Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 31 (கோபிகா கீதம். கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கோபிகா கீதம். கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 31


गोप्यः ऊचुः —
जयति ते अधिकम् जन्मना व्रजः
श्रयते इन्दिरा शश्वत् अत्र हि ।
दयित दृश्यताम् दिक्षु तावकाः
त्वयि धृत-आसवाः त्वाम् विचिन्वते ॥१॥

शरत्-उदाशये साधु-जात-सत्
सरसिज-उदर-श्रीम् उषा दृशा ।
सुरत-नाथ ते अशुल्क-दासिका
वरद निघ्नतः न इह किम् वधः ॥२॥

विष-जल-आप्ययात् व्याल-राक्षसात्
वर्ष-मारुतात् वैद्युत-अनलात् ।
वृष-मय-आत्मजात् विश्वतः भयात्
ऋषभ ते वयम् रक्षिता मुहुः ॥३॥

न खलु गोपीका-आनन्दनः भवाः
न अखिल-देहिनाम् अन्तर-आत्म-दृक् ।
विखनस-आर्थितः विश्व-गुप्तये
सखः उदेयिवान् सात्वताम् कुले ॥४॥

विरचित-अभयम् वृष्णि-धूर्य ते
चरणम् ईयुषाम् संसृतेः भयात् ।
कर-सरोरुहम् कान्त कामदम्
शिरसि धेहि नः श्री-कृत-ग्रहम् ॥५॥

व्रज-जन-आर्ति-हन् वीर योषिताम्
निज-जन-स्मय-ध्वंसन-स्मित ।
भज सखे भवत् किंकरीः स्म नः
जल-रुह-आननम् चारु दर्शय ॥६॥

प्रणत-देहिनाम् पाप-कर्त्सनम्
तृण-चर-अनुगम् श्री-निकेतनम् ।
फणि-फणा-अर्पितम् ते पद-अम्बुजम्
कृणु कुचेषु नः कृन्धि हृत्-शयम् ॥७॥

मधुरया गिरा वल्गु-वाक्यया
बुध-मनोज्ञया पुष्कर-ईक्षण ।
विधि-कर-ईरिमा वीर मुह्यतीः
रध-रस-ईधुना आप्याययस्व नः ॥८॥

तव कथा-अमृतम् तप्त-जीवनम्
कविभिः ईडितम् कल्मष-अपहम् ।
श्रवण-मङ्गलम् श्रीमत् आततम्
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥

प्रहसितम् प्रिय प्रेम-वीक्षणम्
विहरणम् च ते ध्यान-मङ्गलम् ।
रहसि संविदः याः हृत्-इस्पृशः
कुहक नः मनः क्षोभयन्ति हि ॥१०॥

चलसि यत् व्रजात् चारयन् पशून्
नलिन-सुन्दरम् नाथ ते पदम् ।
शिल-तृण-अङ्कुरैः सीदति इति नः
कलिलताम् मनः कान्त गच्छति ॥११॥

दिन-परिक्षये नील-कुन्तलैः
वन-रुह-आननम् बिभ्रत्-आवृतम् ।
घन-रजः-स्वलम् दर्शयन् मुहुः
मनसि नः स्मरम् वीर यच्छसि ॥१२॥

प्रणत-कामदम् पद्मजा-अर्चितम्
धरणि-मण्डनम् ध्येयम् आपदि ।
चरण-पङ्कजम् शान्तम् अम् च ते
रमण नः स्तनेषु अर्पय अधिहन् ॥१३॥

सुरत-वर्धनम् शोक-नाशनम्
स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग-विस्मारणम् नृणाम्
वितर वीर नः ते अधर-अमृतम् ॥१४॥

अटति यत् भवान् अह्नि काननम्
त्रुटिः युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलम् श्री-मुखम् च ते
जडः उदीक्षताम् पक्ष्म-कृत् दृशाम् ॥१५॥

पति-सुत-अन्वय-भ्रातृ-बान्धवान्
अति-विलङ्घ्य ते अन्त्य-अच्युत-आगताः ।
गति-विदः तव उद्गीत-मोहिताः
कितव योषितः कः त्यजेत् निशि ॥१६॥

रहसि संविदम् हृत्-शय-उदयं
प्रहसित-आननम् प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियः वीक्ष्य धाम ते
मुहु: अति-स्पृहा मुह्यते मनः ॥१७॥

व्रज-वन-औकसाम् व्यक्तिः अङ्ग ते
वृजिन-हन्त्री अलम् विश्व-मङ्गलम् ।
त्यज मनाक् च नः त्वत्-स्पृहा-आत्मनाम्
स्वजन-हृत्-रुजाम् यत् निषूदनम् ॥१८॥

यत् ते सुजात-चरण-अम्बुरुहम् स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेन अटवीम् अटसि तत् व्यथते न किम् स्वित्
कूर्पादिभिः भ्रमति धीः भवत्-आयुषाम् नः ॥१९॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं 
नामैकत्रिंशोऽध्यायः ॥ ३१ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 30 (கண்ணனை கோபியர்கள் தேடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனை கோபியர்கள் தேடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 30


