Followers

Search Here...

Wednesday, 2 April 2025

ஸ்கந்தம் 10: அத்யாயம் 27 (இந்திரன் ஸ்துதி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

இந்திரன் ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 27


श्री शुक उवाच - गोवर्धने धृते शैले आसारात् रक्षिते व्रजे। गोलोकात् आव्रजत् कृष्णं सुरभिः शक्रः एव च ॥ 1 विविक्तः उपसङ्गम्य व्रीडीतः कृत-हेलनः। पस्पर्श पादयोः एनं किरीटेन अर्क-वर्चसा ॥ 2 दृष्ट-श्रुत-अनुभावः अस्य कृष्णस्य अमित-तेजसः। नष्ट-त्रि-लोक-ईश-मदः इन्द्रः आह कृत-अञ्जलिः ॥ 3 इन्द्र उवाच - विशुद्ध-सत्त्वं तव धाम शान्तं तपः-मयं ध्वस्त-रजस्-तमस्कम्। माया-मयः अयं गुण-सम्प्रवाहः न विद्यते ते अग्रहण-अनुबन्धः ॥ 4 कुतः नु तत्-हेतवः ईश तत्-कृताः लोभ-आदयः ये अभुध-लिङ्ग-भावाः। तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ 5 पिता गुरुः त्वं जगताम् अधीशः दुरत्ययः कालः उपात्त-दण्डः। हिताय स्वेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगत्-ईश-मानिनाम् ॥ 6 ये मत्-विध-आज्ञाः जगत्-ईश-मानिनः त्वां वीक्ष्य काले अभयम् आशु तत्-मदम्। हित्वा आर्य-मार्गं प्रभजन्ति अपस्मयाः ईहा खलानाम् अपि ते अनुशासनम् ॥ 7 सः त्वं मम ऐश्वर्य-मद-अप्लुतस्य कृत-अगसः ते अविदुषः प्रभावम्। क्षन्तुं प्रभो अथ अर्हसि मूढ-चेतसः मैवं पुनः भूः मतिः ईश मे असती ॥ 8 तव अवतारः अयम् अधोक्षज-इह स्वयं-भराणाम् उरु-भार-जन्मनाम्। चमू-पतिनाम् अभवाय देव भवाय युष्मत् चरण-अनुवर्तिनाम् ॥ 9 नमः तुभ्यम् भगवते पुरुषाय महात्मने। वासुदेवाय कृष्णाय सात्वताम् पतये नमः ॥ 10 स्वच्छन्द-उपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये। सर्वस्मै सर्व-बीजाय सर्व-भूत-आत्मने नमः ॥ 11 मया इदम् भगवन् गोष्ठ-नाशाय आसार-वा-युभिः। चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ 12 त्वया ईश अनुगृहीतः अस्मि ध्वस्त-स्तम्भः वृथा-उद्यमः। ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ 13 श्री शुक उवाच - एवम् सङ्कीर्तितः कृष्णः मघोना भगवानम् उम्। मेघ-गम्भीरया वाचा प्रहसन् इदम् अब्रवीत् ॥ 14 श्री भगवान् उवाच - मया ते अकारि मघवन् मख-भङ्गः अनुगृह्णता। मद्-अनुस्मृतये नित्यं मतस्य इन्द्र-श्रिया भृशम् ॥ 15 माम् ऐश्वर्य-श्री-मद-अन्धः दण्ड-पाणिं न पश्यति। तं भ्रंशयामि सम्पद्भ्यः यस्मै च इच्छामि अनुग्रहम् ॥ 16 गम्यतां शक्र भद्रं वः क्रियतां मे अनुशासनम्। स्थीयतां स्व-धिकारेषु युक्तैः वः स्तम्भ-वर्जितैः ॥ 17 अथ आह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी। स्व-सन्तानैः उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ 18 सुरभिः उवाच - कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-सम्भव। भवता लोक-नाथेन सनाथाः वयम् अच्युत ॥ 19 त्वं नः परमकम् दैवम् त्वं न इन्द्रः जगत्-पते। भवाय भव गो-विप्र-देवानाम् ये च साधवः ॥ 20

इन्द्रं नः त्वा अभिषेक्ष्यामः ब्रह्मणा चोदिताः वयम्।
अवतीर्णः असि विश्व-आत्मन् भूमेः भार-अपनुत्तये॥ 21

श्री शुक उवाच -
एवं कृष्णम् उपामन्त्र्य सुरभिः पयसाः आत्मनः।
जलैः आकाश-गङ्गायाः ऐरावत-कर-उद्धृतैः॥ 22

इन्द्रः सुर-ऋषिभिः साकं चोदितः देव-मातृभिः।
अभ्यसिञ्चत दाशार्हम् गोविन्दः इति च अभ्यधात्॥ 23

तत्र आगताः तुम्बुरु-नारद-आदयः
गन्धर्व-विद्याधर-सिद्ध-चारणाः।
जगुः यशः लोक-मल-अपहं हरेः
सुर-अङ्गनाः सन्-ननृतुः मुदा-अन्विताः॥ 24

तं तुष्टुवुः देव-निकाय-केतवः
व्यवाकिरन् च अद्भुत-पुष्प-वृष्टिभिः।
लोकाः परां निर्वृतिम् आप्नुवन् त्रयः
गावः तदा गाम् अनयन् पयः-द्रुताम्॥ 25

