Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 64 - ததிமுகன் திரும்பி வந்து வானரர்களிடம் மன்னிப்பு கேட்கிறான்; பின்னர் அனைவரும் இராமனிடம் சென்று சீதை கண்டுபிடிக்கப்பட்ட செய்தியை தெரிவிக்கிறார்கள்.


HOME          PREVIOUS               NEXT

सुग्रीवेण एवम् उक्तः तु हृष्टः दधि-मुखः कपिः ।
राघवम् लक्ष्मणम् च एव सुग्रीवम् च अभ्यवादयत् ॥ ५-६४-१ ॥

सः प्रणम्य च सुग्रीवम् राघवौ च महा-बलौ ।
वानरैः सहितैः शूरैः दिवम् एव उत्पपात ह ॥ ५-६४-२ ॥

सः प्रविष्टः मधु-वनम् ददर्श हरि-यूथपान् ।
वि-मदान् उद्धतान् सर्वान् मेहमानान् मधु-उदकम् ॥ ५-६४-३ ॥

सः तान् उपागमत् वीरः बद्ध्वा कर-पुट-अञ्जलिम् ।
उवाच वचनम् श्लक्ष्णम् इदम् हृष्टवत् अङ्गदम् ॥ ५-६४-४ ॥

सौम्य रोषः न कर्तव्यः यत् एभिः अभिवारितः ।
अज्ञानात् रक्षिभिः क्रोधात् भवन्तः प्रतिषेधिताः ॥ ५-६४-५ ॥

युव-राजः त्वम् ईशः च वनस्य अस्य महा-बल ।
मौर्ख्यात् पूर्वम् कृतः दोषः तत् भवान् क्षन्तुम् अर्हति ॥ ५-६४-६ ॥

आख्यातम् हि मया गत्वा पितृव्यस्य तव अनघ ।
इह उपयानम् सर्वेषाम् एतेषाम् वन-चारिणाम् ॥ ५-६४-७ ॥

सः त्वत्-आगमनम् श्रुत्वा सह एभिः हरि-यूथपैः ।
प्रहृष्टः न तु रुष्टः असौ वनम् श्रुत्वा प्रधर्षितम् ॥ ५-६४-८ ॥

प्रहृष्टः माम् पितृव्यः ते सुग्रीवः वानर-ईश्वरः ।
शीघ्रम् प्रेषय सर्वान् तान् इति ह उवाच पार्थिवः ॥ ५-६४-९ ॥

श्रुत्वा दधि-मुखस्य एतत् वचनम् श्लक्ष्णम् अङ्गदः ।
अब्रवीत् तान् हरि-श्रेष्ठः वाक्यम् वाक्य-विशारदः ॥ ५-६४-१० ॥

शङ्के श्रुतः अयम् वृत्त-अन्तः रामेण हरि-यूथपाः ।
तत् क्षमम् न इह नः स्थातुम् कृते कार्ये परम्-तपाः ॥ ५-६४-११ ॥

पीत्वा मधु यथा-कामम् विश्रान्ताः वन-चारिणः ।
किम् शेषम् गमनम् तत्र सुग्रीवः यत्र मे गुरुः ॥ ५-६४-१२ ॥

सर्वे यथा माम् वक्ष्यन्ति समेत्य हरि-यूथपाः ।
तथा अस्मि कर्ता कर्तव्ये भवद्भिः परवान् अहम् ॥ ५-६४-१३ ॥

न आज्ञापयितुम् ईशः अहम् युव-राजः अस्मि यदि अपि ।
अयुक्तम् कृत-कर्माणः यूयम् धर्षयितुम् मया ॥ ५-६४-१४ ॥

ब्रुवतः च अङ्गदः च एवम् श्रुत्वा वचनम् अव्ययम् ।
प्रहृष्ट-मनसः वाक्यम् इदम् ऊचुः वन-ओकसः ॥ ५-६४-१५ ॥

एवम् वक्ष्यति कः राजन् प्रभुः सन् वानर-ऋषभ ।
ऐश्वर्य-मद-मत्तः हि सर्वः अहम् इति मन्यते ॥ ५-६४-१६ ॥

तव च इदम् सु-सदृशम् वाक्यम् न अन्यस्य कस्यचित् ।
सम्नतिः हि तव आख्याति भविष्यत् शुभ-भाग्यताम् ॥ ५-६४-१७ ॥

सर्वे वयम् अपि प्राप्ताः तत्र गन्तुम् कृत-क्षणाः ।
सः यत्र हरि-वीराणाम् सुग्रीवः पतिः अव्ययः ॥ ५-६४-१८ ॥

त्वया हि अनुक्तैः हरिभिः न एव शक्यम् पदात् पदम् ।
क्वचित् गन्तुम् हरि-श्रेष्ठ ब्रूमः सत्यम् इदम् तु ते ॥ ५-६४-१९ ॥