श्री-शुकः उवाच –
अन्तर्हिते भगवति सहसा एव व्रज-अङ्गनाः।
अतप्यन् तम् अचक्षाणाः करिण्यः इव यूथपम्॥ 1

गति-अनुराग-स्मित-विभ्रम-ईक्षितैः
मनोरम-आलाप-विहार-विभ्रमैः।
आक्षिप्त-चित्ताः प्रमदाः रमा-पतेः
ताः ताः विचेष्टाः जगृहुः तत्-आत्मिकाः॥ 2

गति-स्मित-प्रेक्षण-भाषण-आदिषु
प्रियाः प्रियस्य प्रति-रूढ-मूर्तयः।
असौ अहम् इति अबलाः तत्-आत्मिकाः
न्यवेदिषुः कृष्ण-विहार-विभ्रमाः॥ 3

गायन्त्यः उच्चैः अमुम् एव संहताः
विचिक्युः उन्मत्तक-वद् वनात् वनम्।
पप्रच्छुः आकाशवत् अन्तरम् बहिः
भूतेषु सन्तम् पुरुषम् वनस्पतीन्॥ 4

दृष्टः वः कचित् अश्वत्थ-प्लक्ष-न्यग्रोधाः
नः मनः-नन्द-सूनुः गतः हृत्वा
प्रेम-हास-आवलोकनैः॥ 5

कचित् कुरबक-अशोक-नाग-पुन्नाग-चम्पकाः।
राम-अनुजः मानिनीनाम् इतः
दर्प-हर-स्मितः दृष्टः॥ 6

कचित् तुलसि कल्याणि गोविन्द-चरण-प्रिये।
सह त्वा आलि-कुलैः बिभ्रत् दृष्टः ते
अति-प्रियः अच्युतः॥ 7

मालति अदर्शि वः कचित् मल्लिके जाति-यूथिके।
प्रीतिम् वः जनयन् यातः कर-स्पर्शेन माधवः॥ 8

चूत-प्रियाल-पनस-आसनक-ओविदार-
जम्बु-अर्क-बिल्व-बकुल-आम्र-कदम्ब-नीपाः।
ये अन्ये पर-अर्थ-भवकाः यमुना-उपकूलाः
शंसन्तु कृष्ण-पदवीं रहित-आत्मनाम् नः॥ 9

किं ते कृतम् क्षिति-तपः बत केशव-अङ्घ्रि-
स्पर्श-उत्सव-उत्पुलकित-अङ्गरुहैः विभासि।
अपि अङ्घ्रि-सम्भवः उरुक्रम-विक्रमात् वा
आहो वराह-वपुषः परिरम्भणेन॥ 10

अपि एण-पत्न्याः उपगतः प्रियया इह गात्रैः
तन्वन् दृशाम् सखि सु-निर्वृतिम् अच्युतः वः।
कान्त-अङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्द-स्रजः कुल-पतेः इह वाति गन्धः॥ 11॥

बाहुं प्रियांसः उपधाय गृहीत-पद्मः
राम-अनुजः तुलसि-कालि-कुलैः मद-अन्धैः।
अन्वीयमानः इह वः तरवः प्रणामम्
किम् वा अभिनन्दति चरन् प्रणय-आवलोकैः॥ 12॥

पृच्छते इमाः लताः बाहून् अपि आश्लिष्टाः वनस्पतेः।
नूनम् तत्-करज-स्पृष्टाः बिभ्रति उत्पुलकान् अहो॥ 13॥

इति उन्मत्त-वचः गोप्यः कृष्ण-अन्वेषण-कातराः।
लीलाम् भगवतः ताः ताः हि अनुचक्रुः तत्-आत्मिकाः॥ 14॥

कस्याःचित् पूतनायन्त्याः कृष्ण-आयन्त्या अपिबत् स्तनम्।
तोकायित्वा रुदति अन्या पद-आहन् शकट-आयतीम्॥ 15॥

दैत्यायित्वा जहार अन्याम् एकः कृष्ण-अर्भ-भावनाम्।
रिङ्गयामास का अपि अङ्घ्री कर्षन्ती घोष-निःस्वनैः॥ 16॥

कृष्ण-राम-आयिते द्वे तु गोप-आयन्त्यः च काश्चन।
वत्स-आयतीम् हन्ति च अन्या तत्र एका तु बक-आयतीम्॥ 17॥

आहूय दूर-गाम् यद्वत् कृष्णः तम् अनु कुर्वतीम्।
वेणुम् क्वणन्तीम् क्रीडन्तीम् अन्याः शंसन्ति साधु इति॥ 18॥

कस्याञ्चित् स्व-भुजम् न्यस्य चलन्त्या आह अपरा ननु।
कृष्णः अहम् पश्यत गतिम् ललिताम् इति तत्-मनाः॥ 19॥

मा भैष्ट वात-वर्षाभ्याम् तत्-त्राणम् विहितम् मया।
इति उक्त्वा एकेन हस्तेन यतन्त्युः निनिदहे अम्बरम्॥ 20॥

