Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 9 - இராவணனின் மனைவியர் அனைவரும் உறங்கிக் கிடப்பதைக் காண்கிறார்

HOME          PREVIOUS               NEXT

तस्य आलय-वरिष्ठस्य मध्ये विपुलम् आयतम् ।
ददर्श भवन-श्रेष्ठं हनुमान् मारुत-आत्मजः ॥ 1 ॥

अर्ध-योजन-विस्तीर्णम् आयतं योजनं हि तत् ।
भवनं राक्षस-इन्द्रस्य बहु-प्रासाद-सङ्कुलम् ॥ 2 ॥

मार्गमाणः तु वैदेहीं सीताम् आयत-लोचनाम् ।
सर्वतः परिचक्राम हनुमान् अरि-सूदनः ॥ 3 ॥

उत्तमं राक्षस-आवासं हनुमान् अवलोकयन् ।
आससाद अथ लक्ष्मीवान् राक्षस-इन्द्र-निवेशनम् ॥ 4 ॥

चतुः-विषाणैः द्विरदैः त्रि-विषाणैः तथा एव च ।
परिक्षिप्तम् असंबाधं रक्ष्यमाणम् उदायुधैः ॥ 5 ॥

राक्षसीभिः च पत्नीभिः रावणस्य निवेशनम् ।
आहृताभिः च विक्रम्य राज-कन्याभिः आवृतम् ॥ 6 ॥

तत् नक्र-मकर-आकीर्णं तिमिङ्गिल-झष-आकुलम् ।
वायु-वेग-समाधूतं पन्नगैः इव सागरम् ॥ 7 ॥

या हि वैश्रवणे लक्ष्मीः या च इन्द्रे हरि-वाहने ।
सा रावण-गृहे सर्वा नित्यम् एव अनपायिनी ॥ 8 ॥

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।
तादृशी तत्-विशिष्टा वा ऋद्धिः रक्षः-गृहेषु इह ॥ 9 ॥

तस्य हर्म्यस्य मध्य-स्थं वेश्म च अन्यत् सु-निर्मितम् ।
बहु-निर्व्यूह-सङ्कीर्णं ददर्श पवन-आत्मजः ॥ 10 ॥

ब्रह्मणः अर्थे कृतं दिव्यं दिवि यत् विश्वकर्मणा ।
विमानं पुष्पकं नाम सर्व-रत्न-विभूषितम् ॥ 11 ॥

परेण तपसा लेभे यत् कुबेरः पितामहात् ।
कुबेरम् ओजसा जित्वा लेभे तत् राक्षस-ईश्वरः ॥ 12 ॥

ईहा-मृग-समायुक्तैः कार्तस्वर-हिरण्मयैः ।
सु-कृतैः आचितं स्तम्भैः प्रदीप्तम् इव च श्रिया ॥ 13 ॥

मेरु-मन्दर-सङ्काशैः उल्लिखद्भिः इव अम्बरम् ।
कूट-आगारैः शुभ-आकारैः सर्वतः समलङ्कृतम् ॥ 14 ॥

ज्वलन-अर्क-प्रतीकाशं सु-कृतं विश्वकर्मणा ।
हेम-सोपान-संयुक्तं चारु-प्रवर-वेदिकम् ॥ 15 ॥

जाल-वातायनैः युक्तं काञ्चनैः स्फाटिकैः अपि ।
इन्द्र-नील-महा-नील-मणि-प्रवर-वेदिकम् ॥ 16 ॥

विद्रुमेण विचित्रेण मणिभिः च महा-घनैः ।
निस्तुलाभिः च मुक्ताभिः तलेन अभिविराजितम् ॥ 17 ॥

चन्दनेन च रक्तेन तपनीय-निभेन च ।
सु-पुण्य-गन्धिना युक्तम् आदित्य-तरुण-उपमम् ॥ 18 ॥

