तस्य तत् वचनं श्रुत्वा दश-ग्रीवः महा-आत्मनः ।
देश-काल-हितं वाक्यं भ्रातुः उत्तरम् अब्रवीत् ॥ 1 ॥
सम्यक् उक्तं हि भवता दूत-वध्याः विगर्हिताः ।
अवश्यं तु वधात् अन्यः क्रियताम् अस्य निग्रहः ॥ 2 ॥
कपीनां किल लाङ्गूलम् इष्टं भवति भूषणम् ।
तत् अस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ 3 ॥
ततः पश्यन्तु इमं दीनम् अङ्ग-वैरूप्य-कर्शितम् ।
स-मित्र-ज्ञातयः सर्वे बान्धवाः स-सुहृत्-जनाः ॥ 4 ॥
आज्ञापयत् राक्षस-इन्द्रः पुरं सर्वं स-चत्वरम् ।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ 5 ॥
तस्य तत् वचनं श्रुत्वा राक्षसाः कोप-कर्शिताः ।
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ॥ 6 ॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महा-कपिः ।
शुष्कम् इन्धनम् आसाद्य वनेषु इव हुताशनः ॥ 7 ॥
तैलेन परिषिच्य अथ ते अग्निं तत्र अभ्यपातयन् ।
लाङ्गूलेन प्रदीप्तेन राक्षसान् तान् अपातयत् ॥ 8 ॥
रोष-अमर्ष-परीत-आत्मा बाल-सूर्य-समान-आननः ।
लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः ॥ 9 ॥
सह स्त्री-बाल-वृद्धाः च जग्मुः प्रीताः निशाचराः ।
सः भूयः सङ्गतैः क्रूरैः राक्षसैः हरि-सत्तमः ॥ 10 ॥
निबद्धः कृतवान् वीरः तत्-काल-सदृशीं मतिम् ।
कामं खलु न मे शक्ताः निबद्धस्य अपि राक्षसाः ॥ 11 ॥
छित्त्वा पाशान् समुत्पत्य हन्याम् अहम् इमान् पुनः ।
यदि भर्तुः हित-अर्थाय चरन्तं भर्तृ-शासनात् ॥ 12 ॥
बध्नन्ति एते दुरात्मानः न तु मे निष्कृतिः कृता ।
सर्वेषाम् एव पर्याप्तः राक्षसानाम् अहं युधि ॥ 13 ॥
किन्तु रामस्य प्रीति-अर्थं विषहिष्ये अहम् ईदृशम् ।
लङ्का च आरयितव्या वै पुनः एव भवेत् इति ॥ 14 ॥
रात्रौ न हि सुदृष्टा मे दुर्ग-कर्म-विधानतः ।
अवश्यम् एव द्रष्टव्या मया लङ्का निशा-क्षये ॥ 15 ॥
कामं बद्धस्य मे भूयः पुच्छस्य उद्दीपनेन च ।
पीडां कुर्वन्तु रक्षांसि न मे अस्ति मनसः श्रमः ॥ 16 ॥
ततः ते संवृत-आकारं सत्त्व-वंतं महा-कपिम् ।
परिगृह्य ययुः हृष्टाः राक्षसाः कपि-कुञ्जरम् ॥ 17 ॥
शङ्ख-भेरी-निनादैः तं घोषयन्तः स्व-कर्मभिः ।
राक्षसाः क्रूर-कर्माणः चारयन्ति स्म तां पुरीम् ॥ 18 ॥
अन्वीयमानः रक्षोभिः ययौ सुखम् अरि-दमः ।
हनुमान् चारयामास राक्षसानां महा-पुरीम् ॥ 19 ॥
अथ अपश्यत् विमानानि विचित्राणि महा-कपिः ।
संवृतान् भूमि-भागान् च सु-विभक्तान् च चत्वरान् ॥ 20 ॥
वीथीः च गृह-संबाधाः कपिः शृङ्गाटकानि च ।
तथा रथ्यः उप-रथ्याः च तथा एव गृह-कान्तरान् ॥ 21 ॥
गृहान् च मेघ-संकाशान् ददर्श पवन-आत्मजः ।
चत्वरेषु चतुष्केषु राज-मार्गे तथा एव च ॥ 22 ॥
घोषयन्ति कपिं सर्वे चारीकः इति राक्षसाः ।
