Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 22 (அஜ்மீடன் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 அஜ்மீடன் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 22


श्रीशुकः - उवाच।
मित्रेयुः - च - दिवोदासात् - च्यवनः - तत् - सुतः - नृप।

सुदासः - सहदेवः - अथ - सोमकः - जन्तु - जन्म - कृत्॥ 1
तस्य - पुत्र - शतं - तेषां - यवीयान् - पृषतः - सुतः।
द्रुपदः - द्रौपदी - तस्य - धृष्टद्युम्न - आदयः - सुताः॥ 2

धृष्टद्युम्नात् - धृष्टकेतुः - भार्म्याः - पाञ्चालकाः - इमे।
यः - अजमीढ - सुतः - हि - अन्यः - ऋक्षः - संवरणः - ततः॥ 3

तपत्यां - सूर्य - कन्यायां - कुरुक्षेत्र - पतिः - कुरुः।
परीक्षित् - सुधनुः - जह्नुः - निषधाश्वः - कुरोः - सुताः॥ 4

सुहोत्रः - अभूत् - सुधनुषः - च्यवनः - अथ - ततः - कृती।
वसुः - तस्य - उपरिचरः - बृहद्रथ - मुखाः - ततः॥ 5

कुशाम्बः - मत्स्य - प्रत्यग्र - चेदिपाद्याः - च - चेदिपाः।
बृहद्रथात् - कुशाग्रः - अभूत् - ऋषभः - तस्य - तत् - सुतः॥ 6

जज्ञे - सत्यहितः - अपत्यं - पुष्पवान् - तत् - सुतः - जहुः।
अन्यस्याम् - च - अपि - भार्यायाम् - शकले - द्वे - बृहद्रथात्॥ 7

ये - मात्रा - बहिः - उत्सृष्टे - जरया - च - अभिसन्धिते।
जीव - जीव - इति - क्रीडन्त्या - जरासन्धः - अभवत् - सुतः॥ 8

ततः - च - सहदेवः - अभूत् - सोमापिः - यत् - श्रुतश्रवाः।
परीक्षित् - अनपत्यः - अभूत् - सुरथः - नाम - जाह्नवः॥ 9

ततः - विदूरथः - तस्मात् - सार्वभौमः - ततः - अभवत्।
जयसेनः - तत् - तनयः - राधिकः - अतः - अयुतः - हि - अभूत्॥ 10

ततः - च - क्रोधनः - तस्मात् - देवातिथिः - अमुष्य - च।
ऋष्यः - तस्य - दिलीपः - अभूत् - प्रतीपः - तस्य - च - आत्मजः॥ 11

देवापिः - शान्तनुः - तस्य - बाह्लीकः - इति - च - आत्मजाः।
पितृ - राज्यं - परित्यज्य - देवापिः - तु - वनं - गतः॥ 12

अभवत् - शान्तनुः - राजा - प्राङ् - महाभिष - संज्ञितः।
यं - यं - कराभ्यां - स्पृशति - जीर्णं - यौवनम् - एति - सः॥ 13

शान्तिम् - आप्नोति - च - एव - अग्र्यां - कर्मणा - तेन - शन्तनुः।
समा - द्वादश - तत् - राज्ये - न - ववर्ष - यदा - विभुः॥ 14

शन्तनुः - ब्राह्मणैः - उक्तः - परिवेत्ता - अयम् - अग्रभुक्।
राज्यं - देहि - अग्रजाय - आशु - पुर - राष्ट्र - विवृद्धये॥ 15

एवम् - उक्तः - द्विजैः - ज्येष्ठं - छन्दयामास - सः - अब्रवीत्।
तत् - मन्त्रि - प्रहितैः - विप्रैः - वेदात् - विभ्रंशितः - गिरा॥ 16

वेद - वाद - अतिवादान् - वै - तदा - देवः - ववर्ष - ह।
देवापिः - योगम् - आस्थाय - कलाप - ग्रामम् - आश्रितः॥ 17

सोम - वंशे - कलौ - नष्टे - कृत - आदौ - स्थापयिष्यति।
बाह्लीकात् - सोमदत्तः - अभूत् - भूरिः - भूरिश्रवाः - ततः॥ 18

शलः - च - शन्तनुः - आसीत् - गङ्गायां - भीष्मः - आत्मवान्।
सर्व - धर्म - विदां - श्रेष्ठः - महाभागवतः - कविः॥ 19

वीर - यूथ - अग्रणीः - येन - रामः - अपि - युधि - तोषितः।
शन्तनुः - दाश - कन्यायां - जज्ञे - चित्राङ्गदः - सुतः॥ 20