कूट-आगारैः वर-आकारैः विविधैः समलङ्कृतम् ।
विमानं पुष्पकं दिव्यम् आरुरोह महा-कपिः ॥ 19 ॥

तत्र-स्थः सः तदा गन्धं पान-भक्ष्य-अन्न-संभवम् ।
दिव्यं सम्मूर्छितं जिघ्रत् रूपवन्तम् इव अनिलम् ॥ 20 ॥

तस्य आलय-वरिष्ठस्य मध्ये विपुलम् आयतम् ।
ददर्श भवन-श्रेष्ठं हनुमान् मारुत-आत्मजः ॥ 1 ॥

अर्ध-योजन-विस्तीर्णम् आयतं योजनं हि तत् ।
भवनं राक्षस-इन्द्रस्य बहु-प्रासाद-सङ्कुलम् ॥ 2 ॥

मार्गमाणः तु वैदेहीं सीताम् आयत-लोचनाम् ।
सर्वतः परिचक्राम हनुमान् अरि-सूदनः ॥ 3 ॥

उत्तमं राक्षस-आवासं हनुमान् अवलोकयन् ।
आससाद अथ लक्ष्मीवान् राक्षस-इन्द्र-निवेशनम् ॥ 4 ॥

चतु:-विषाणैः द्विरदैः त्रि-विषाणैः तथा एव च ।
परिक्षिप्तम् असम्बाधं रक्ष्यमाणम् उदायुधैः ॥ 5 ॥

राक्षसीभिः च पत्नीभिः रावणस्य निवेशनम् ।
आहृताभिः च विक्रम्य राज-कन्याभिः आवृतम् ॥ 6 ॥

तत् नक्र-मकर-आकीर्णं तिमिङ्गिल-झष-आकुलम् ।
वायु-वेग-समाधूतं पन्नगैः इव सागरम् ॥ 7 ॥

या हि वैश्रवणे लक्ष्मीः या च इन्द्रे हरि-वाहने ।
सा रावण-गृहे सर्वा नित्यम् एव अनपायिनी ॥ 8 ॥

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।
तादृशी तत्-विशिष्टा वा ऋद्धिः रक्षः-गृहेषु इह ॥ 9 ॥

तस्य हर्म्यस्य मध्य-स्थं वेश्म च अन्यत् सु-निर्मितम् ।
बहु-निर्व्यूह-सङ्कीर्णं ददर्श पवन-आत्मजः ॥ 10 ॥

ब्रह्मणः अर्थे कृतं दिव्यं दिवि यत् विश्वकर्मणा ।
विमानं पुष्पकं नाम सर्व-रत्न-विभूषितम् ॥ 11 ॥

परेण तपसा लेभे यत् कुबेरः पितामहात् ।
कुबेरम् ओजसा जित्वा लेभे तत् राक्षस-ईश्वरः ॥ 12 ॥

ईहा-मृग-समायुक्तैः कार्तस्वर-हिरण्मयैः ।
सु-कृतैः आचितं स्तम्भैः प्रदीप्तम् इव च श्रिया ॥ 13 ॥

मेरु-मन्दर-सङ्काशैः उल्लिखद्भिः इव अम्बरम् ।
कूट-आगारैः शुभ-आकारैः सर्वतः समलङ्कृतम् ॥ 14 ॥

ज्वलन-अर्क-प्रतीकाशं सु-कृतं विश्वकर्मणा ।
हेम-सोपान-संयुक्तं चारु-प्रवर-वेदिकम् ॥ 15 ॥

जाल-वातायनैः युक्तं काञ्चनैः स्फाटिकैः अपि ।
इन्द्र-नील-महा-नील-मणि-प्रवर-वेदिकम् ॥ 16 ॥

विद्रुमेण विचित्रेण मणिभिः च महा-घनैः ।
निस्तुलाभिः च मुक्ताभिः तलेन अभिविराजितम् ॥ 17 ॥

