Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 35 (யுகள கீதம். கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள். - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யுகள கீதம். கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 35

श्री शुक उवाच
गोप्यः कृष्णे वनम् याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यः निन्युः दुःखेन वासरान् ॥ 1 ॥

श्री गोप्यः ऊचुः
वाम-बाहु-कृत-वाम-कपोलः
वल्गित-भ्रुः अधर-अर्पित-वेणुम् ।
कोमल-अङ्गुलिभिः आश्रित-मार्गम्
गोप्यः ईरयति यत्र मुकुन्दः ॥ 2 ॥

व्योम-यान-वनिताः सह सिद्धैः
विस्मिताः तत् उपधार्य सलज्जाः ।
काम-मार्गण-समर्पित-चित्ताः
कश्मलम् ययुः अपस्मृत-नीव्यः ॥ 3 ॥

हन्त चित्रम् अबलाः शृणुते इदम्
हार-हासः उरसि स्थिर-विद्युत् ।
नन्द-सूनुः अयम् आर्त-जनानाम्
नर्मदः यर्हि कूजित-वेणुः ॥ 4 ॥

वृन्दशः व्रज-वृषाः मृग-गावः
वेणु-वाद्य-हृत-चेतसः आरात् ।
दन्त-दष्ट-कवलाः धृत-कर्णाः
निद्रिताः लिखित-चित्रम् इव आसन् ॥ 5 ॥

बर्हिण-स्तबक-धातु-पलाशैः
बद्ध-मल्ल-परि-बर्ह-विडम्बः ।
कर्हिचित् सबलः आलिः सः गोपैः
गाः समाह्वयति यत्र मुकुन्दः ॥ 6 ॥

तर्हि भग्न-गतयः सरितः वै
तत्-पद-अम्बुज-रजः-अनिल-नीतम् ।
स्पृहयतीः वयम् इव अबहु-पुण्याः
प्रेम-वेपित-भुजाः स्तिमित-आपः ॥ 7 ॥

अनुचरैः समनुवर्णित-वीर्यः
आदि-पुरुषः इव अचल-भूतिः ।
वन-चरः गिरि-तटेषु चरन्तीः
वेणुना आह्वयति गाः सः यदा हि ॥ 8 ॥

वन-लताः तरवः आत्मनि विष्णुम्
व्यञ्जयन्त्यः इव पुष्प-फल-आढ्याः ।
प्रणत-भार-विटपाः मधु-धाराः
प्रेम-हृष्ट-तनवः ससृजुः स्म ॥ 9 ॥

दर्शनीय-तिलकः वन-मालः
दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।
अलि-कुलैः अलघु-गीत-अभीष्टम्
आद्रियन् यर्हि सन्धित-वेणुः ॥ 10 ॥

सरसि सारस-हंस-विहङ्गाः
चारु-गीत-हृत-चेतसः एत्य ।
हरिम् उपासते ते यत-चित्ताः
हन्त मीलित-दृशः धृत-मौनाः ॥ 11 ॥

सह-बलः स्रक्-अवतंस-विलासः
सानुषु क्षिति-भृतः व्रज-देव्यः ।
हर्षयन् यर्हि वेणु-रवेण
जात-हर्षः उपरम्भति विश्वम् ॥ 12 ॥

महत्-अतिक्रमण-शङ्कित-चेताः
मन्द-मन्दम् अनु-गर्जति मेघः ।
सुहृदम् अभ्यवर्षत् सुमनोभिः
छायया च विदधत् प्रतपत्रम् ॥ 13 ॥

विविध-गोप-चरणेषु विदग्धः
वेणु-वाद्यः उरुधा निज-शिक्षाः ।
तव सुतः सति यदा अधर-बिम्बे
दत्त-वेणुः अनयत् स्वर-जातीः ॥ 14 ॥

सवन-शः तत् उपधार्य सुर-ईशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवयः आनत-कन्धर-चित्ताः
कश्मलम् ययुः अनिश्चित-तत्त्वाः ॥ 15 ॥

निज-पद-अब्ज-दलैः ध्वज-वज्र-
नीरज-अङ्कुश-विचित्र-ललामैः ।
व्रज-भुवः शमयन् खुर-तोदम्
वर्ष्म-धुर्य-गति-रीडित-वेणुः ॥ 16 ॥

व्रजति तेन वयम् स-विलास
वीक्षण-अर्पित-मनः-भव-वेगाः ।
कुज-गतिम् गमिता न विदामः
कश्मलेन कबरम् वसनम् वा ॥ 17 ॥

मणि-धरः क्वचित् आगणयन् गाः
मालया दयित-गन्ध-तुलस्याः ।
प्रणयिनः अनुचरस्य कदा-अंसे
प्रक्षिपन् भुजम् अगायत यत्र ॥ 18 ॥

क्वणित-वेणु-रव-वञ्चित-चित्ताः
कृष्णम् अन्वसत कृष्ण-गृहिण्यः ।
गुण-गण-अर्णम् अनुगत्य हरिण्यः
गोपिकाः इव विमुक्त-गृह-आशाः ॥ 19 ॥

कुन्द-दाम-कृत-कौतुक-वेषः
गोप-गोधन-वृतः यमुनायाम् ।
नन्द-सूनुः अनघे तव वत्सः
नर्मदः प्रणयिनाम् विजहार ॥ 20 ॥

मन्द-वायुः उपवाति अनुकूलम्
मानयन् मलयज-स्पर्शेन ।
वन्दिनः तम् उप-देव-गणाः ये
वाद्य-गीत-बलिभिः परिवव्रुः ॥ 21 ॥

वत्सलः व्रज-गवाम् यद्-अगध्रः
वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गोधनम् उपोह्य दिन-अन्ते
गीत-वेणुः अनु-गेडित-कीर्तिः ॥ 22 ॥

उत्सवम् श्रमरुचा अपि दृशीनाम्
उन्नयन् खुर-रजः-छुरित-स्रक् ।
दित्सया इति सुहृदाम् आशिषः एषः
देवकी-जठर-भूः उडु-राजः ॥ 23 ॥

मद-विघूर्णित-लोचनः ईषत्-
मानदः स्व-सुहृदाम् वन-माली ।
बदर-पाण्डु-वदनः मृदु-गण्डम्
मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ 24 ॥

यदु-पतिः द्विरद-राज-विहारः
यामिनी-पतिः इव एषः दिन-अन्ते ।
मुदित-वक्त्रः उपयाति दुरन्तम्
मोचयन् व्रज-गवाम् दिन-तापम् ॥ 25 ॥

श्री-शुकः उवाच –
एवम् व्रज-स्त्रियः राजन् कृष्ण-लीलाः अनु गायतीः ।
रेमिरे अहःसु तत्-चित्ताः तत्-मनस्काः महोदयाः ॥ 26 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां 
गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

ஸ்கந்தம் 10: அத்யாயம் 34 (கண்ணன் நந்தகோபரை காப்பாற்றினான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் நந்தகோபரை காப்பாற்றினான்

ஸ்கந்தம் 10: அத்யாயம் 34

श्री-शुकः उवाच —
एकदा देव-यात्रायाम् गोपालाः जात-कौतुकाः।
अनुभिः अनडुद्-युक्तैः प्रययुः ते अम्बिका-वनम्॥१॥

तत्र स्नात्वा सरस्वत्याम् देवम् पशुपतिम् विभुम्।
आनर्चुः अर्हणैः भक्त्या देवīm च नृपते अम्बिकाम्॥२॥

गावः हिरण्यम् वासांसि मधु मदु-अन्नम् आदृताः।
ब्राह्मणेभ्यः ददुः सर्वे — 'देवः नः प्रीयताम्' इति॥३॥

ऊषुः सरस्वती-तीरे जलम् प्राश्य धृत-व्रताः।
रजनीम् ताम् महा-भागाः नन्द-सुनन्दक-आदयः॥४॥

कश्चित् महान् अहिः तस्मिन् विपिने अतिबुभुक्षितः।
यदृच्छया आगतः नन्दम् शयानम् उरगः अग्रसीत्॥५॥

सः चुक्रोश आहिना ग्रस्तः — 'कृष्ण कृष्ण महा-नयम्।
सर्पः माम् ग्रसते तात प्रपन्नम् परिमोचय'॥६॥

तस्य च आक्रन्दितम् श्रुत्वा गोपालाः सहसा उत्थिताः।
ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुः उल्मुकैः॥७॥

अलातैः दह्यमानः अपि न अमुञ्चत् तम् उरङ्गमः।
तम् अस्पृशत् पदाभ्यः एत्य भगवान् सात्वताम् पतिः॥८॥

सः वै भगवतः श्रीमत् पाद-स्पर्श-हत- अशुभः।
भेजे सर्प-वपुः हित्वा रूपम् विद्याधर-अर्चितम्॥९॥

तम् अपृच्छत् हृषीकेशः प्रणतम् समवस्थितम्।
दीप्यमानेन वपुषा पुरुषम् हेम-मालिनम्॥१०॥

को भवान् परया लक्ष्म्या रोचते अद्भुत-दर्शनः।
कथम् जुगुप्सिताम् एताम् गतिम् वा प्रापितः अवशः॥११॥