विचित्रवीर्यः - च - अवरजः - नाम्ना - चित्राङ्गदः - हतः।
यस्यां - पराशरात् - साक्षात् - अवतीर्णः - हरेः - कला॥ 21

वेदगुप्तः - मुनिः - कृष्णः - यतः - अहम् - इदम् - अध्यगाम्।
हित्वा - स्व - शिष्यान् - पैल - आदीन् - भगवान् - बादरायणः॥ 22

मह्यं - पुत्राय - शान्ताय - परं - गुह्यम् - इदम् - जगौ।
विचित्रवीर्यः - अथ - उवाह - काशीराज - सुते - बलात्॥ 23

स्वयंवरात् - उपानीते - अम्बिका - अम्बालिके - उभे।
तयोः - आसक्त - हृदयः - गृहीतः - यक्ष्मणा - मृतः॥ 24

क्षेत्रे - अप्रजस्य - वै - भ्रातुः - मात्रा - उक्तः - बादरायणः।
धृतराष्ट्रं - च - पाण्डुं - च - विदुरं - च - अपि - अजीजनत्॥ 25

गान्धार्यां - धृतराष्ट्रस्य - जज्ञे - पुत्र - शतम् - नृप।
तत्र - दुर्योधनः - ज्येष्ठः - दुःशला - च - अपि - कन्यका॥ 26

शापात् - मैथुन - रुद्धस्य - पाण्डोः - कुन्त्याम् - महारथाः।
जाता - धर्म - अनिल - इन्द्रेभ्यः - युधिष्ठिर - मुखाः - त्रयः॥ 27

नकुलः - सहदेवः - च - माद्र्यां - नासत्य - दस्योः।
द्रौपद्यां - पञ्च - पञ्चभ्यः - पुत्राः - ते - पितरः - अभवन्॥ 28

युधिष्ठिरात् - प्रतिविन्ध्यः - श्रुतसेनः - वृकोदरात्।
अर्जुनात् - श्रुतकीर्तिः - तु - शतानीकः - तु - नाकुलिः॥ 29

सहदेव - सुतः - राजन् - श्रुतकर्मा - तथा - अपरे।
युधिष्ठिरात् - तु - पौरव्यां - देवकः - अथ - घटोत्कचः॥ 30

भीमसेनात् - ढिडिम्बायां - काल्यां - सर्वगतः - ततः।
सहदेवात् - सुहोत्रं - तु - विजयाऽसूत - पार्वती॥ 31

करेणुमत्यां - नकुलः - निरमित्रं - तथा - अर्जुनः।
इरावन्तं - उलूप्यां - वै - सुतायां - बभ्रुवाहनम्।
मणिपुरपतेः - सः - अपि - तत्पुत्रः - पुत्रिकासुतः॥ 32

तव - तातः - सुभद्रायाम् - अभिमन्युः - अजात।
सर्वातिरथजित् - वीरः - उत्तरायां - ततः - भवान्॥ 33

परिक्षीणेषु - कुरुषु - द्रौणेः - ब्रह्मास्त्र - तेजसा।
त्वं - च - कृष्ण - अनुभावेन - सजीवः - मोचितः - अन्तकात्॥ 34

तव - इमे - तनयाः - तात - जनमेजय - पूर्वकाः।
श्रुतसेनः - भीमसेनः - उग्रसेनः - च - वीर्यवान्॥ 35

जनमेजयः - त्वां - विदित्वा - तक्षकात् - निधनं - गतम्।
सर्पान् - वै - सर्पयाग - अग्नौ - सः - होष्यति - रुषा - अन्वितः॥ 36

कावषेयं - पुरोधाय - तुरं - तुरगमेध - यात्।
समन्तात् - पृथिवीं - सर्वां - जित्वा - यक्ष्यति - च - अध्वरैः॥ 37

तस्य - पुत्रः - शतानीकः - याज्ञवल्क्यात् - त्रयीं - पठन्।
अस्त्रज्ञानं - क्रियाज्ञानं - शौनकात् - परमेष्यति॥ 38

सहस्रानीकः - तत्पुत्रः - ततः - च - एव - अश्वमेधजः।
असीमकृष्णः - तस्य - अपि - नेमिचक्रः - तु - तत्सुतः॥ 39

गजाह्वये - हृते - नद्या - कौशाम्ब्यां - साधु - वत्स्यति।
उक्तः - ततः - चित्ररथः - तस्मात् - कविरथः - सुतः॥ 40

तस्मात्-च वृष्टिमान्-तस्य सुषेणः-अथ महीपतिः।
सुनीथः-तस्य भविता नृचक्षुः-यत् सुखीनलः॥ 41