नाना-रस-ओघाः सरितः वृक्षाः आसन् मधु-स्रवाः।
अकृष्ट-पच्य-औषधयः गिरयः अभिभ्रत् उन्मणीन्॥ 26

कृष्णे अभिषिक्ते एतानि सत्त्वानि कुरु-नन्दन।
निर्वैराणि अभवन् तात क्रूराणि अपि निसर्गतः॥ 27

इति गो-गोकुल-पतिम् गोविन्दम् अभिषिच्य सः।
अनुज्ञातः ययौ शक्रः वृतः देव-आदिभिः दिवम्॥ 28

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः ॥ 27

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 26 (ஆச்சர்யமான கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஆச்சர்யமான கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 26


श्रीशुक उवाच

एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते
अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥

बालकस्य यत्-एतानि कर्माणि अति-अद्‍भुतानि वै
कथम् अर्हति असौ जन्म ग्राम्येषु आत्म-जुगुप्सितम् ॥ २ ॥

यः सप्त-हायनः बालः करेण एकेन लीलया
कथं बिभ्रत् गिरिवरं पुष्करं गज-राट् इव ॥ ३ ॥

तोकेन अमीलित-अक्षेण पूतनायाः महा-ओजसः
पीतः स्तनः सह प्राणैः कालेन इव वयस्-तनोः ॥ ४ ॥

हिन्वतः अधः-शयानस्य मास्यस्य चरणौ उदक्
अनः अपतत् विपर्यस्तं रुदतः प्रपद-अहतम् ॥ ५ ॥

एक-हायनः आसीनः ह्रियमाणः विहायसा
दैत्येन यः तृणावर्तम् अहन् कण्ठ-ग्रह-अतुरम् ॥ ६ ॥

क्वचित् धैतङ्-गवः स्तैन्ये मात्रा बद्धः उलूखले
गच्छन् अर्जुनयोः मध्ये बाहुभ्यां तौ अपातयत् ॥ ७ ॥

वने सञ्चारयन् वत्सान् सरामः बालकैः वृतः
हन्तु-कामं बकं दोर्भ्यां मुखतः अरिम् अपाटयत् ॥ ८ ॥

वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया
हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ ९ ॥

हत्वा रासभ-दैतेयम् तत्-बन्धून् च बल-अन्वितः
चक्रे ताल-वनं क्षेमं परिपक्व-फल-अन्वितम् ॥ १० ॥

प्रलम्बं घातयित्वा उग्रं बलेन बल-शालिना
अमोचयत् व्रज-पशून् गोपान् च अरण्य-वह्नितः ॥ ११ ॥

आशीविष-तम् आहीन्द्रं दमित्वा विमदं ह्रदात्
प्रसह्य उद्वास्य यमुनां चक्रे असौ निर्विष-उदकाम् ॥ १२ ॥

दुस्त्यजः च अनुरागः अस्मिन् सर्वेषां नः व्रज-औकसाम्
नन्द ते तनये अस्मासु तस्य अपि औत्पत्तिकः कथम् ॥ १३ ॥

क्व सप्त-हायनः बालः क्व महा-अद्रि-विदारणम्
ततः नः जायते शङ्‌का व्रज-नाथ तव आत्मजे ॥ १४ ॥

श्रीनन्द उवाच

श्रूयतां मे वचः गोपाः व्येतु शङ्‌का च वः अर्भके
एनं कुमारम् उद्दिश्य गर्गः मे यद् उवाच ह ॥ १५ ॥

वर्णाः त्रयः किल अस्य आसन् गृह्णतः अनु-युगं तनूः
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः ॥ १६ ॥

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः
वासुदेवः इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः ॥ १८ ॥

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः
अनेन सर्व-दुर्गाणि यूयम् अञ्जस्-तरिष्यथ ॥ १९ ॥

पुराणेन व्रज-पते साधवः दस्यु-पीडिताः
अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः ॥ २० ॥

यः एतस्मिन् महाभागाः प्रीतिम् कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णुपक्षान् इव असुराः॥ 21

तस्मात् नन्दकुमारः अयम् नारायण-समः गुणैः।
श्रिया कीर्त्या अनुभावेन तत् कर्मसु न विस्मयः॥ 22

इति अद्धा माम् समादिश्य गर्गे च स्वगृहम् गते।
मन्ये नारायणस्य अंशम् कृष्णम् अक्लिष्ट-कारिणम्॥ 23

इति नन्द-वचः श्रुत्वा गर्ग-गीतम् व्रज-औकसः।
दृष्ट-श्रुत-अनुभावाः ते कृष्णस्य अमित-तेजसः।
मुदिताः नन्दम् आनर्चुः कृष्णम् च गत-विस्मयाः॥ 24

देवे वर्षति यज्ञ-विप्लव-रुषा वज्र-अश्म-पर्ष-अनिलैः।
सीदत् पाल-पशु-स्त्रि आत्म-शरणम् दृष्ट्वा अनुकम्प्य उत् स्मयन्।
उत्पाट्य एका-करेण शैलम् अबलः लीला-उच्छिलीन्ध्रम् यथा।
बिभ्रत् गोष्ठम् अपात् महेन्द्र-मद-अभित् प्रीयात् न इन्द्रः गवाम्॥ 25

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्‌विंशोऽध्यायः ॥ 26