आरुह्य एका पदा आक्रम्य शिरसि आह अपराम् नृप ।
दुष्टा अहे गच्छ जातः अहम् खलानाम् ननु दण्डकृत् ॥२१॥

तत्र एकः उवाच हे गोपाः दावाग्निम् पश्यत उलबणम् ।
चक्षूंषि आशु अपिदध्वम् वः विधास्ये क्षेमम् अञ्जसा ॥२२॥

बद्धानि अया स्रजा काचित् तन्वी तत्र उलूखले ।
भीता सुदृक् पिधाय आस्यम् भेजे भीति विडम्बनम् ॥२३॥

एवम् कृष्णम् पृच्छमानाः वृन्दावन लताः तरून् ।
व्यचक्षत वन-उद्देशे पदानि परमात्मनः ॥२४॥

पदानि व्यक्तम् एतानि नन्दसूनोः महात्मनः ।
लक्ष्यन्ते हि ध्वज-अम्भोज-वज्र-अङ्कुश-यव-आदिभिः ॥२५॥

तैः तैः पदैः तत् पदवीम् अन्विच्छन्त्यः अग्रतः अबलाः ।
वध्वः पदैः सुपृक्तानि विलोक्य आर्ताः समब्रुवन् ॥२६॥

कस्याः पदानि च एतानि यातायाः नन्दसूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणुः करिणा यथा ॥२७॥

अनया आराधितः नूनम् भगवान् हरिः ईश्वरः ।
यत् नः विहाय गोविन्दः प्रीतः याम् अनयत् रहः ॥२८॥

धन्याः अहो अमी आल्यः गोविन्द-अङ्घ्र्य-अब्ज-रेणवः ।
यान् ब्रह्म-ईशौ रमा देवी दधुः मूर्ध्नि अघनुत्तये ॥२९॥

तस्याः अमूनि नः क्षोभम् कुर्वन्ति उच्चैः पदानि यत् ।
या एका अपहृत्य गोपीनाम् रहः भुङ्क्ते अच्युत-अधरम् ॥३०॥

न लक्ष्यन्ते पदानि अत्र तस्याः नूनम् तृण-अङ्कुरैः ।
खिद्यत् सुजात-अङ्घ्रि-तलाम् उन्निन्ये प्रेयसीम् प्रियः ॥३१॥

इमानि अधिकम् अग्नानि पदानि वहतः वधूम् ।
गोप्यः पश्यत कृष्णस्य भार-आक्रान्तस्य कामिनः ॥३२॥

अत्र अवरोपिता कान्ता पुष्प-हेतोः महात्मना ।
अत्र प्रसून-अवचयः प्रिय-अर्थे प्रेयसा कृतः ।
प्रपद-आक्रमणः एते पश्यत असकले पदे ॥३३॥

केश-प्रसाधनम् तु अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥३४॥

रेमे तया च आत्म-रतः आत्मा-रामः अपि अखण्डितः ।
कामिनाम् दर्शयन् दैन्यम् स्त्रीणाम् चैव दुरात्मताम् ॥३५॥

इति एवम् दर्शयन्त्यः ताः चेरुः गोप्यः विचेतसः ।
याम् गोपीम् अनयत् कृष्णः विहाय अन्याः स्त्रियः वने ॥३६॥

सा च मेने तदा आत्मानम् वरिष्ठम् सर्व-योषिताम् ।
हित्वा गोपीः कामयानाः माम् असौ भजते प्रियः ॥३७॥

ततः गत्वा वन-उद्देशम् दृप्ता केशवम् अब्रवीत् ।
न पारये अहम् चलितुम् नय माम् यत्र ते मनः ॥३८॥

एवम् उक्तः प्रियाम् आह स्कन्धम् आरुह्यताम् इति ।
ततः च अन्तर्दधे कृष्णः सा वधूः अन्वतप्यत ॥३९॥

हा नाथ रमण प्रेष्ठ क्व असि क्व असि महा-भुज ।
दास्याः ते कृपणायाः मे सखे दर्शय सन्निधिम् ॥४०॥

अन्विच्छन्त्यः भगवतः मार्गम् गोप्यः अविदूरितः ।
ददृशुः प्रिय-विश्लेष-मोहिताम् दुःखिताम् सखीम् ॥४१॥

तया कथितम् आकर्ण्य मान-प्राप्तिम् च माधवात् ।
अवमानम् च दौःआत्म्यात् विस्मयम् परमम् ययुः ॥४२॥

ततः अविशन् वनम् चन्द्र-ज्योत्स्ना यावत् विभाव्यते ।
तमः प्रविष्टम् आलक्ष्य ततः निववृतुः स्त्रियः ॥४३॥

तत्-मनस्काः तत्-अलापाः तत्-विचेष्टाः तत्-आत्मिकाः ।
तत्-गुणान् एव गायन्त्यः न आत्म-गारा-अणि सस्मरुः ॥४४॥

पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः ।
समवेताः जगुः कृष्णम् तत्-आगमन-काङ्क्षिताः ॥४५॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां 
कृष्णान्वेषणं नाम त्रिंशोऽध्यायः ॥ 30 ॥