Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 4 (கம்சனின் அட்டூழியம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கம்சனின் அட்டூழியம்

ஸ்கந்தம் 10: அத்யாயம் 4


श्रीशुक उवाच

बहिः अन्तःपुर-द्वारः सर्वाः पूर्ववत् आवृताः।
ततः बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥१॥

ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत्।
आचख्युः भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥२॥

स तल्पात् तूर्णम् उत्थाय कालः अयम् इति विह्वलः।
सूती-गृहम् अगात् तूर्णम् प्रस्खलन् मुक्त-मूर्धजः ॥३॥

तम् आह भ्रातरं देवी कृपणा करुणं सती।
स्नुषे अयम् तव कल्याण स्त्रियम् मा हन्तुम् अर्हसि ॥४॥

बहवः हिंसिता भ्रातः शिशवः पावक-उपमाः।
त्वया दैव-निसृष्टेन पुत्रिका एका प्रदीयताम् ॥५॥

ननु अहं ते हि अवरजा दीना हत-सुता प्रभो।
दातुम् अर्हसि मन्दायाः अङ्गे इमां चरमां प्रजाम् ॥६॥

श्रीशुक उवाच

उपगुह्य आत्मजाम् एवं रुदत्या दीना अदीनवत्।
याचितः ताम् विनिर्भर्त्स्य हस्तात् आचिच्छिदे खलः ॥७॥

तां गृहीत्वा चरणयोः जात-मात्रां स्वसुः सुताम्।
अपोथयत् शिला-पृष्ठे स्वार्थ-उन्मूलित-सौहृदः ॥८॥

सा तत्-हस्तात् समुत्पत्य सद्यः देवी अम्बरं गता।
अदृश्यता अनुजा विष्णोः सायुध-अष्ट-महा-भुजा ॥९॥

दिव्य-स्रक्-अम्बर-आलेप रत्न-आभरण-भूषिता।
धनुः-शूल-इषु-चर्म-आसि शङ्ख-चक्र-गदा-धरा ॥१०॥

सिद्ध-चारण-गन्धर्वैः अप्सरः-किन्नर-उरगैः।

उपाहृत-उरु-बलिभिः स्तूयमाना इदम् अब्रवीत् ॥११॥

किं मया हतया मन्द जातः खलु तव अन्तकृत्।
यत्र क्व वा पूर्व-शत्रुः मा हिंसीः कृपणान् वृथा ॥१२॥

इति प्रभाष्य तं देवी माया भगवती भुवि।
बहु-नाम-निकेषु बहु-नामा बभूव ह ॥१३॥

तया अभिहितम् आकर्ण्य कंसः परम-विस्मितः।
देवकीं वसुदेवं च विमुच्य प्रश्रितः अब्रवीत् ॥१४॥

अहो भगिनि अहो भाम मया वां बत पाप्मना।
पुरुषाद इव अपत्यं बहवः हिंसिताः सुताः ॥१५॥

सः तु अहम् त्यक्त-कारुण्यः त्यक्त-ज्ञाति-सुहृत् खलः।
कान् लोकान् वै गमिष्यामि ब्रह्म-हा इव मृतः श्वसन् ॥१६॥

दैवम् अपि अनृतं वक्ति न मर्त्याः एव केवलम्।
यत् विश्रम्भात् अहं पापः स्वसुः निहतवान् शिशून् ॥१७॥

मा शोचतम् महा-भागौ आत्मजान् स्व-कृतं-भुजः।
जन्तवः न सदैव एकत्र दैव-अधीनाः तदा आसते ॥१८॥

भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च।
न अयम् आत्मा तथा एतेषु विपर्येति यथा एव भूः ॥१९॥

यथा एव एवं-विदः भेदः यत् आत्म-विपर्ययः।
देह-योग-वियोगौ च संसृतिः न निवर्तते ॥२०॥

तस्मात् भद्रे स्व-तनयान् मया व्यापादितान् अपि।

मा अनुशोच यतः सर्वः स्व-कृतं विन्दते अवशः ॥२१॥

यावत् हतः अस्मि हन्ता अस्मि इति आत्मानं मन्यते अस्वदृक्।
तावत् तत्-अभिमानी अज्ञः बाध्य-बाधकताम् इयात् ॥२२॥

