मना ।
लङ्का-पुरं प्रदग्धं तत् रुद्रेण त्रिपुरं यथा ॥ 30 ॥

ततः तु लङ्का-पुर-पर्वत-अग्रे समुत्थितः भीम-पराक्रमः अग्निः ।
प्रसार्य चूडा-आवलयं प्रदीप्तः हनूमता वेगवता विसृष्टः ॥ 31 ॥

युग-अन्त-काल-अनल-तुल्य-वेगः स-मारुतः अग्निः ववृधे दिवि-स्पृक् ।
विधूम-रश्मिः भवनेषु सक्तः रक्षः-शरीर-अज्य-समर्पित-अर्चिः ॥ 32 ॥

आदित्य-कोटि-सदृशः सु-तेजाः लङ्कां समस्तां परिवार्य तिष्ठन् ।
शब्दैः अनेकैः अशनि-प्ररूढैः भिन्दन् इव अण्डं प्रबभौ महा-अग्निः ॥ 33 ॥

तत्र अम्बरात् अग्निः अति-प्रवृद्धः रूक्ष-प्रभः किंशुक-पुष्प-चूडः ।
निर्वाण-धूम-आकुल-राजयः च नील-उत्पल-आभाः प्रचकाशिरे अभ्राः ॥ 34 ॥

वज्री महा-इन्द्रः त्रिदश-ईश्वरः वा साक्षात् यमः वा वरुणः अनिलः वा ।
रुद्रः अग्निः अर्कः धनदः च सोमः न वानरः अयं स्वयम् एव कालः ॥ 35 ॥

किम् ब्रह्मणः सर्व-पितामहस्य सर्वस्य धातुः चतुर्-आननस्य ।
इह आगतः वानर-रूप-धारी रक्षः-उपसंहार-करः प्रकोपः ॥ 36 ॥

किम् वैष्णवं वा कपि-रूपम् एत्य रक्षः-विनाशाय परं सु-तेजः ।
अनन्तम् अव्यक्तम् अचिन्त्यम् एकं स्व-मायया साम्प्रतम् आगतं वा ॥ 37 ॥

इति एवम् ऊचुः बहवः विशिष्टाः रक्षः-गणाः तत्र समेत्य सर्वे ।
स-प्राणि-सङ्घां स-गृहां स-वृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥ 38 ॥

ततः तु लङ्का सहसा प्रदग्धा स-राक्षसा स-अश्व-रथा स-नागा ।
स-पक्षि-सङ्घा स-मृगा स-वृक्षा रुरोद दीना तुमुलं स-शब्दम् ॥ 39 ॥

हा तात हा पुत्रक कान्त मित्र हा जीवितं भोग-युतं सु-पुण्यम् ।
रक्षोभिः एवम् बहुधा ब्रुवद्भिः शब्दः कृतः घोरतरः सु-भीमः ॥ 40 ॥

हुताशन-ज्वाला-समावृता सा हत-प्रवीरा परिवृत्त-योधा ।
हनूमतः क्रोध-बल-अभिभूता बभूव शाप-उपहता इव लङ्का ॥ 41 ॥

सः संभ्रम-त्रस्त-विषण्ण-राक्षसां समुज्ज्वलत्-ज्वाल-हुताशन-अङ्किताम् ।
ददर्श लङ्कां हनुमान् महा-मनाः स्वयंभू-कोप-उपहताम् इव अवनिम् ॥ 42 ॥

भङ्क्त्वा वनं पादप-रत्न-सङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे ।
दग्ध्वा पुरीं तां गृह-रत्न-मालिनीं तस्थौ हनुमान् पवन-आत्मजः कपिः ॥ 43 ॥

त्रिकूट-शृङ्ग-अग्र-तले विचित्रे प्रतिष्ठितः वानर-राज-सिंहः ।
प्रदीप्त-लाङ्गूल-कृत-अर्चिः-माली व्यराजत आदित्यः इव अंशु-माली ॥ 44 ॥

सः राक्षसान् तान् सु-बहून् च हत्वा वनं च भङ्क्त्वा बहु-पादपं तत् ।
विसृज्य रक्षः-भवनेषु च अग्निं जगाम रामं मनसा महा-आत्मा ॥ 45 ॥

ततः तु तं वानर-वीर-मुख्यं महा-बलं मारुत-तुल्य-वेगम् ।
महा-मतिं वायु-सुतं वरिष्ठं प्रतुष्टुवुः देव-गणाः च सर्वे ॥ 46 ॥

भङ्क्त्वा वनं महा-तेजाः हत्वा रक्षांसि संयुगे ।
दग्ध्वा लङ्का-पुरीं रम्यां रराज सः महा-कपिः ॥ 47 ॥

तत्र देवाः स-गन्धर्वाः सिद्धाः च परम्-ऋषयः ।
दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः ॥ 48 ॥

तं दृष्ट्वा वानर-श्रेष्ठं हनूमन्तं महा-कपिम् ।
काल-अग्निः इति सञ्चिन्त्य सर्व-भूतानि तत्रसुः ॥ 49 ॥

देवाः च सर्वे मुनि-पुङ्गवाः च गन्धर्व-विद्याधर-नाग-यक्षाः ।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिम् अतुल्य-रूपाम् ॥ 50 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे चतुः-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: