Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 23 (யக்ஞ பத்னிகள் கண்ணன் தரிசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யக்ஞ பத்னிகள்

கண்ணன் தரிசனம்

ஸ்கந்தம் 10: அத்யாயம் 23

श्रीगोपा ऊचुः -

राम राम महावीर्य कृष्ण दुष्टनिबर्हण।
एषा वै बाधते क्षुन् नः तच्छान्तिं कर्तुमर्हथः ॥१॥

श्रीशुक उवाच -

इति विज्ञापितः गोपैः भगवान् देवकीसुतः।
भक्तायाः विप्रभार्यायाः प्रसीदन् इदम् अब्रवीत् ॥२॥

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः।
सत्रम् आङ्गिरसं नाम हि आसते स्वर्गकाम्यया ॥३॥

तत्र गत्वा ओदनं गोपा याचत अस्मद् विसर्जिताः।
कीर्तयन्तः भगवत आर्यस्य मम च अभिधाम् ॥४॥

इत्यादिष्टाः भगवता गत्वा याचन्त ते तथा।
कृताञ्जलिपुटाः विप्रान् दण्डवत् पतिताः भुवि ॥५॥

हे भूमिदेवाः श्रृणुत कृष्णस्य आदेशकारिणः।
प्राप्ताञ्जानीत भद्रं वः गोपान् नो रामचोदितान् ॥६॥

गाः चारयन्तौ अविदूर ओदनं
राम आच्युतौ वः लषतः बुभुक्षितौ।
तयोः द्विजाः ओदनम् अर्थिनोः यदि
श्रद्धा च वः यच्छत धर्मवित्तमाः ॥७॥

दीक्षायाः पशुसंस्थायाः सौत्रामण्याः च सत्तमाः।
अन्यत्र दीक्षितस्य अपि न अन्नम् अश्नन् हि दुष्यति ॥८॥

इति ते भगवत् याच्ञां शृण्वन्तः अपि न शुश्रुवुः।
क्षुद्राशाः भूरिकर्माणः बालिशाः वृद्धमानिनः ॥९॥

देशः कालः पृथक् द्रव्यम् मन्त्रतन्त्र ऋत्विजः अग्नयः।
देवता यजमानः च क्रतुः धर्मः च यन्मयः ॥१०॥

तं ब्रह्म परमं साक्षात् भगवन्तम् अधोक्षजम्।
मनुष्यदृष्ट्या दुष्प्रज्ञाः मर्त्यात्मानः न मेनिरे ॥११॥

न ते यदोमिति प्रोचुः न न इति च परन्तप।
गोपाः निराशाः प्रत्येत्य तथा ऊचुः कृष्णरामयोः ॥१२॥

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः।
व्याजहार पुनः गोपान् दर्शयन् लौकिकीं गतिम् ॥१३॥

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणम् आगतम्।
दास्यन्ति कामम् अन्नं वः स्निग्धाः मयि उषिताः धिया ॥१४॥

गत्वा अथ पत्नीशालायां दृष्ट्वा आसीनाः स्वलङ्कृताः।
नत्वा द्विजसतीः गोपाः प्रश्रिताः इदम् अब्रुवन् ॥१५॥

नमो वः विप्रपत्नीभ्यः निबोधत वचांसि नः।
इतः अविदूरे चरता कृष्णेन इहेषिता वयम् ॥१६॥

गाः चारयन् स गोपालैः सरामः दूरम् आगतः।
बुभुक्षितस्य तस्य अन्नं सानुगस्य प्रदीयताम् ॥१७॥

श्रुत्वा अच्युतम् उपायातम् नित्यं तत् दर्शन उत्सुकाः।
तत् कथाक्षिप्तमनसः बभूवुः जातसम्भ्रमाः ॥१८॥

चतुर्विधं बहुगुणम् अन्नम् आदाय भाजनैः।
अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥१९॥

निषिध्यमानाः पतिभिः भ्रातृभिः बन्धुभिः सुतैः।
भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥२०॥

यमुन उपवने अशोक नव पल्लव मण्डिते
विचरन्तं वृतं गोपैः स आग्रजं ददृशुः स्त्रियः ॥ 21

श्यामं हिरण्य परिधिं वन माल्य बर्ह
धातु प्रवाल नट वेषम् अनुव्रत अंसे ।
विन्यस्त हस्तम् इतरेण धुनानम् अब्जं
कर्ण उत्पल आलक कपोल मुख अब्ज हासम् ॥ 22

प्रायः श्रुत प्रिय तम उदय कर्ण पूरैः
यस्मिन् निमग्न मनसः तम अथ अक्षि रंध्रैः ।
अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
प्राज्ञं यथा अभिमतयः विजहुः नरेन्द्र ॥ 23