क्षमध्वं मम दौरात्म्यं साधवः दीन-वत्सलाः।
इति उक्त्वा अश्रु-मुखः पादौ श्यालः स्वस्रोः अथ अग्रहीत् ॥२३॥

मोचयामास निगडात् विश्रब्धः कन्यका-गिरा।
देवकीं वसुदेवं च दर्शयन् आत्म-सौहृदम् ॥२४॥

भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी।
व्यसृजत् वसुदेवः च प्रहस्य तम् उवाच ह ॥२५॥

एवम् एतत् महा-भाग यथा वदसि देहिनाम्।
अज्ञान-प्रभवः अंधीः स्व-पर इति भिदा यतः ॥२६॥

शोक-हर्ष-भय-द्वेष लोभ-मोह-मद-आन्विताः।
मिथः घ्नन्तः न पश्यन्ति भावैः भावं पृथक्-दृशः ॥२७॥

श्री-शुक उवाच।
कंसः एवं प्रसन्नाभ्याम् विशुद्धं प्रतिभाषितः।
देवकी वसुदेवाभ्याम् अनुज्ञातः अविशत् गृहम् ॥२८॥

तस्यां रात्र्यां व्यतीतायां कंसः आहूय मंत्रिणः।
तेभ्यः आचष्ट तत् सर्वं यत् उक्तं योग-निद्रया ॥२९॥

आकर्ण्य भर्तुः गदितं तम् ऊचुः देव-शत्रवः।
देवान् प्रति कृत-अमर्षाः दैतेयाः न अति-कोविदाः ॥३०॥

एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रज-आदिषु।
अनिर्दशान् निर्दशान् च हनिष्यामः अद्य वै शिशून् ॥३१॥

किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः।
नित्यम् उद्विग्न-मनसः ज्याघोषैः धनुषः तव ॥३२॥

अस्यतः ते शर-व्रातैः हन्यमानाः समन्ततः।
जिजीविषवः उत्सृज्य पलायन-पराः ययुः ॥३३॥

केचित् प्राञ्जलयः दीनाः न्यस्त-शस्त्राः दिवौकसः।
मुक्त-कच्छ-शिखाः केचित् भीताः स्म इति वादिनः ॥३४॥

न त्वं विस्मृत-शस्त्र-अस्त्रान् विरथान् भय-संवृतान्।
हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥३५॥

किं क्षेम-शूरैः विबुधैः अ-संयुग-विकत्थनैः।
रहो-जुषा किं हरिणा शंभुना वा वन-उकसा।
किं इन्द्रेण अल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥३६॥

तथापि देवाः सापत्‍न्यान् न उपेक्ष्याः इति मन्महे।
ततः तत्-मूल-खनने नियुञक्ष्व अस्मान् अनुव्रतान् ॥३७॥

यथा अमयः अङ्गे समुपेक्षितः नृभिः
न शक्यते रूढ-पदः चिकित्सितुम्।
यथा इन्द्रिय-ग्रामः उपेक्षितः तथा
रिपुः महान् बद्ध-बलः न चाल्यते ॥३८॥

मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः।
तस्य च ब्रह्म-गो-विप्राः तपः यज्ञाः स-दक्षिणाः ॥३९॥

तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः।
तपस्विनः यज्ञशीलान् गाः च हन्मः हविर्दुघाः ॥४०॥

विप्राः गावः च वेदाः च तपः सत्यं दमः शमः।
श्रद्धा दया तितिक्षा च क्रतवः च हरेः तनूः ॥४१॥

सः हि सर्व-सुर-अध्यक्षः हि असुर-द्विट् गुहा-आशयः।
तत्-मूलाः देवताः सर्वाः स-ईश्वराः स-चतुर्मुखाः।
अयं वै तत्-वध-उपायः यत् ऋषीणां विहिंसनम् ॥४२॥

श्रीशुक उवाच।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः।
ब्रह्म-हिंसां हितं मेने काल-पाश-आवृतः असुरः ॥४३॥

संदिश्य साधु-लोकस्य कदने कदन-प्रियान्।
काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥४४॥

