ततः सः मध्यम्-गतम् अंशु-मन्तं ज्योत्स्ना-वितानं महत् उद्वमन्तम् ।
ददर्श धीमान् दिवि भानु-मन्तं गोष्ठे वृषं मत्तम् इव भ्रमन्तम् ॥ 1 ॥
लोकस्य पापानि विनाशयन्तं महा-उदधिं च अपि समेधयन्तम् ।
भूतानि सर्वाणि विराजयन्तं ददर्श शीत-अंशुम् अथ अभियांतम् ॥ 2 ॥
या भाति लक्ष्मीः भुवि मन्दर-स्था तथा प्रदोषेषु च सागर-स्था ।
तथा एव तोयेषु च पुष्कर-स्था रराज सा चारु-निशाकर-स्था ॥ 3 ॥
हंसः यथा राजत-पञ्जर-स्थः सिंहः यथा मन्दर-कन्दर-स्थः ।
वीरः यथा गर्वित-कुञ्जर-स्थः चन्द्रः अपि बभ्राज तथा अम्बर-स्थः ॥ 4 ॥
स्थितः ककुद्मान् इव तीक्ष्ण-शृंगः महा-अचलः श्वेतः इव उच्च-शृंगः ।
हस्ती इव जाम्बूनद-बद्ध-शृंगः रराज चन्द्रः परिपूर्ण-शृंगः ॥ 5 ॥
विनष्ट-शीत-अम्बु-तुषार-पङ्कः महा-ग्रह-ग्राह-विनष्ट-पङ्कः ।
प्रकाश-लक्ष्मी-आश्रय-निर्मल-अङ्कः रराज चन्द्रः भगवान् शशाङ्कः ॥ 6 ॥
शिला-तलं प्राप्य यथा मृग-इन्द्रः महा-अरणं प्राप्य यथा गज-इन्द्रः ।
राज्यं समासाद्य यथा नर-इन्द्रः तथा प्रकाशः विरराज चन्द्रः ॥ 7 ॥
प्रकाश-चन्द्रोदय-नष्ट-दोषः प्रवृत्त-रक्षः-पिशित-अश-दोषः ।
राम-अभिराम-ईरित-चित्त-दोषः स्वर्ग-प्रकाशः भगवान् प्रदोषः ॥ 8 ॥
तन्त्री-स्वनाः कर्ण-सुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सु-वृत्ताः ।
नक्तं-चराः च अपि तथा प्रवृत्ताः विहर्तुम् अति-अद्भुत-रौद्र-वृत्ताः ॥ 9 ॥
मत्त-प्रमत्तानि समाकुलानि रथ-अश्व-भद्र-आसन-सङ्कुलानि ।
वीर-श्रिया च अपि समाकुलानि ददर्श धीमान् सः कपिः कुलानि ॥ 10 ॥
परस्परं च अधिकम् आक्षिपन्ति भुजान् च पीनान् अधिकं क्षिपन्ति ।
मत्त-प्रलापान् अधिकं क्षिपन्ति मत्तानि च अन्योन्यम् अधिक्षिपन्ति ॥ 11 ॥
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति ।
रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ 12 ॥
ददर्श कान्ताः च समालभन्त्यः तथा पराः तत्र पुनः स्वपन्त्यः ।
सु-रूप-वक्त्राः च तथा हसन्त्यः क्रुद्धाः पराः च अपि विनिःश्वसन्त्यः ॥ 13 ॥
महा-गजैः च अपि तथा नदद्भिः सु-पूजितैः च अपि तथा सु-सद्भिः ।
रराज वीरैः च विनिःश्वसद्भिः ह्रदः भुजंगैः इव निःश्वसद्भिः ॥ 14 ॥
बुद्धि-प्रधानान् रुचिर-अभिधानान् सं-श्रद्ध-धानान् जगतः प्रधानान् ।
नाना-विधानान् रुचिर-अभिधानान् ददर्श तस्यां पुरि यातुधानान् ॥ 15 ॥
ननन्द दृष्ट्वा सः च तान् सु-रूपान् नाना-गुणान् आत्म-गुण-अनुरूपान् ।
विद्योतमानान् सः तत्-अनुरूपान् ददर्श कांश्चित् च पुनः विरूपान् ॥ 16 ॥
ततः वर-अर्हाः सु-विशुद्ध-भावाः तेषां स्त्रियः तत्र महा-अनुभावाः ।
प्रियेषु पानेषु च सक्त-भावाः ददर्श ताराः इव सु-प्रभावाः ॥ 17 ॥
श्रिया ज्वलन्तीः त्रपया उपगूढाः निशीथ-काले रमण-उपगूढाः ।
ददर्श काश्चित् प्रमदा-उपगूढाः यथा विहंगाः कुसुम-उपगूढाः ॥ 18 ॥
अन्याः पुनः हर्म्य-तल-उपविष्टाः तत्र प्रिय-अङ्केषु सुख-उपविष्टाः ।
भर्तुः प्रियाः धर्म-पराः निविष्टाः ददर्श धीमान् मदन-अभिविष्टाः ॥ 19 ॥
अप्रावृताः काञ्चन-राजि-वर्णाः काश्चित् पर-अर्थ्याः तपनीय-वर्णाः ।
पुनः च काश्चित् शश-लक्ष्म-वर्णाः कान्त-प्रहीणाः रुचिर-अङ्ग-वर्णाः ॥ 20 ॥
ततः प्रियान् प्राप्य मनोभि-रामाः सुप्रीति-युक्ताः प्रसमीक्ष्य-रामाः ।
गृहेषु हृष्टाः परम-अभिरामाः हरि-प्रवीरः स ददर्श रामाः ॥ 21 ॥
चन्द्र-प्रकाशाः च हि वक्त्र-मालाः वक्र-अक्षि-पक्ष्माः च सु-नेत्र-मालाः ।
विभूषणानाम् च ददर्श मालाः शत-ह्रदानाम् इव चारु-मालाः ॥ 22 ॥
न तु एव सीताम् परम-अभिजाताम् पथि स्थिते राज-कुले प्रजाताम् ।
लताम् प्रफुल्लाम् इव साधु-जाताम् ददर्श तन्वीम् मनसा-अभिजाताम् ॥ 23 ॥
सनातने वर्त्मनि सन्निविष्टाम् राम-ईक्षणाम् ताम् मदन-अभिविष्टाम् ।
भर्तुः मनः-श्रीमद्-अनुप्रविष्टाम् स्त्रीभ्यः वराभ्यः च सदा विशिष्टाम् ॥ 24 ॥
उष्ण-अर्दिताम् स-अनुसृत-अस्र-कण्ठीम् पुरा वर-अर्ह-उत्तम-निष्क-कण्ठीम् ।
सु-जात-पक्ष्माम् अभिरक्त-कण्ठीम् वने अप्रवृत्ताम् इव नील-कण्ठीम् ॥ 25 ॥
अव्यक्त-रेखाम् इव चन्द्र-रेखाम् पांसु-प्रदिग्धाम् इव हेम-रेखाम् ।
क्षत-प्ररूढाम् इव बाण-रेखाम् वायु-प्रभिन्नाम् इव मेघ-रेखाम् ॥ 26 ॥
सीताम् अपश्यन् मनुज-ईश्वरस्य रामस्य पत्नीम् वदताम् वरस्य ।
बभूव दुःख-अभिहतः चिरस्य प्लवंगमः मन्दः इव अचिरस्य ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचमस्सर्गः ॥

No comments:
Post a Comment