Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 37 (கேசீ மற்றும் வ்யோமனின் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கேசீ மற்றும் வ்யோமனின் வதம்

ஸ்கந்தம் 10: அத்யாயம் 37

श्री शुक उवाच
केशी तु कंस-प्रहितः खुरैः महीम्
महाहयः निर्जरयन् मनः-जवः ।
सटा-अवधूत-अभ्र-विमान-सङ्कुलम्
कुर्वन् नभः हेषित-भीषित-अखिलः ॥ 1 ॥


विशाल-नेत्रः विकट-आस्य-कोटरः
बृहद्-गलः नील-महाम्बुद-उपमः ।
दुराशयः कंस-हितम् चिकीर्षुः
व्रजम् स नन्दस्य जगाम कम्पयन् ॥ 2 ॥

तम् त्रासयन्तम् भगवान् स्व-गोकुलम्
तत्-हेषितैः वाल-विघूर्णित-अम्बुदम् ।
आत्मानम् आजौ मृगयन्तम् अग्रणीः
उपाह्वयत् सः व्यनदत् मृगेन्द्रवत् ॥ 3 ॥

सः तम् निशाम्य अभिमुखः मखेन खम्
पिबन् इव अभ्यद्रवत् अत्य-अमर्षणः ।
जघान पद्‍भ्याम् अरविन्द-लोचनम्
दुरासदः चण्ड-जवः दुरत्ययः ॥ 4 ॥

तत् वञ्चयित्वा तम् अधोक्षजः रुषा
प्रगृह्य दोर्भ्याम् परिविध्य पादयोः ।
सावज्ञम् उत्सृज्य धनुः-शत-अन्तरे
यथा उरगम् तार्क्ष्य-सुतः व्यवस्थितः ॥ 5 ॥

सः लब्ध-संज्ञः पुनः उत्थितः रुषा
व्यादाय केशी तरसा आपतत् हरिम् ।
सः अपि अस्य वक्त्रे भुजम् उत्तरम् स्मयन्
प्रवेशयामास यथा उरगम् बिले ॥ 6 ॥

दन्ताः निपेतुः भगवत्-भुज-स्पृशः
ते केशिनः तप्त-मयः-स्पृशः यथा ।
बाहुः च तत्-देहगतः महा-आत्मनः
यथा आमयः संववृधे उपेक्षितः ॥ 7 ॥

समेधमानेन सः कृष्ण-बाहुना
निरुद्ध-वायुः चरणान् च विक्षिपन् ।
प्रस्विन्न-गात्रः परिवृत्त-लोचनः
पपात लेण्डम् विसृजन् क्षितौ व्यसुः ॥ 8 ॥

तत्-देहतः कर्कटिका-फल-उपमात्
व्यसुः अपाकृष्य भुजम् महा-भुजः ।
अविस्मितः अयत्न-हत-अरिः उत्स्मयैः
प्रसून-वर्षैः दिविषद्‍भिः ईडितः ॥ 9 ॥

देव-ऋषिः उपसङ्गम्य भागवत-प्रवरः नृप
कृष्णम् अक्लिष्ट-कर्माणम् रहस्य एतत् अभाषत ॥ 10 ॥

कृष्ण कृष्ण-अप्रमेय-आत्मन् योगेश जगत्-ईश्वर ।
वासुदेव-अखिल-आवास सात्वताम् प्रवर प्रभो ॥ 11 ॥

त्वम् आत्मा सर्व-भूतानाम् एकः ज्योतिः इव ऐधसाम् ।
गूढः गुहा-आशयः साक्षी महा-पुरुषः ईश्वरः ॥ 12 ॥

आत्मना आत्म-आश्रयः पूर्वम् मायया ससृजे गुणान् ।
तैः इदम् सत्य-सङ्कल्पः सृजसि अच्युत अवसी ईश्वरः ॥ 13 ॥

सः त्वम् भूधर-भूतानाम् दैत्य-प्रमथ-रक्षसाम् ।
अवतीर्णः विनाशाय सेतूनाम् रक्षणाय च ॥ 14 ॥

दिष्ट्या ते निहतः दैत्यः लीलया अयम् हय-आकृतिः ।
यस्य हेषित-सन्त्रस्ताः त्यजन्ति अनिमिषाः दिवम् ॥ 15 ॥

चाणूरम् मुष्टिकम् च एव मल्लान् अन्यान् च हस्तिनम् ।
कंसम् च निहतम् द्रक्ष्ये परश्वः अहनि ते विभो ॥ 16 ॥

तस्य अनु शङ्ख-यवन-मुराणाम् नरकस्य च ।
पारिजात-अपहरणम् इन्द्रस्य च पराजयम् ॥ 17 ॥

उद्वाहम् वीर-कन्यानाम् वीर्य-शुल्क-आदि-लक्षणम् ।
नृगस्य मोक्षणम् पापात् द्वारकायाम् जगत्-पते ॥ 18 ॥

स्यमन्तकस्य च मणेः आदानम् सह भार्यया ।
मृत-पुत्र-प्रदानम् च ब्राह्मणस्य स्व-धामतः ॥ 19 ॥

पौण्ड्रकस्य वधम् पश्चात् काशि-पुर्याः च दीपनम् ।
दन्तवक्रस्य निधनम् चैद्यस्य च महा-क्रतौ ॥ 20 ॥

यानि च अन्यानि वीर्याणि द्वारका-आवासन् भवान् ।
कर्ता द्रक्ष्यामि अहं तानि गेयानि कविभिः भुवि ॥ 21 ॥

अथ ते काल-रूपस्य क्षपयिष्णोः अमुष्य वै ।
अक्षौहिणीनाम् निधनम् द्रक्ष्यामि अर्जुन-सारथेः ॥ 22 ॥