स्त्री-बाल-वृद्धाः निर्जग्मुः तत्र तत्र कुतूहलात् ॥ 23 ॥
तं प्रदीप्त-लाङ्गूलं हनूमन्तं दिदृक्षवः ।
दीप्यमाने ततः तत्र लाङ्गूल-अग्रे हनूमतः ॥ 24 ॥
राक्षस्यः ताः विरूप-अक्ष्यः शशंसुः देव्यै तत् अप्रियम् ।
यः त्वया कृत-संवादः सीते ताम्र-मुखः कपिः ॥ 25 ॥
लाङ्गूलेन प्रदीप्तेन सः एषः परिनीयते ।
श्रुत्वा तत् वचनं क्रूरम् आत्म-अपहरण-उपमम् ॥ 26 ॥
वैदेही शोक-संतप्ता हुताशनम् उपागमत् ।
मङ्गल-अभिमुखी तस्य सा तदा आसीत् महा-कपेः ॥ 27 ॥
उपतस्थे विशाल-अक्षी प्रयता हव्य-वाहनम् ।
यदि अस्ति पति-शुश्रूषा यदि अस्ति चरितं तपः ।
यदि च अस्ति एक-पत्नीत्वं शीतः भव हनूमतः ॥ 28 ॥
यदि किञ्चित् अनुक्रोशः तस्य मयि अस्ति धीमतः ॥ 29 ॥
यदि वा भाग्य-शेषः मे शीतः भव हनूमतः ।
यदि मां वृत्त-संपन्नां तत्-समागम-लालसाम् ॥ 30 ॥
सः विजानाति धर्म-आत्मा शीतः भव हनूमतः ।
यदि मां तारयेत् आर्यः सुग्रीवः सत्य-सङ्गरः ॥ 31 ॥
अस्मात् दुःख-अम्बु-संरोधात् शीतः भव हनूमतः ।
ततः तीक्ष्ण-अर्चिः अव्यग्रः प्रदक्षिण-शिखः अनलः ॥ 32 ॥
जज्वाल मृग-शाव-अक्ष्याः शंसन् इव शिवं कपेः ।
हनुमत्-जनकः च अपि पुच्छ-अनल-युतः अनिलः ॥ 33 ॥
ववौ स्वास्थ्य-करः देव्याः प्रालेय-अनिल-शीतलः ।
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ॥ 34 ॥
प्रदीप्तः अग्निः अयं कस्मात् न मां दहति सर्वतः ।
दृश्यते च महा-ज्वालः करोति न च मे रुजम् ॥ 35 ॥
शिशिरस्य इव संघातः लाङ्गूल-अग्रे प्रतिष्ठितः ।
अथवा तत् इदं व्यक्तं यत् दृष्टं प्लवता मया ॥ 36 ॥
राम-प्रभावात् आश्चर्यं पर्वते सरितां पतौ ।
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ॥ 37 ॥
राम-अर्थं संभ्रमः तादृक् किम् अग्निः न करिष्यति ।
सीतायाः च आनृशंस्येन तेजसा राघवस्य च ॥ 38 ॥
पितुः च मम सख्येन न मां दहति पावकः ।
भूयः च चिन्तयामास मुहूर्तं कपि-कुञ्जरः ॥ 39 ॥
उत्पपात अथ वेगेन ननाद च महा-कपिः ।
पुर-द्वारं ततः श्रीमान् शैल-शृङ्गम् इव उन्नतम् ॥ 40 ॥
विभक्त-रक्षः-संबाधम् आससाद अनिल-आत्मजः ।
सः भूत्वा शैल-संकाशः क्षणेन पुनः आत्मवान् ॥ 41 ॥
ह्रस्वतां परमां प्राप्तः बन्धनानि अवशातयत् ।
विमुक्तः च अभवत् श्रीमान् पुनः पर्वत-सन्निभः ॥ 42 ॥
वीक्षमाणः च ददर्शे परिघं तोरण-आश्रितम् ।
सः तं गृह्य महा-बाहुः काल-अयस-परिष्कृतम् ॥ 43 ॥
रक्षिणः तान् पुनः सर्वान् सूदयामास मारुतिः ।
सः तान् निहत्य रण-चण्ड-विक्रमः समीक्षमाणः पुनः एव लङ्काम् ।
प्रदीप्त-लाङ्गूल-कृत-अर्चिः-माली प्रकाशत आदित्यः इव अर्चिः-माली ॥ 44 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे त्रि-पञ्चाशः सर्गः ॥

No comments:
Post a Comment