चन्दनेन च रक्तेन तपनीय-निभेन च ।
सु-पुण्य-गन्धिना युक्तम् आदित्य-तरुण-उपमम् ॥ 18 ॥

कूट-आगारैः वर-आकारैः विविधैः समलङ्कृतम् ।
विमानं पुष्पकं दिव्यम् आरुरोह महा-कपिः ॥ 19 ॥

तत्र-स्थः सः तदा गन्धं पान-भक्ष्य-अन्न-सम्भवम् ।
दिव्यं सम्मूर्छितं जिघ्रत् रूपवन्तम् इव अनिलम् ॥ 20 ॥

सः गन्धः तं महा-सत्त्वं बन्धुः बन्धुम् इव उत्तमम् ।
इतः एहि इति उवाच इव तत्र यत्र सः रावणः ॥ 21 ॥

ततः तां प्रस्थितः शालां ददर्श महतीं शुभाम् ।
रावणस्य मनः-कान्तां कान्ताम् इव वर-स्त्रियम् ॥ 22 ॥

मणि-सोपान-विकृतां हेम-जाल-विभूषिताम् ।
स्फाटिकैः आवृत-तलां दन्त-अन्तरित-रूपिकाम् ॥ 23 ॥

मुक्ताभिः च प्रवालैः च रूप्य-चामीकरैः अपि ।
विभूषितां मणि-स्तम्भैः सु-बहु-स्तम्भ-भूषिताम् ॥ 24 ॥

नम्रैः ऋजुभिः अति-उच्चैः समन्तात् सु-विभूषितैः ।
स्तम्भैः पक्षैः इव अति-उच्चैः दिवं सम्प्रस्थिताम् इव ॥ 25 ॥

महत्या कुथया स्तीर्णां पृथिवी-लक्षण-अङ्कया ।
पृथिवीम् इव विस्तीर्णां स-राष्ट्र-गृह-मालिनीम् ॥ 26 ॥

नादितां मत्त-विहगैः दिव्य-गन्ध-अधिवासिताम् ।
पर-अर्घ्य-आस्तरण-उपेतां रक्षः-अधिप-निषेविताम् ॥ 27 ॥

धूम्र-अगरु-धूपेन विमलां हंस-पाण्डुराम् ।
चित्रां पुष्प-उपहारेण कल्माषीम् इव सु-प्रभाम् ॥ 28 ॥

मनः-संह्लाद-जननीं वर्णस्य अपि प्रसादिनीम् ।
तां शोक-नाशिनीं दिव्यां श्रियः संजननीम् इव ॥ 29 ॥

इन्द्रियाणि इन्द्रिय-अर्थैः तु पञ्च पञ्चभिः उत्तमैः ।
तर्पयामास माता इव तदा रावण-पालिता ॥ 30 ॥

स्वर्गः अयम् देव-लोकः अयम् इन्द्रस्य इयं पुरी भवेत् ।
सिद्धिः वा इयं परा हि स्यात् इति अमन्यत मारुतिः ॥ 31 ॥

प्रध्यायतः इव अपश्यत् प्रदीपान् तत्र काञ्चनान् ।
धूर्तान् इव महा-धूतैः देवनेन पराजितान् ॥ 32 ॥

दीपानाम् च प्रकाशेन तेजसा रावणस्य च ।
अर्चिभिः भूषणानां च प्रदीप्ता इति अभ्यमन्यत ॥ 33 ॥

ततः अपश्यत् कुथा-आसीनं नाना-वर-अम्बर-स्रजम् ।
सहस्रं वर-नारीणां नाना-वेष-विभूषितम् ॥ 34 ॥

परिवृत्ते अर्ध-रात्रे तु पान-निद्रा-वशं गतम् ।
क्रीडित्वा उपरतं रात्रौ सुष्वाप बलवत् तदा ॥ 35 ॥

तत् प्रसुप्तं विरुरुचे निःशब्द-अन्तर-भूषणम् ।
निःशब्द-हंस-भ्रमरं यथा पद्म-वनं महत् ॥ 36 ॥