सर्पः उवाच —
अहम् विद्याधरः कश्चित् सुदर्शनः इति श्रुतः।
श्रिया स्वरूप-सम्पत्त्या विमानेन अचरम् दिशः॥१२॥

ऋषीन् विरूप-आङ्गिरसः प्राहसम् रूप-दर्पितः।
तैः इमाम् प्रापितः योनिम् प्रलब्धैः स्वेन पाप्मना॥१३॥

शापः मे अनुग्रहाय एव कृतः तैः करुणा-आत्मभिः।
यत् अहम् लोक-गुरुणा पदा स्पृष्टः हत-अशुभः॥१४॥

तम् त्वा अहम् भव-भीतानाम् प्रपन्नानाम् भय-अपहम्।
आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शात् अमीव-हन्॥१५॥

प्रपन्नः अस्मि महा-योगिन् महा-पुरुष सत्-पते।
अनुजानीहि माम् देव सर्व-लोक-ईश्वरेश्वर॥१६॥

ब्रह्म-दण्डात् विमुक्तः अहम् सद्यः ते अच्युत-दर्शनात्।
यत् नाम गृह्णन् अखिलान् श्रोतॄन् आत्मानम् एव च।
सद्यः पुनाति किम् भूयः तस्य स्पृष्टः पदा हि ते॥१७॥

इति अनुज्ञाप्य दाशार्हम् परिक्रम्य अभिवन्द्य च।
सुदर्शनः दिवम् यातः कृच्छ्रात् नन्दः च मोचितः॥१८॥

निशाम्य कृष्णस्य तत् आत्म-वैभवम्।
व्रज-औकसः विस्मित-चेतसः ततः॥
समाप्य तस्मिन् नियमम् पुनः व्रजम्।
नृप आययुः तत् कथयन्तः आदृताः॥१९॥

कदाचित् अथ गोविन्दः रामः च अद्भुत-विक्रमः।
विजह्रतुः वने रात्र्याम् मध्यगौ व्रज-योषिताम्॥२०॥

उपगीयमानौ ललितम् स्त्री-जनैः बद्ध-सौहृदैः।
स्व-अलङ्कृत-अनुलिप्त-अङ्गौ स्रग्विणौ विरजः अम्बरौ॥२१॥

निशा-मुखम् मानयन्तौ उदित-उडुप-तारकम्।
मल्लिका-गन्ध-मत्त-आलि जुष्टम् कुमुद-वायुना॥२२॥

जगतुः सर्व-भूतानाम् मनः-श्रवण-मङ्गलम्।
तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम्॥२३॥

गोप्यः तत् गीतम् आकर्ण्य मूर्च्छिताः न अविदन् नृप।
स्रंसत् दुकूलम् आत्मानम् स्रस्त-केश-स्रजम् ततः॥२४॥

एवम् विक्रीडतोः स्वैरम् गायतोः सम्प्रमत्तवत्।
शङ्खचूडः इति ख्यातः धनद-अनुचरः अभ्यगात्॥२५॥

तयोः निरीक्षतोः राजन् तत्-नाथम् प्रमदाजनम्।
क्रोशन्तम् कालयामास दिशि उदीच्याम् अशङ्कितः॥२६॥

क्रोशन्तम् कृष्ण-रामेति विलोक्य स्व-परिग्रहम्।
यथा गाः दस्युना ग्रस्ताः भ्रातरौ अन्वधावताम्॥२७॥

मा भैष्ट इति अभय-आरावौ शाल-हस्तौ तरस्विनौ।
आसेदतुः तम् तरसा त्वरितम् गुह्यक-अधमम्॥२८॥

स वीक्ष्य तौ अनुप्राप्तौ काल-मृत्यू इव उद्विजन्।
विसृज्य स्त्री-जनम् मूढः प्राद्रवत् जीवित-इच्छया॥२९॥

तम् अन्वधावत् गोविन्दः यत्र यत्र सः धावति।
जिहीर्षुः तत् शिरः-रत्नम् तस्थौ रक्षन् स्त्रियः बलः॥३०॥

अ-विदूर इव अभ्येत्य शिरः तस्य दुरात्मनः।
जहार मुष्टिना एव अङ्ग सह-चूड-मणिम् विभुः॥३१॥

शङ्खचूडम् निहत्य एवम् मणिम् आदाय भास्वरम्।
अग्रजाय आददात् प्रीत्या पश्यन्तीनाम् च योषिताम्॥३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम 
चतुस्त्रिंशोऽध्यायः ॥ ३४