ताः तथा त्यक्त सर्व आशाः प्राप्ताः आत्म दिदृक्षया ।
विज्ञाय अखिल दृक्-द्रष्टा प्राह प्रहसित आननः ॥ 24

स्वागतं वः महा भागाः आस्यतां करवाम किम् ।
यत् नः दिदृक्षया प्राप्ताः उपपन्नम् इदं हि वः ॥ 25

ननु अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ दर्शिनः ।
अहैतुक्या अव्यवहितां भक्तिम् आत्म प्रिय यथा ॥ 26

प्राण बुद्धि मनः स्व आत्म दार अपत्य धन आदयः ।
यत् सम्पर्कात् प्रियाः आसन् ततः कः नु अपरः प्रियः ॥ 27

तत् यात देव यजनं पतयः वः द्विजातयः ।
स्व सत्रं पारयिष्यन्ति युष्माभिः गृह मेधिनः ॥ 28

श्री-पत्न्यः ऊचुः

माऽइवम् विभो अर्हति भवान् गदितुं नृशंसम्
सत्यं कुरुष्व निगमं तव पाद मूलम् ।
प्राप्ताः वयं तुलसी दाम पद अवसृष्टं
केशैः निवोढुम् अतिलङ्‌घ्य समस्त बन्धून् ॥ 29

गृह्णन्ति नः न पतयः पितरौ सुता वा
न भ्रातृ बन्धु सुहृदः कुतः एव च अन्ये ।
तस्मात् भवत् प्रपदयोः पतित आत्मनाम् नः
न अन्या भवेत् गतिः अरिन्दम तत् विधेहि ॥ 30

श्री भगवान् उवाच

पतयः न अभ्यसूयेरन् पितृ भ्रातृ सुत आदयः ।
लोकाः च वः मया उपेताः देवाः अपि अनुमन्वते ॥ 31

न प्रीतये अनुरागाय हि अङ्ग सङ्गः नृणाम् इह ।
तत् मनः मयि युञ्जानाः अचिरात् माम् अवाप्स्यथ ॥ 32

श्री-शुकः उवाच

इति उक्ताः द्विज पत्न्यः ताः यज्ञ वाटं पुनः गताः ।
ते च अनसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् ॥ 33

तत्र एका विधृता भर्त्रा भगवन्तं यथा श्रुतम् ।
हृदा उपगुह्य विजहौ देहं कर्म अनुबन्धनम् ॥ 34

भगवान् अपि गोविन्दः तेन एव अन्नेन गोपकान् ।
चतुर्विधेन आशयित्वा स्वयं च बुभुजे प्रभुः ॥ 35

एवं लीला नर वपुः नृ लोकम् अनुशीलयन् ।
रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ 36

अथ अनुस्मृत्य विप्राः ते अन्वतप्यन् कृत आगसः ।
यत् विश्व ईश्वरयोः याच्ञाम् अहन् नृविडम्बयोः ॥ 37

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् ।
आत्मानं च तया हीनम् अनुतप्ताः व्यगर्हयन् ॥ 38

धिक् जन्म नः त्रिवृत् विद्यां धिक् व्रतं धिक् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखाः ये तु अधोक्षजे ॥ 39

नूनं भगवतः माया योगिनाम् अपि मोहिनी ।
यत् वयं गुरवः नृणां स्वार्थे मुह्यामहे द्विजाः ॥ 40

अहो पश्यत नारीणाम् अपि कृष्णे जगत्-गुरौ ।
दुरन्त-भावं यः अविध्यन् मृत्युपाशान् गृह-अभिधान् ॥ 41

न असाम् द्विजाति संस्कारः न निवासः गुरौ अपि ।
न तपः न आत्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ 42

अथ अपि हि उत्तमः-श्लोके कृष्णे योग-ईश्वर-ईश्वरे ।
भक्तिः दृढा न च अस्माकं संस्कार आदि मताम् अपि ॥ 43

ननु स्वार्थ विमूढानां प्रमत्तानां गृहे इहया ।
अहो नः स्मारयामास गोप-वाक्यैः सतां गतिः ॥ 44

अन्यथा पूर्ण-कामस्य कैवल्य आदि अशिषां पतेः ।
ईशितव्यैः किम् अस्माभिः ईशस्य एतत् विडम्बनम् ॥ 45

हित्वा अन्यान् भजते यं श्रीः पाद-स्पर्श आशया सकृत् ।
आत्म-दोष अपवर्गेण तत् याच्ञा जन मोहिनी ॥ 46

