Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 21 (வேணு கீதம் குழலின் அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 வேணு கீதம் கண்ணன் குழலின் அழகு

ஸ்கந்தம் 10: அத்யாயம் 21

श्री शुक उवाच


इत्थं शरत् स्वच्छ-जलं पद्म-आकर-सु-गन्धिना।

न्यविशत् वायुना वातं स गो-गोपालकः अच्युतः ॥1॥


कुसुमित-वन-राजि-शुष्मि-भृङ्ग

द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम्।

मधु-पतिः अवगाह्य चारयन् गाः

सह-पशु-पाल-बलः चुकूज वेणुम्॥2॥


तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतं स्मर-उदयम्।

काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्॥3॥


तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम्।

नाशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप॥4॥


बर्ह-पीडं नट-वर-वपुः कर्णयोः कर्णिकारम्

बिभ्रत् वासः कनक-कपिशं वैजयन्तीं च मालाम्।

रन्ध्रान् वेणोः अधर-सुधया पूरयन् गोप-वृन्दैः

वृन्दारण्यं स्व-पद-रमणं प्राविशत् गीत-कीर्तिः॥5॥


इति वेणु-रवम् राजन् सर्व-भूत-मनः-हरम्।

श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे॥6॥



---


श्री-गोप्यः ऊचुः


अक्षण्वतां फलम् इदम् न परं विदामः

सख्यः पशून् अनु विवेशयतोः वयस्यैः।

वक्त्रं व्रज-ईश-सुतयोः अनवेणु-जुष्टं

यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्॥7॥


चूत-प्रवाल-बर्ह-स्तबक-उत्पल-अब्ज

माला-अनुपृक्त-परिधान-विचित्र-वेषौ।

मध्ये विरेजतुः अलं पशु-पाल-गोष्ठ्याम्

रङ्गे यथा नट-वरौ क्व च गायमानौ॥8॥


गोप्यः किम् आचरद् अयम् कुशलं स्म वेणुः

दामोदर अधर-सुधाम् अपि गोपिकानाम्।

भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रद-इन्यः

हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः॥9॥


वृन्दावनं सखि भुवः वितनोति कीर्तिम्

यत् देवकी-सुत-पद-अम्बुज-लब्ध-लक्ष्मि।

गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं

प्रेक्ष्य अद्रि-सानु-अवरतानि समस्त-सत्त्वम्॥10॥


धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः

याः नन्द-नन्दनम् उपात्त-विचित्र-वेषम्।

आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः

पूजां दधुः विरचितां प्रणय-अवलोकैः॥11॥


कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं

श्रुत्वा च तत् क्वणित-वेणुः विचित्र-गीतम्।

देव्यः विमान-गतयः स्मर-उन्न-साराः

भ्रश्यत्-प्रसून-कबरा मुमुहुः विनीव्यः॥12॥


गावः च कृष्ण-मुख-निर्गत-वेणु-गीत

पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः।

शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः

गोविन्दम् आत्मनि दृशः अश्रु-कलाः स्पृशन्त्यः॥13॥


प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन्

कृष्ण-ईक्षितं तत्-उदितं कल-वेणु-गीतम्।

आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान्

श्रृण्वन्ति अमीलित-दृशः विगत-अन्य-वाचः॥14॥


नद्यः तदा तत्-उपधार्य मुकुन्द-गीतम्

आवर्त-लक्षित-मनः-भव-भग्न-वेगाः।

आलिङ्गन-स्थगित-मूर्मि-भुजैः मुरारेः

गृह्णन्ति पाद-युगलं कमल-उपहाराः॥15॥


दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः

सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम्।

प्रेम-प्रवृद्धः उदितः कुसुम-अवलीभिः

सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्॥16॥


पूर्णाः पुलिन्द्यः उरु-गाय-पद-अब्ज-राग

श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन।

तत्-दर्शन-स्मर-रुजः तृण-रूषितेन

लिम्पन्त्यः आनन-कुचेषु जहुः तत्-आधिम्॥17॥


हन्त अयम् अद्रिः अबला हरि-दास-वर्यः

यत् राम-कृष्ण-चरण-स्पर्श-प्रमोदः।

मानं तनोति सह-गोगणयोः तयोः यत्

पानीय-सूयवस-कन्दर-कन्द-मूलैः॥18॥


गा-गोपकैः अनु वनं नयतोः उदार

वेणु-स्वनैः कल-पदैः तनु-भृत्सु सख्यः।

अस्पन्दनं गतिमतां पुलकः तरुणां

**निर्योग-पाश-कृत-लक्षणयोः विचित्रम्॥19॥


एवं-विदाः भगवतः या वृन्दावन-चारिणः।

वर्णयन्त्यः मिथः गोप्यः क्रीडायाः तन्मयतां ययुः॥20॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः ॥ 21 ॥

ஸ்கந்தம் 10: அத்யாயம் 20 (பிருந்தாவன அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பிருந்தாவன அழகு