ते वै रजः-प्रकृतयः तमसा मूढ-चेतसः।
सतां विद्वेषम् आचेरुः आरात् आगत-मृत्यवः ॥४५॥

आयुः श्रियं यशः धर्मं लोकान् आशिषः एव च।
हन्ति श्रेयांसि सर्वाणि पुंसः महत्-अतिक्रमः ॥४६॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः॥ 4

ஸ்கந்தம் 10: அத்யாயம் 3 (கண்ணன் பிறந்தான்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் பிறந்தான்

ஸ்கந்தம் 10: அத்யாயம் 3


श्री-शुकः उवाच

अथ सर्व-गुण-उपेतः कालः परम-शोभनः।
यर्हि एव अजन-जन्म-र्क्षं शान्त-र्क्ष-ग्रह-तारकम् ॥१॥

दिशः प्रसेदुः गगनं निर्मल-उडुगण-उदयम्।
मही मङ्गल-भूयिष्ठ पुर-ग्राम-व्रज-अकरा ॥२॥

नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः।
द्विज-आलि-कुल-सन्नाद-स्तबका वन-राजयः ॥३॥

ववौ वायुः सुख-स्पर्शः पुण्य-गन्ध-वहः शुचिः।
अग्नयः च द्विजातीनां शान्ताः तत्र समिन्धत ॥४॥

मनांसि आसन् प्रसन्नानि साधूनां असुर-द्रुहाम्।
जायमाने अजने तस्मिन् नेदुः दुन्दुभयः दिवि ॥५॥

जगुः किन्नर-गन्धर्वाः तुष्टुवुः सिद्ध-चारणाः।
विद्याधर्यः च ननृतुः अप्सरोभिः समं तदा ॥६॥

मुमुचुः मुनयः देवाः सुमनांसि मुदान्विताः।
मन्दं मन्दं जलधरा जगर्जुः अनु-सागरम् ॥७॥

निशीथे तमः उद्‍भूते जायमाने जनार्दने।
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-आशयः।
आविरासीद् यथा प्राच्यां दिशि इन्दुः इव पुष्कलः ॥८॥

तम् अद्‍भुतं बालकम् अम्बुज-ईक्षणम्।
चतुर्भुजं शङ्ख-गदा-ऋयुद-आयुधम्।
श्रीवत्स-लक्ष्मं गल-शोभि कौस्तुभम्।
पीताम्बरं सान्द्र-पयोद-सौभगम् ॥९॥

महार्ह-वैदूर्य-किरीट-कुण्डल।
त्विषा परिष्वक्त-सहस्र-कुन्तलम्।
उद्दाम-काञ्चि-अङ्गद-कङ्कण-आदिभिः।
विरोचमानं वसुदेवः ऐक्षत ॥१०॥

सः विस्मय-उत्फुल्ल-विलोचनः हरिम्
सुतं विलोक्य अनकदुन्दुभिः तदा।
कृष्ण-अवतार-उत्सव-सम्भ्रमः अस्पृशन्।
मुदा द्विजेभ्यः अयुतम् आप्लुतः गवाम् ॥११॥

अथ एनम् अस्तौद् अवधार्य पूरुषम्
परं नत-अङ्गः कृत-धीः कृत-अञ्जलिः।
स्व-रोचिषा भारत सूतिकागृहं।
विरोचयन्तं गत-भीः प्रभाव-वित् ॥१२॥

श्री-वसुदेवः उवाच

विदितः असि भवान् साक्षात् पुरुषः प्रकृतेः परः।
केवल-अनुभव-आनन्द-स्वरूपः सर्व-बुद्धि-दृक् ॥१३॥

सः एव स्व-प्रकृत्या इदं सृष्ट्वा अग्रे त्रि-गुण-आत्मकम्।
तदनु त्वं हि अप्रविष्टः प्रविष्टः इव भाव्यसे ॥१४॥

यथा इमे अविकृताः भावाः तथा ते विकृतैः सह।
नाना-वीर्याः पृथक्-भूताः विराजं जनयन्ति हि ॥१५॥

सन्निपत्य समुत्पाद्य दृश्यन्ते अनुगताः इव।
प्राक् एव विद्यमानत्वात् न तेषाम् इह संभवः ॥१६॥