परिप्लवः सुतः-तस्मात्-मेधावी सुनय-आत्मजः।
नृपञ्जयः-ततः दूर्वस्तिमिः-तस्मात्-जनिष्यति॥ 42

तिमेः-बृहद्रथः-तस्मात्-शतानीकः सुदासजः।
शतानीकात्-दुर्दमनः-तस्य-अपत्यं बहीनरः॥ 43

दण्डपाणिः-निमिः-तस्य क्षेमकः भविता नृपः।
ब्रह्म-क्षत्रस्य वै प्रोक्तः वंशः देवर्षि-सत्कृतः॥ 44

क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
अथ मागध-राजानः भवितारः ये वदामि ते॥ 45

भविता सहदेवस्य मार्जारिः-यत्-श्रुतश्रवाः।
ततः-अयुतायुः-तस्य-अपि निरमित्रः-अथ तत्सुतः॥ 46

सुनक्षत्रः सुनक्षत्रात्-बृहत्सेनः-अथ कर्मजित्।
ततः सुतञ्जयात्-विप्रः शुचिः-तस्य भविष्यति॥ 47

क्षेमः-अथ सुव्रतः-तस्मात् धर्मसूत्रः शमः-ततः।
द्युमत्सेनः-अथ सुमतिः सुबलः जनितः-ततः॥ 48

सुनीथः सत्यजित्-अथ विश्वजित्-यत् रिपुञ्जयः।
बार्हद्रथाः-च भूपालाः भाव्याः साहस्र-वत्सरम्॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाविंशोऽध्यायः ॥ 22 ॥



ஸ்கந்தம் 9: அத்யாயம் 23 (யயாதியின் பிள்ளைகள்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யயாதியின் பிள்ளைகள்

ஸ்கந்தம் 9: அத்யாயம் 23

श्रीशुक उवाच।
अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः।
सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः॥ 1

जनमेजयस्तस्य पुत्रो महाशालो महामनाः।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ॥ 2

शिबिर्वनः शमिर्दक्षश्चत्वारोशीनरात्मजाः।
वृषादर्भः सुवीरश्च मद्रः कैकेय आत्मजाः॥ 3

शिबेश्चत्वार एवासंस्तितिक्षोश्च रुशद्रथः।
ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत्॥ 4

अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः॥ 5

चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते।
खनपानोऽङ्‌गतो जज्ञे तस्माद् दिविरथस्ततः॥ 6

सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः।
रोमपाद इति ख्यातस्तस्मै दशरथः सखा॥ 7

शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्‌ग उवाह याम्।
देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम्॥ 8

नाट्यसंगीतवादित्रैर्विभ्रमालिङ्गनार्हणैः।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः॥ 9

प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः॥ 10

बृहद्रथः - बृहत्कर्मा - बृहद्‍भानुः - च - तत्-सुताः।
आद्यात् - बृहन्मनाः - तस्मात् - जयद्रथः - उदाहृतः॥ 11

विजयः - तस्य - सम्भूत्याम् - ततः - धृतिः - अजायत।
ततः - धृतव्रतः - तस्य - सत्कर्मा - अधिरथः - ततः॥ 12

यः - असौ - गङ्गा-तटे - क्रीडन् - मञ्जूषा-अन्तर्गतं - शिशुम्।
कुन्त्या - अपविद्धं - कानीनम् - अनपत्यः - अकरोत् - सुतम्॥ 13

वृषसेनः - सुतः - तस्य - कर्णस्य - जगती-पते।
द्रुह्योः - च - तनयः - बभ्रुः - सेतुः - तस्य - आत्मजः - ततः॥ 14

आरब्धः - तस्य - गान्धारः - तस्य - धर्मः - ततः - धृतः।
धृतस्य - दुर्मदः - तस्मात् - प्रचेताः - प्राचेतसं - शतम्॥ 15

म्लेच्छ-अधिपतयः - अभूवन् - उदीचीं - दिशम् - आश्रिताः।
तुर्वसोः - च - सुतः - वह्निः - वह्नेः - भर्गः - अथ - भानुमान्॥ 16

त्रिभानुः - तत्-सुतः - अस्य - अपि - करन्धमः - उदार-धीः।
मरुतः - तत्-सुतः - अपुत्रः - पुत्रं - पौरवम् - अन्वभूत्॥ 17

दुष्मन्तः - सः - पुनः - भेजे - स्वं - वंशं - राज्य-कामुकः।
ययातेः - ज्येष्ठ-पुत्रस्य - यदोः - वंशं - नर-ऋषभ॥ 18

वर्णयामि - महा-पुण्यं - सर्व-पाप-हरं - नृणाम्।
यदोः - वंशं - नरः - श्रुत्वा - सर्व-पापैः - प्रमुच्यते॥ 19