देशः कालः पृथक् द्रव्यं मन्त्र तन्त्र ऋत्विजः अग्नयः ।
देवता यजमानः च क्रतुः धर्मः च यत्-मयः ॥ 47

सः एषः भगवान् साक्षात् विष्णुः योग-ईश्वर-ईश्वरः ।
जातः यदुषु इति आशृण्म हि अपि मूढाः न विद्महे ॥ 48

अहो वयं धन्य तमाः येषां नः तादृशीः स्त्रियः ।
भक्त्या यासां मतिः जाता अस्माकं निश्चला हरौ ॥ 49

नमः तुभ्यं भगवते कृष्णाय अकुण्ठ-मेधसे ।
यत् माया मोहित-धियः भ्रमामः कर्म-वर्त्मसु ॥ 50

सः वै न आद्यः पुरुषः स्व-माया मोहित आत्मनाम् ।
अविज्ञात अनुभावानां क्षन्तुम् अर्हति अतिक्रमम् ॥ 51

इति स्व-अघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः ।
दिदृक्षवः अपि अच्युतयोः कंसात् भीताः न च अचलन् ॥ 52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धरणं नाम त्रयोविंशोऽध्यायः ॥ 23

ஸ்கந்தம் 10: அத்யாயம் 22 (கண்ணன் கோப சிறுமிகளின் வஸ்திரத்தை எடுத்து கொள்கிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் கோப சிறுமிகளின்

வஸ்திரத்தை எடுத்து கொள்கிறான்

ஸ்கந்தம் 10: அத்யாயம் 22

श्री शुकः उवाच

हेमन्ते प्रथमे मासि नन्द व्रज कुमारिकाः।
चेरुः हविष्यं भुञ्जानाः कात्यायनि अर्चन व्रतम् ॥१॥

आप्लुत्य अम्भसि कालिन्द्याः जल अन्ते च उदिते अरुणे।
कृत्वा प्रतिकृतिं देव्याः अनर्चुः नृप सैकतीम् ॥२॥

गन्धैः माल्यैः सुरभिभिः बलिभिः धूप दीपकैः।
उच्चावचैः च उपहारैः प्रवाल फल तण्डुलैः ॥३॥

कार्त्यायनि महामाये महा योगिनि अधीश्वरि।
नन्द गोप सुतं देवि पतिं मे कुरु ते नमः ॥
इति मन्त्रं जपन्त्यः ताः पूजां चक्रुः कुमारिकाः ॥४॥

एवं मासं व्रतं चेरुः कुमार्यः कृष्ण चेतसः।
भद्र कालीं सम अनर्चुः भूयात् नन्द सुतः पतिः ॥५॥

ऊषसि उत्थाय गोत्रैः स्वैः अन्योन्या बद्ध बाहवः।
कृष्णं उच्चैः जगुः यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥६॥

नद्याः कदा चित् आगत्य तीरे निक्षिप्य पूर्ववत्।
वासांसि कृष्णं गायन्त्यः विजह्रुः सलिले मुदा ॥७॥

भगवान् तत् अभिप्रेत्य कृष्णः योगेश्वर ईश्वरः।
वयस्यैः आवृतः तत्र गतः तत् कर्म सिद्धये ॥८॥

तासां वासांसि उपादाय नीपं आरुह्य सत्वरः।
हसद्भिः प्रहसन् बालैः परिहासं उवाच ह ॥९॥

अत्र आगत्य अबलाः कामं स्वं स्वं वासः प्रगृह्यताम्।
सत्यं ब्रवाणि नो नर्म यत् यूयम् व्रत कर्शिताः ॥१०॥

न मया उदित पूर्वं वा अनृतं तत् इमे विदुः।
एक एकशः प्रतीच्छध्वं सह एव इति सुमध्यमाः ॥११॥

तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम परिप्लुताः।
व्रीडिताः प्रेक्ष्य च अन्योन्यं जात हासाः न निर्ययुः ॥१२॥

एवं ब्रुवति गोविन्दे नर्मणा आक्षिप्त चेतसः।
आकण्ठम् अग्नाः शीत उदे वेपमानाः तम् अब्रुवन् ॥१३॥

मानयं भोः कृथाः त्वं तु नन्द गोप सुतं प्रियम्।
जानीमः अङ्ग व्रज श्लाघ्यम् देहि वासांसि वेपिताः ॥१४॥

श्याम सुन्दर ते दास्यः करवाम तव उदितम्।
देहि वासांसि धर्म ज्ञ नो चेत् राज्ञे ब्रुवाम हे ॥१५॥