एवं भवान् बुद्धि-अनुमेय-लक्षणैः
ग्राह्यैः गुणैः सन् अपि तत्-गुण-अग्रहः।
अनावृत-त्वात् बहिः अन्तरं न ते।
सर्वस्य सर्व-आत्मन् आत्म-वस्तुनः ॥१७॥

यः आत्मनः दृश्य-गुणेषु सन् इति
व्यवस्यते स्व-व्यतिरेकतः अबुधः।
विना अनुवादं न च तत्-मनीषितं।
सम्यक् यतः त्यक्तम् उपाददत् पुमान् ॥१८॥

त्वत्तः अस्य जन्म-स्थिति-संयमान् विभो
वदन्ति अनिहात् अगुणात् विक्रियात्।
त्वयि ईश्वरे ब्रह्मणि नः विरुध्यते।
त्वद्-आश्रयत्वात् उपचर्यते गुणैः ॥१९॥

सः त्वं त्रि-लोक-स्थितये स्व-मायया
बिभर्षि शुक्लं खलु वर्णम् आत्मनः।
सर्गाय रक्तं रजसा उपबृंहितं।
कृष्णं च वर्णं तमसा जन-अत्यये ॥२०॥

त्वम् अस्य लोकस्य विभो रिरक्षिषुः
गृहे अवतीर्णः असि मम अखिल-ईश्वर।
राजन्य-संज्ञ-असुर-कोटि-यूथपैः
निर्व्यूह्यमानाः निहनिष्यसे चमूः ॥२१॥

अयं तु असभ्यः तव जन्म नः गृहे
श्रुत्वा अग्रजान् ते न्यवधीत् सुर-ईश्वर।
सः ते अवतारं पुरुषैः समर्पितं
श्रुत्वा अधुना एव अभिसरति उदायुधः ॥२२॥

श्री-शुकः उवाच

अथ एनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम्।
देवकी तम् उपाधावत् कंसात् भीता सुचि-स्मिता ॥२३॥

श्री-देवकी उवाच

रूपं यत् तत् प्राहुः अव्यक्तम् आद्यम्
ब्रह्म-ज्योतिः निर्गुणं निर्विकारम्।
सत्ता मात्रं निर्विशेषं निरीहम्
सः त्वं साक्षात् विष्णुः अध्यात्म-दीपः ॥२४॥

नष्टे लोके द्वि-परार्ध-अवसाने
महा-भूतेषु आदि-भूतं गतेषु।
व्यक्ते अव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यते शेष-संज्ञः ॥२५॥

यः अयं कालः तस्य ते अव्यक्त-बन्धो
चेष्टाम् आहुः चेष्टते येन विश्वम्।
निमेष-आदिः वत्सर-अन्तः महीयान्
तं त्वं ईशानं क्षेम-धाम प्रपद्ये ॥२६॥

मर्त्यः मृत्युः-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं न अध्यगच्छत्।
त्वत्-पाद-अब्जं प्राप्य यदृच्छया अद्य
स्वस्थः शेते मृत्युः अस्मात् अपैति ॥२७॥

सः त्वं घोरात् उग्रसेन-आत्मजान् नः
त्राहि त्रस्तान् भृत्य-वित्रास-हासि।
रूपं च इदं पौरुषं ध्यान-धिष्ण्यं
मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ॥२८॥

जन्म ते मयि असौ पापः मा विद्यात् मधु-सूदन
समुद्विजे भवत्-हेतोः कंसात् अहम् अधीर-धीः ॥२९॥

उपसंहर विश्व-आत्मन् अदः रूपम् अलौकिकम्
शङ्ख-चक्र-गदा-पद्म श्रिया जुष्टं चतुर्भुजम् ॥३०॥

विश्वं यत् एतत् स्वतनौ निशान्ते
यथा अवकाशं पुरुषः परः भवान्।
बिभर्ति सः अयम् मम गर्भगः अभूत्
नृलोकस्य विडंबनं हि तत् ॥३१॥

श्रीभगवान् उवाच

त्वम् एव पूर्व-सर्गे अभूः पृश्निः
स्वायंभुवे सति।
तदा अयं सुतपा नाम
प्रजापतिः अकल्मषः ॥३२॥

युवां वै ब्रह्मणा आदिष्टौ
प्रजा-सर्गे यदा ततः।
सन्नियम्य इन्द्रिय-ग्रामं
तेपाथे परमं तपः ॥३३॥