यत्र - अवतीर्णः - भगवान् - परमात्मा - नर - आकृतिः।
यदोः - सहस्रजित् - क्रोष्टा - नलः - रिपुः - इति - श्रुताः॥ 20

चत्वारः - सूनवः - तत्र - शतजित् - प्रथम - आत्मजः।
महाहयः - वेणुहयः - हैहयः - च - इति - तत् - सुताः॥ 21

धर्मः - तु - हैहय - सुतः - नेत्रः - कुन्तेः - पिता - ततः।
सः - अहञ्जिः - अभवत् - कुन्तेः - महिष्मान् - भद्रसेनकः॥ 22

दुर्मदः - भद्रसेनस्य - धनकः - कृतवीर्य - सूः।
कृताग्निः - कृतवर्मा - च - कृतौजाः - धनक - आत्मजाः॥ 23

अर्जुनः - कृतवीर्यस्य - सप्त - द्वीप - ईश्वरः - अभवत्।
दत्तात्रेयात् - हरेः - अंशात् - प्राप्त - योग - महा - गुणः॥ 24

न - नूनं - कार्तवीर्यस्य - गतिं - यास्यन्ति - पार्थिवाः।
यज्ञ - दान - तपः - योग - श्रुत - वीर्य - जय - आदिभिः॥ 25

पञ्च - अशीति - सहस्राणि - हि - अव्याहत - बलः - समाः।
अनष्ट - वित्त - स्मरणः - बुभुजे - अक्षय्य - षड्वसु॥ 26

तस्य - पुत्र - सहस्रेषु - पञ्च - एव - उर्वरिताः - मृधे।
जयध्वजः - शूरसेनः - वृषभः - मधुर - ऊर्जितः॥ 27

जयध्वजात् - तालजङ्घः - तस्य - पुत्र - शतं - तु - अभूत्।
क्षत्रं - यत् - तालजङ्घ - आाख्यम् - और्व - तेज - उपसंहृतम्॥ 28

तेषां - ज्येष्ठः - वीतिहोत्रः - वृष्णिः - पुत्रः - मधोः - स्मृतः।
तस्य - पुत्र - शतं - तु - आसीत् - वृष्णि - ज्येष्ठं - यतः - कुलम्॥ 29

माधवाः - वृष्णयः - राजन् - यादवाः - च - इति - संज्ञिताः।
यदु - पुत्रस्य - च - क्रोष्टोः - पुत्रः - वृजिनवान् - ततः॥ 30

श्वाहिः - ततः - रुशेकुः - वै - तस्य - चित्ररथः - ततः।
शशबिन्दुः - महा-योगी - महा-भाजः - महान् - अभूत्॥ 31

चतुर्दश - महा-रत्नः - चक्रवर्ती - अपराजितः।
तस्य - पत्नीसहस्राणां - दशानां - सुमहा-यशाः॥ 32

दश - लक्ष - सहस्राणि - पुत्राणां - तासु - अजीजनत्।
तेषां - तु - षट् - प्रधानानां - पृथुश्रवः - आत्मजः॥ 33

धर्मः - नाम - औशना - तस्य - हय-मेध - शतस्य - याट्।
तत् - सुतः - रुचकः - तस्य - पञ्च - आसन् - आत्मजाः - श्रृणु॥ 34

पुरुजित् - रुक्मरुक्मेषुः - पृथुज्या - मघसंज्ञिताः।
ज्यामघः - तु - अप्रजः - अपि - अन्यां - भार्यां - शैब्या - पतिः - भयात्॥ 35

न - अविन्दत् - शत्रु - भवनात् - भोज्यां - कन्यां - अहार्षीत्।
रथस्थां - तां - निरीक्ष्य - आह - शैब्या - पतिम् - अमर्षिता॥ 36

का - इयम् - कुहक - मत्स्थानं - रथम् - आरोपिता - इति - वै।
स्नुषा - तव - इति - अभिहिते - स्मयन्ती - पतिम् - अब्रवीत्॥ 37

अहं - बन्ध्या - सपत्नि - च - स्नुषा - मे - युज्यते - कथम्।
जनयिष्यसि - यं - राज्ञि - तस्य - इयम् - उपयुज्यते॥ 38

अन्वमोदन्त - तत् - विश्वे - देवाः - पितरः - एव - च।
शैब्या - गर्भम् - अधात् - काले - कुमारं - सुषुवे - शुभम्।
सः - विदर्भः - इति - प्रोक्तः - उपयेमे - स्नुषां - सतीम्॥ 39

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे यदुवंशानुवर्णनं त्रयोविंशोऽध्यायः॥ 23 ॥