ஸ்கந்தம் 10: அத்யாயம் 20

श्री शुक उवाच।

तयोः तद् अद्‍भुतं कर्म दावाग्नेः मोक्ष-आत्मनः।


गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधं एव च॥ 1


गोप-वृद्धाः च गोप्यः च तद् उपाकर्ण्य विस्मिताः।


मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ॥ 2


ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा।


विद्योतमान-परिधिर्विस्फूर्जित नभस्तला॥ 3


सान्द्र-नीलाम्बुदैः व्योम सविद्युत् स्तनयित्-नुभिः।


अस्पष्ट-ज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ॥ 4


अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु।


स्व-गोभिर्मोक्तुम्-आरेभे पर्जन्यः काल आगते॥ 5


तडिद्-वन्तो महा-मेघाः चण्ड श्वसन वेपिताः।


प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव॥ 6


तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही।


यथा-एव काम्यतपसस्तनुः सम्प्राप्य तत्-फलम्॥ 7


निषामुखेषु खद्योताः तमसा भान्ति न ग्रहाः।


यथा पापेन पाखण्डा न हि वेदाः कलौ युगे॥ 8


श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः।


तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये॥ 9


आसन्नित्-पथवाहिन्यः क्षुद्रनद्यः अनुशुष्यतीः।


पुंसो यथा-स्वतंत्रस्य देह-द्रविण सम्पदः॥ 10


हरिता हरिभिः शष्पैरिन्द्र-गोपैश्च लोहिता।


उच्छिली-इन्द्र-कृत-च्छाया नृणां श्री-रिव भूरभूत्॥ 11


क्षेत्राणि सस्य-सम्पद्-भिः कर्षकाणां मुदं ददुः।


धनिनां-उनुतापं च दैवाधीनमजानताम्॥ 12


जल-स्थल-औकसः सर्वे नव-वारिनिषेवया।


अबिभ्रद् रुचिरं रूपं यथा हरिनिषेवया॥ 13


सरिद्-भी सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्।


अपक्व-योगिनः चित्तं काम-आक्तं गुणयुग् यथा॥ 14


गिरयः वर्षधाराभिर्हन्यमाना न विव्यथुः।


अभिभूयमाना व्यसनैर्यथा-अधोक्षज-चेतसः॥ 15


मार्गाः बभूवुः संदीघ्धाः तृणैः छन्नाः ह्यसंस्कृताः।


नाभ्यस्यमानाः श्रुतयः द्विजैः कालहता इव॥ 16


लोक-बन्धुषु मेघेषु विद्युत-चल-सौहृदाः।


स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव॥ 17


धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्।


व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा॥ 18


न रराज ओडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः।


अहं-मत्या भासितया स्वभासा पुरुषो यथा॥ 19


मेघागम-उत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः।


गृहेषु तप्ता निर्विण्णा यथा-आच्युत-जना-आगमे॥ 20


पीत्वा आपः पादपाः पद्-भिरासन् नानात्म-मूर्तयः।

प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया॥ 21

सरस्स्व-शान्त-रोधत्सु न्यूषु-रङ्ग-आपी सारसाः।

गृहेष्व-शान्त-कृत्येषु ग्राम्याः इव दुराशयाः॥ 22

जल-उघैः निरभिद्यन्त सेतवः वर्षती-ईश्वरे।

पाषण्डिनाम् असद्वादैः वेद-मार्गाः कलौ यथा॥ 23

व्यमुञ्चन् वायुभिः नुन्ना भूतेभ्योऽथ अमृतं घनाः।

यथा-आशिषो विश्पतयः काले काले द्विजेरिताः॥ 24

एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत्।

गो-गोपालैः वृतो रन्तुं सबलः प्राविशद् हरिः॥ 25

धेनवः मन्द-गामिन्यः ऊधोभारेण भूयसा।

ययुः भगवता-आहूता द्रुतं प्रीत्या स्नुतस्तनीः॥ 26

वन-औकसः प्रमुदिता वन-राजीर्-मधु-च्युतः।

जल-धारा गिरेः नादानासन्ना ददृशे गुहाः॥ 27

क्वचिद् वन-स्पतिक्रोडे गुहायां चाभिवर्षति।

निर्विश्य भगवान् रेमे कन्द-मूल-फल-आशनः॥ 28

दध्योदनं समानीतं शिलायां सलिलान्तिके।

सम्भोजनीयैः बुभुजे गोपैः सङ्कर्षणान्वितः॥ 29

शाद्वल-उपरि संविश्य चर्वतो मीलितेक्षणान्।

तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभर-श्रमाḥ॥ 30

प्रावृट्-श्रियम् च तां वीक्ष्य सर्व-भूत-मुदावहम्।

भगवान् पूजयां चक्रे आत्म-शक्त्युपबृंहिताम्॥ 31

एवं निवसतोः तस्मिन् राम-केशव-योर-व्रजे।

शरत् समभवद् व्यभ्राः स्वच्छाम्ब्व-परुषानिला॥ 32

शरदा नीरज-उत्पत्त्या नीराणि प्रकृतिं ययुः।

भ्रष्टानाम् इव चेतांसि पुनः योग-निषेवया॥ 33

व्योम्नोऽब्भ्रं भूत-शाबल्यं भुवः पङ्कमपां मलम्।

शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथा-आशुभम्॥ 34

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः।

यथा त्यक्तैषणाः शान्ता मुनयः मुक्तकिल्बिषाः॥ 35

गिरयः मुमुचुः तोयं क्वचिन्न मुमुचुः शिवम्।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा॥ 36

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः।

यथा-आयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः॥ 37

गाधवारि-चराः तापमविन्दन् शरदर्कजम्।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः॥ 38

शनैः शनैः जहुः पङ्कं स्थलान्यामं च वीरुधः।

यथा अहं-ममतां धीराः शरीरादिष्वनात्मसु॥ 39

निश्चल-आम्बुरभूत् तूष्णीं समुद्रः शरद-आगमे।

आत्म-न्युपरते सम्यङ् मुनिर्व्युपरत-आगमः॥ 40

केदारेभ्यस्त्वपः अगृह्णन् कर्षकाः दृढसेतु-भिः।

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः॥ 41

शरद-र्कांशुजांस्तापान् भूतानाम् उदुपोऽहरत्।

देहाभिमानजं बोधो मुकुन्दो व्रज-योषिताम्॥ 42

खमशोभत निर्मेघं शरद्विमल-तारकम्।

सत्त्वयुक्तं यथा चित्तं शब्द-ब्रह्म-आर्थ-दर्शनम्॥ 43

अखण्ड-मण्डल-ओ व्योम्नि रराजोडुगणैः शशी।

यथा यदुपतिः कृष्णो वृष्णि-चक्रावृतो भुवि॥ 44

आश्लिष्य समशीतोष्णं प्रसून वनमारुतम्।

जनास्तापं जहुर्गोप्यः न कृष्ण-हृत-चेतसः॥ 45

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन्।

अन्वीयमानाः स्ववृषैः फलैः ईश-क्रिया इव॥ 46

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्-विना।

राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप॥ 47

पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः।

बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः॥ 48

वणिङ्-मुनि-नृपस्नाता निर्गम्यार्थान् प्रपेदिरे।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल-आगते॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनं नाम विंशोऽध्यायः ॥ २०