एवम् तु वदताम् तेषाम् अङ्गदः प्रत्यभाषत ।
बाढम् गच्छामः इति उक्त्वा उत्पपात मही-तलात् ॥ ५-६४-२० ॥

उत्पतन्तम् अनूत्पेतुः सर्वे ते हरि-यूथपाः ।
कृत्वा आकाशम् निराकाशम् यज्ञ-उत्क्षिप्ताः इव अनलाः ॥ ५-६४-२१ ॥

ते अम्बरम् सहसा उत्पत्य वेगवन्तः प्लवङ्गमाः ।
विनदन्तः महा-नादम् घनाः वात-ईरिताः यथा ॥ ५-६४-२२ ॥

अङ्गदे हि अननुप्राप्ते सुग्रीवः वानर-अधिपः ।
उवाच शोक-उपहतम् रामम् कमल-लोचनम् ॥ ५-६४-२३ ॥

समाश्वसिहि भद्रम् ते दृष्टा देवी न संशयः ।
न आगन्तुम् इह शक्यम् तैः अतीते समये हि नः ॥ ५-६४-२४ ॥

न मत्-सकाशम् आगच्छेत् कृत्ये हि विनिपातिते ।
युव-राजः महा-बाहुः प्लवताम् प्रवरः अङ्गदः ॥ ५-६४-२५ ॥

यदि अपि अकृत-कार्याणाम् ईदृशः स्यात् उपक्रमः ।
भवेत् तु दीन-वदनः भ्रान्त-विप्लुत-मानसः ॥ ५-६४-२६ ॥

पितृ-पैतामहम् च एतत् पूर्वकैः अभिरक्षितम् ।
न मे मधु-वनम् हन्यात् अहृष्टः प्लवग-ईश्वरः ॥ ५-६४-२७ ॥

कौसल्या-सुप्रज राम समाश्वसिहि सुव्रत ।
दृष्टा देवी न सन्देहः न च अन्येन हनूमता ॥ ५-६४-२८ ॥

न हि अन्यः कर्मणः हेतुः साधने तत्-विधः भवेत् ।
हनूमति हि सिद्धिः च मतिः च मति-सत्तम ॥ ५-६४-२९ ॥

व्यवसायः च वीर्यम् च सूर्ये तेजः इव ध्रुवम् ।
जाम्बवान् यत्र नेता स्यात् अङ्गदः च बल-ईश्वरः ॥ ५-६४-३० ॥

हनूमान् च अपि अधिष्ठाता न तस्य गतिः अन्यथा ।
मा भूः चिन्ता-समायुक्तः सम्प्रति अमित-विक्रम ॥ ५-६४-३१ ॥

ततः किल-किला-शब्दम् शुश्राव आसन्नम् अम्बरे ।
हनूमत्-कर्म-दृप्तानाम् नर्दताम् कानन-ओकसाम् ॥ ५-६४-३२ ॥

किष्किन्धाम् उपयातानाम् सिद्धिम् कथयताम् इव ।
ततः श्रुत्वा निनादम् तम् कपीनाम् कपि-सत्तमः ॥ ५-६४-३३ ॥

आयत-अञ्चित-लाङ्गूलः सः अभवत् हृष्ट-मानसः ।
आजग्मुः ते अपि हरयः राम-दर्शन-काङ्क्षिणः ॥ ५-६४-३४ ॥

अङ्गदम् पुरतः कृत्वा हनूमन्तम् च वानरम् ।
ते अङ्गद-प्रमुखाः वीराः प्रहृष्टाः च मुदा-अन्विताः ॥ ५-६४-३५ ॥

निपेतुः हरि-राजस्य समीपे राघवस्य च ।
हनूमान् च महा-बाहुः प्रणम्य शिरसा ततः ॥ ५-६४-३६ ॥

नियताम् अक्षताम् देवीम् राघवाय न्यवेदयत् ।
दृष्टा देवी इति हनुमत्-वदनात् अमृत-उपमम् ॥ ५-६४-३७ ॥

आकर्ण्य वचनम् रामः हर्षम् आप स-लक्ष्मणः ।
निश्चित-अर्थम् ततः तस्मिन् सुग्रीवम् पवन-आत्मजे ॥ ५-६४-३८ ॥

लक्ष्मणः प्रीतिमान् प्रीतम् बहु-मानात् अवैक्षत ।
प्रीत्या च रममाणः अथ राघवः पर-वीर-हा ॥ ५-६४-३९ ॥

बहु-मानेन महता हनूमन्तम् अवैक्षत ॥

इति आर्षे श्रीमत्-रामायणे आदि-काव्ये सुन्दर-काण्डे चतुः-षष्टितमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: