सः वेश्म-जालं बलवान् ददर्श व्यासक्त-वैडूर्य-सुवर्ण-जालम् ।
यथा महत् प्रावृषि मेघ-जालं विद्युत्-पिनद्धं स-विहंग-जालम् ॥ 1 ॥
निवेशनानां विविधाः च शालाः प्रधान-शङ्ख-आयुध-चाप-शालाः ।
मनोहराः च अपि पुनः विशालाः ददर्श वेश्म-अद्रिषु चन्द्र-शालाः ॥ 2 ॥
गृहाणि नाना-वसु-राजितानि देव-असुरैः च अपि सु-पूजितानि ।
सर्वैः च दोषैः परिवर्जितानि कपिः ददर्श स्व-बल-अर्जितानि ॥ 3 ॥
तानि प्रयत्न-अभिसमाहितानि मयेन साक्षात् इव निर्मितानि ।
मही-तले सर्व-गुण-उत्तराणि ददर्श लङ्का-अधिपतेः गृहाणि ॥ 4 ॥
ततः ददर्श उच्च्रित-मेघ-रूपं मनोहरं काञ्चन-चारु-रूपम् ।
रक्षः-अधिपस्य आत्म-बल-अनुरूपं गृह-उत्तमं हि अप्रतिरूप-रूपम् ॥ 5 ॥
मही-तले स्वर्गम् इव प्रकीर्णं श्रिया ज्वलन्तं बहु-रत्न-कीर्णम् ।
नाना-तरूणां कुसुम-अवकीर्णं गिरेः इव अग्रं रजसा अवकीर्णम् ॥ 6 ॥
नारी-प्रवेकैः इव दीप्यमानं तटिद्भिः अम्भोदवत् अर्च्यमानम् ।
हंस-प्रवेकैः इव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ॥ 7 ॥
यथा नग-अग्रं बहु-धातु-चित्रं यथा नभः च ग्रह-चन्द्र-चित्रम् ।
ददर्श युक्ती-कृत-मेघ-चित्रं विमान-रत्नं बहु-रत्न-चित्रम् ॥ 8 ॥
मही कृता पर्वत-राजि-पूर्णा शैलाः कृताः वृक्ष-वितान-पूर्णाः ।
वृक्षाः कृताः पुष्प-वितान-पूर्णाः पुष्पं कृतं केसर-पत्र-पूर्णम् ॥ 9 ॥
कृतानि वेश्मानि च पाण्डुराणि तथा सु-पुष्पाणि अपि पुष्कराणि ।
पुनः च पद्मानि स-केसराणि धन्यानि चित्राणि तथा वनानि ॥ 10 ॥
पुष्प-आह्वयं नाम विराजमानं रत्न-प्रभाभिः च विवर्धमानम् ।
वेश्म-उत्तमानाम् अपि च उच्यमानं महा-कपिः तत्र महा-विमानम् ॥ 11 ॥
कृताः च वैडूर्य-मयाः विहंगाः रूप्य-प्रवालैः च तथा विहंगाः ।
चित्राः च नाना-वसुभिः भुजंगाः जाति-अनुरूपाः तुरगाः शुभ-अंगाः ॥ 12 ॥
प्रवाल-जाम्बूनद-पुष्प-पक्षाः स-लीलम् आवर्जित-जिह्म-पक्षाः ।
कामस्य साक्षात् इव भान्ति पक्षाः कृताः विहंगाः सु-मुखाः सु-पक्षाः ॥ 13 ॥
नियुज्यमानाः तु गजाः सु-हस्ताः स-केसराः च उत्पल-पत्र-हस्ताः ।
बभूव देवी च कृता सु-हस्ता लक्ष्मीः तथा पद्मिनि पद्म-हस्ता ॥ 14 ॥
इति इव तत् गृहम् अभिगम्य शोभनं स-विस्मयः नगम् इव चारु-शोभनम् ।
पुनः च तत् परम-सुगन्धि सुन्दरं हिम-अत्यये नगम् इव चारु-कन्दरम् ॥ 15 ॥
ततः सः तां कपिः अभिपत्य पूजितां चरन् पुरीं दश-मुख-बाहु-पालिताम् ।
अदृश्य तां जनक-सुतां सु-पूजितां सु-दुःखितः पति-गुण-वेग-वर्जिताम् ॥ 16 ॥
ततः तदा बहु-विध-भावित-आत्मनः कृत-आत्मनः जनक-सुतां सु-वर्त्मनः ।
अपश्यतः अभवत् अति-दुःखितं मनः सु-चक्षुषः प्रविचरतः महा-आत्मनः ॥ 17 ॥
इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे सप्तमः सर्गः ॥

No comments:
Post a Comment