तासां संवृत-दन्तानि मीलित-अक्षीणि मारुतिः ।
अपश्यत् पद्म-गन्धीनि वदनानि सु-योषिताम् ॥ 37 ॥

प्रबुद्धानि इव पद्मानि तासां भूत्वा क्षपा-क्षये ।
पुनः संवृत-पत्राणि रात्रौ इव बभूवुः तदा ॥ 38 ॥

इमानि मुख-पद्मानि नियतं मत्त-षट्पदाः ।
अम्बुजानि इव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥ 39 ॥

इति च अमन्यत श्रीमान् उपपत्त्या महा-कपिः ।
मेने हि गुणतः तानि समानि सलिल-उद्भवैः ॥ 40 ॥

सा तस्य शुशुभे शाला ताभिः स्त्रीभिः विराजिता ।
शारदी इव प्रसन्ना द्यौः ताराभिः अभिशोभिता ॥ 41 ॥

सः च ताभिः परिवृतः शुशुभे राक्षस-अधिपः ।
यथा हि उडुपतिः श्रीमान् ताराभिः अभिसंवृतः ॥ 42 ॥

याः च्यवन्ते अम्बरात् ताराः पुण्य-शेष-समावृताः ।
इमाः ताः संगताः कृत्स्नाः इति मेने हरिः तदा ॥ 43 ॥

ताराणाम् इव सु-व्यक्तं महतीनाम् शुभ-अर्चिषाम् ।
प्रभा-वर्ण-प्रसादाः च विरेजुः तत्र योषिताम् ॥ 44 ॥

व्यावृत्त-गुरु-पीन-स्रक्-प्रकीर्ण-वर-भूषणाः ।
पान-व्यायाम-कालेषु निद्रा-अपहृत-चेतसः ॥ 45 ॥

व्यावृत्त-तिलकाः काश्चित् काश्चित् उद्भ्रान्त-नूपुराः ।
पार्श्वे गलित-हाराः च काश्चित् परम-योषितः ॥ 46 ॥

मुक्ता-हार-आवृताः च अन्याः काश्चित् विस्रस्त-वाससः ।
व्याविद्ध-रशना-दामाः किशोर्यः इव वाहिताः ॥ 47 ॥

सु-कुण्डल-धराः च अन्याः विच्छिन्न-मृदित-स्रजः ।
गज-इन्द्र-मृदिताः फुल्लाः लताः इव महा-वने ॥ 48 ॥

चन्द्र-अंशु-किरण-आभाः च हाराः कासाञ्चित् उत्कटाः ।
हंसाः इव बभूवुः सुप्ताः स्तन-मध्येṣu योषिताम् ॥ 49 ॥

अपरासाम् च वैडूर्याः कादम्बाः इव पक्षिणः ।
हेम-सूत्राणि च अन्यासां चक्रवाकाः इव अभवन् ॥ 50 ॥

हंस-कारण्डव-आकीर्णाः चक्रवाक-उपशोभिताः ।
आपगाः इव ताः रेजुः जघनैः पुलिनैः इव ॥ 51 ॥

किङ्किणी-जाल-संकोशाः ताः हैम-विपुल-अम्बुजाः ।
भाव-ग्राहाः यशः-तीराः सुप्ताः नद्यः इव आबभुः ॥ 52 ॥

मृदुषु अङ्गेषु कासाञ्चित् कुच-अग्रेषु च संस्थिताः ।
बभूवुः भूषणानि इव शुभाः भूषण-राजयः ॥ 53 ॥

अंशु-कान्ताः च कासाञ्चित् मुख-मारुत-कम्पिताः ।
उपरि उपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥ 54 ॥

ताः पताकाः इव उद्धूताः पत्नीनाम् रुचिर-प्रभाः ।
नाना-वर्ण-सुवर्णानां वक्त्र-मूलेषु रेजिरे ॥ 55 ॥