श्री भगवान् उवाच

भवत्यः यदि मे दास्यः मया उक्तं वा करिष्यथ।
अत्र आगत्य स्व वासांसि प्रतीच्छन्तु शुचि स्मिताः ॥१६॥

ततः जलाशयात् सर्वाः दारिकाः शीत वेपिताः।
पाणिभ्यां योनिं आच्छाद्य प्रोत्तेरुः शीत कर्शिताः ॥१७॥

भगवान् अहताः वीक्ष्य शुद्ध भाव प्रसादितः।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥१८॥

यूयम् विवस्त्राः यत् अपः धृत व्रताः
व्यगाहत एतत् तत् उ देव हेलनम्।
बद्ध्वा अञ्जलिं मूर्ध्नि अपनुत्तये अंहसः
कृत्वा नमः अधः वसनं प्रगृह्यताम् ॥१९॥

इति अच्युतेन अभिहिता व्रज अबलाः
मत्वा विवस्त्र अप्लवनं व्रत च्युतिम्।
तत् पूर्ति कामाः तत् अशेष कर्मणाम्
साक्षात् कृतं नेमुः अवद्यम् ऋग् यतः ॥२०॥

ताः तथा अवनताः दृष्ट्वा भगवान् देवकी सुतः।
वासांसि ताभ्यः प्रायच्छत् करुणः तेन तोषितः ॥२१॥

दृढं प्रलब्धाः त्रपया च हापिताः
प्रस्तोभिताः क्रीडनवत् च कारिताः।
वस्त्राणि च एव अपहृतानि अथ अपि अमुम्
ता न अभ्यसूयन् प्रिय सङ्ग निर्वृताः ॥२२॥

परिधाय स्व वासांसि प्रेष्ठ सङ्गम सज्जिताः।
गृहीत चित्ताः न उचेलुः तस्मिन् लज्जायितेक्षणाः ॥२३॥

तासां विज्ञाय भगवान् स्व पाद स्पर्श काम्यया।
धृत व्रतानां सङ्कल्पम् आह दामोदरः अबलाः ॥२४॥

सङ्कल्पः विदितः साध्व्यः भवतीनां मम् अर्चनम्।
मया अनुमोदितः सः असौ सत्यः भवितुम् अर्हति ॥२५॥

न मयि आवेशित धियां कामः कामाय कल्पते।
भर्जिताः क्वथिताः धानाः प्रायः बीजाय न ईष्यते ॥२६॥

याताः अबलाः व्रजं सिद्धाः मया इमाः रंस्यथ क्षपाः।
यत् उद्दिश्य व्रतम् इदम् चेरुः आर्या अर्चनं सतीः ॥२७॥

श्री शुकः उवाच।

इति आदिष्टाः भगवता लब्ध कामाः कुमारिकाः।
ध्यायन्त्यः तत् पदाम्भोजं कृच्छ्रात् निर्विविशुः व्रजम् ॥२८॥

अथ गोपैः परिवृतः भगवान् देवकी सुतः।
वृन्दावनात् गतः दूरं चारयन् गाः सह अग्रजः ॥२९॥

निदाघ अर्क आतपे तिग्मे छायाभिः स्वाभिः आत्मनः।
आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रज ओकसः ॥३०॥

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबल अर्जुन।
विशाल ऋषभ तेजस्विन् देवप्रस्थ वरूथप ॥३१॥

पश्यत एतान् महा भागान् परार्थ एकान्त जीवितान्।
वात वर्ष आतप हिमान् सहन्तः वारयन्ति नः ॥३२॥

अहो एषां वरं जन्म सर्व प्राणि उपजीवनम्।
सुजनस्य इव येषां वै विमुखाः यान्ति न अर्थिनः ॥३३॥

पत्र पुष्प फल छाया मूल वल्कल दारुभिः।
गन्ध निर्यास भस्म अस्थि तोक्मैः कामान् वितन्वते ॥३४॥

एतावत् जन्म साफल्यं देहिनाम् इह देहिषु।
प्राणैः अर्थैः धिया वाचा श्रेयः एव आचरेत् सदा ॥३५॥

इति प्रवाल स्तबक फल पुष्प दल उत्करैः।
तरूणां नम्र शाखानां मध्येन यमुनां गतः ॥३६॥

तत्र गाः पाययित्वा अपः सुमृष्टाः शीतलाः शिवाः।
ततः नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥३७॥

तस्याः उपवने कामं चारयन्तः पशून् नृप।
कृष्ण रामौ उपागम्य क्षुध आर्ताः इदम् अब्रुवन् ॥३८॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहारो नाम द्वाविंशोऽध्यायः॥ 22 ॥