वर्ष-वात-तप-हिम-घर्म-
काल-गुणान् अनु।
सहमानौ श्वास-रोध-
विनिर्धूत-मनोमलौ ॥३४॥

शीर्ण-पर्ण-अनिल-आहारौ
उपशान्तेन चेतसा।
मत्तः कामान् अभीप्सन्तौ
मद्-आराधनं ईहतुः ॥३५॥

एवं वां तप्यतोः तीव्रं
तपः परम-दुष्करम्।
दिव्य-वर्ष-सहस्राणि
द्वादशेयुः मदात्मनोः ॥३६॥

तदा वां परितुष्टः अहं
अमुना वपुषा अनघे।
तपसा श्रद्धया नित्यं
भक्त्या च हृदि भावितः ॥३७॥

प्रादुरासं वर-दाराट्
युवयोः काम-दित्सया।
व्रियतां वर इति उक्ते
मादृशः वां वृतः सुतः ॥३८॥

अजुष्ट-ग्राम्य-विषयौ
अनपत्यौ च दम्पती।
न वव्राथे अपवर्गं मे
मोहितौ मम मायया ॥३९॥

गते मयि युवां लब्ध्वा
वरं मत्-सदृशं सुतम्।
ग्राम्यान् भोगान् अभुञ्जाथां
युवां प्राप्त-मनोरथौ ॥४०॥


अदृष्ट्वा अन्यतमं लोके शील-औदार्य-गुणैः समम्।

अहं सुतः वाम अभवम् पृश्नि-गर्भः इति श्रुतः ॥४१॥


तयोः वां पुनः एव अहम् अदित्याम् आस कश्यपात्।

उपेन्द्र इति विख्यातः वामनत्वात् च वामनः ॥४२॥


तृतीये अस्मिन् भवः अहम् वै तेन एव वपुषा अथ वाम्।

जातः भूयः तयोः एव सत्यं मे व्याहृतं सति ॥४३॥


एतत् वां दर्शितं रूपं प्राक्-जन्म स्मरणाय मे।

न अन्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥४४॥


युवां मां पुत्र-भावेन ब्रह्म-भावेन च असकृत्।

चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥४५॥


श्री शुक उवाच


इति उक्त्वा आसीत् हरिः तूष्णीं भगवान् आत्म-मायया।

पित्रोः संपश्यतोः सद्यः बभूव प्राकृतः शिशुः ॥४६॥


ततः च शौरिः भगवत्-प्रचोदितः।

सुतं समादाय स सूतिकागृहात्।

यदा बहिः गन्तुम् इयेष तर्हि अजा।

या योगमाया अजनि नन्द-जायया ॥४७॥


तया हृत-प्रत्यय सर्व-वृत्तिषु।

द्वाःस्थेषु पौरेषु अपि शायितेषु अथ।

द्वाराः तु सर्वाः पिहिताः दुरत्ययाः।

बृहत्-कपाट-अयस-कील-शृंखलैः ॥४८॥


ताः कृष्ण-वाहे वसुदेव आगते।

स्वयं व्यवर्यन्त यथा तमः रवेः।

ववर्ष पर्जन्यः उपांशु-गर्जितः।

शेषः अन्वगात् वारि निवारयन् फणैः ॥४९॥


मघोनि वर्षति असकृत् यम-अनुजा।

गंभीर-तोय-ओघ-जव-उर्मि-फेनिला।

भयानक-आवर्त-शत-आकुला नदी।

मार्गं ददौ सिन्धुः इव श्रियः पतेः ॥५०॥


नन्द-व्रजं शौरिः उपेत्य तत्र तान्।
गोपान् प्रसुप्तान् उपलभ्य निद्रया।
सुतं यशोदा-शयने निधाय तत्।
सुताम् उपादाय पुनः गृहान् अगात् ॥५१॥

देवक्याः शयने न्यस्य वसुदेवः अथ दारिकाम्।
प्रतिमुच्य पदोः लोहं आस्ते पूर्ववत् आवृतः ॥५२॥

यशोदा नन्द-पत्‍नी च जातं परम अबुध्यत।
न तत् लिङ्गं परिश्रान्ता निद्रया अपगत-स्मृतिः ॥५३॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोध्याऽयः ॥ 3