विशुद्ध-विज्ञान-घनम् स्व-संस्थया
समाप्त-सर्व-अर्थम् अमोघ-वाञ्छितम् ।
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहम् भगवन्तम् ईमहि ॥ 23 ॥

त्वाम् ईश्वरम् स्व-आश्रयम् आत्म-मायया
विनिर्मित-अशेष-विशेष-कल्पनम् ।
क्रीडा-अर्थम् अद्य-आत्त-मनुष्य-विग्रहम्
नतः अस्मि धुर्यम् यदु-वृष्णि-सात्वताम् ॥ 24 ॥

श्री-शुकः उवाच —
एवम् यदु-पतिम् कृष्णम् भागवत-प्रवरः मुनिः ।
प्रणिपत्य अभ्यनुज्ञातः ययौ तत्-दर्शन-उत्सवः ॥ 25 ॥

भगवान् अपि गोविन्दः हत्वा केशिनम् आहवे ।
पशून् पालयत् पालैः प्रीतैः व्रज-सुख-आवहः ॥ 26 ॥

एकदा ते पशून् पालाः चारयन्तः अद्रि-सानुषु ।
चक्रुः निलायन-क्रीडाम् चोर-पाल-आपदेशतः ॥ 27 ॥

तत्र आसन् कतिचित् चोराः पालाः च कतिकिन् नृप ।
मेषायिताः च तत्र ऐके विजह्रुः अकुतः-भयाः ॥ 28 ॥

मय-पुत्रः महा-मायः व्योमः गोपाल-वेष-धृक् ।
मेषायितान् अपोवाह प्रायः चोरायितः बहून् ॥ 29 ॥
 
गिरि-दर्याम् विनिक्षिप्य नीतम् नीतम् महा-असुरः ।
शिलया पिदधे द्वारम् चतुः-पञ्च अवशेषिताः ॥ 30 ॥

तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् ।
गोपान् नयन्तम् जग्राह वृकं हरिः इव औजसा ॥ 31 ॥

स निजम् रूपम् आस्थाय गिरि-इन्द्र-सदृशं बली ।
इच्छन् विमोक्तुम् आत्मानम् न अशक्नोत् ग्रहण-अतुरः ॥ 32 ॥

तम् निगृह्य अच्युतः दोर्भ्यां पातयित्वा मही-तले ।
पश्यताम् दिवि देवानाम् पशु-मारम् अमारयत् ॥ 33 ॥

गुहा-अपिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।
स्तूयमानः सुरैः गोपैः प्रविवेश स्व-गोकुलम् ॥ 34 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम 
सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 36 (அரிஷ்டன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அரிஷ்டன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 36

श्री-शुकः उवाच –
अथ तर्हि आगतः गोष्ठम् अरिष्टः वृषभ-असुरः ।
महीं महाककुत्-कायः कम्पयन् खुर-विक्षताम् ॥ 1 ॥

रम्भमाणः खरतरम् पदा च विलिखन् महीम् ।
उद्यम्य पुच्छम् वप्राणि विषाण-अग्रेण च उद्धरन् ॥ 2 ॥

किञ्चित् किञ्चित् शकृत् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ।
यस्य निर्ह्रादितेन अङ्ग निष्ठुरेण गवाम् नृणाम् ॥ 3 ॥

पतन्ति अकालतः गर्भाः स्रवन्ति स्म भयेन वै ।
निर्विशन्ति घनाः यस्य ककुदि अचल-शङ्कया ॥ 4 ॥

तम् तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यः गोपाः च तत्रसुः ।
पशवः दुद्रुवुः भीता: राजन् सन्त्यज्य गोकुलम् ॥ 5 ॥

कृष्ण कृष्ण इति ते सर्वे गोविन्दम् शरणम् ययुः ।
भगवान् अपि तत् वीक्ष्य गोकुलम् भय-विद्रुतम् ॥ 6 ॥

मा भैष्ट इति गिरा आश्वास्य वृष-असुरम् उपाह्वयत् ।
गोपालैः पशुभिः मन्द त्रासितैः किम् असत्तम ॥ 7 ॥

बल-दर्प-हा अहम् दुष्टानाम् त्वद्-विदानाम् दुरात्मनाम् ।
इति आस्फोट्य अच्युतः अरिष्टम् तल-शब्देन कोपयन् ॥ 8 ॥

सख्युः अंसे भुज-अभोगम् प्रसार्य आवस्थितः हरिः ।
सः अपि एवम् कोपितः अरिष्टः खुरेण अवनिम् उल्लिखन् ।
उद्यत-पुच्छ-भ्रमत्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ 9 ॥

अग्र-न्यस्त-विषाण-अग्रः स्तब्ध-असृक्-लोचनः अच्युतम् ।
कटाक्षिप्य आद्रवत् तूर्णम् इन्द्र-मुक्तः अशनिः यथा ॥ 10 ॥

गृहीत्वा शृङ्गयोः तम् वा अष्टादश पदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रतिगजम् यथा ॥11॥

सः अपविद्धः भगवता पुनः उत्थाय सत्वरः ।
आपतत् स्विन्न-सर्व-अङ्गः निःश्वसन् क्रोध-मूर्च्छितः ॥12॥

तम् आपतन्तम् सः निगृह्य शृङ्गयोः ।
पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथा आर्द्रम् अम्बरम् ।
कृत्वा विषाणेन जघान सः अपतत् ॥13॥

असृक् वमन् मूत्र-शकृत् समुत्सृजन् ।
क्षिपन् च पादान् अनवस्थित-ईक्षणः ।
जगाम कृच्छ्रम् नि:