ववल्गुः च अत्र कासाञ्चित् कुण्डलानि शुभ-अर्चिषाम् ।
मुख-मारुत-संसर्गात् मन्दं मन्दं सु-योषिताम् ॥ 56 ॥

शर्करा-आसव-गन्धैः च प्रकृत्या सुरभिः सुखः ।
तासां वदन-निःश्वासः सिषेवे रावणं तदा ॥ 57 ॥

रावण-आनन-शङ्काः च काश्चित् रावण-योषितः ।
मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः ॥ 58 ॥

अत्यर्थं सक्त-मनसः रावणे ताः वर-स्त्रियः ।
अस्वतन्त्राः सपत्नीनां प्रियं एव अचरन् तदा ॥ 59 ॥

बाहून् उपनिधाय अन्याः पारिहार्य-विभूषितान् ।
अंशुकानि च रम्याणि प्रमदाः तत्र शिश्यिरे ॥ 60 ॥

अन्या वक्षसि च अन्यस्याः तस्याः काचित् पुनः भुजम् ।
अपरा तु अङ्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ ॥ 61 ॥

ऊरु-पार्श्व-कटी-पृष्ठम् अन्योन्यस्य समाश्रिताः ।
परस्पर-निविष्ट-अङ्ग्यः मद-स्नेह-वश-अनुगाः ॥ 62 ॥

अन्योन्य-भुज-सूत्रेण स्त्री-माला ग्रथिता हि सा ।
माला इव ग्रथिता सूत्रे शुशुभे मत्त-षट्पदा ॥ 63 ॥

लतानां माधवे मासि फुल्लानां वायु-सेवनात् ।
अन्योन्य-माला-ग्रथितं संसक्त-कुसुम-उच्चयम् ॥ 64 ॥

व्यति-वेष्टित-सु-स्कन्धम् अन्योन्य-भ्रमर-आकुलम् ।
आसीत् वनम् इव उद्धूतं स्त्री-वनं रावणस्य तत् ॥ 65 ॥

उचितेषु अपि सु-व्यक्तं न तासां योषितां तदा ।
विवेकः शक्यः आधातुं भूषण-अङ्ग-अम्बर-स्रजाम् ॥ 66 ॥

रावणे सुख-संविष्टे ताः स्त्रियः विविध-प्रभाः ।
ज्वलन्तः काञ्चनाः दीपाः प्रैक्षन्त अनिमिषाः इव ॥ 67 ॥

राजर्षि-पितृ-दैत्यानां गन्धर्वाणां च योषितः ।
राक्षसानां च याः कन्याः तस्य काम-वशं गताः ॥ 68 ॥

युद्ध-कामेन ताः सर्वाः रावणेन हृताः स्त्रियः ।
समदाः मदनेन एव मोहिताः काश्चित् आगताः ॥ 69 ॥

न तत्र काचित् प्रमदा प्रसह्य वीर्य-उपपन्नेन गुणेन लब्धा ।
न च अन्य-कामा अपि न च अन्य-पूर्वा विना वर-अर्हां जनक-आत्मजां ताम् ॥ 70 ॥

न च अकुलीना न च हीन-रूपा न अदक्षिणा न अनुपचार-युक्ता ।
भार्या अभवत् तस्य न हीन-सत्त्वा न च अपि कान्तस्य न कामनीयाः ॥ 71 ॥

बभूव बुद्धिः तु हरि-ईश्वरस्य यत् ईदृशी राघव-धर्म-पत्नी ।
इमाः यथा राक्षस-राज-भार्याः सु-जातम् अस्य इति हि साधु-बुद्धेः ॥ 72 ॥

पुनः च सः अचिन्तयत् आत्त-रूपः ध्रुवं विशिष्टा गुणतः हि सीता ।
अथ अयम् अस्यां कृतवान् महा-आत्मा लङ्का-ईश्वरः कष्टम् अनार्य-कर्म ॥ 73 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे नवमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: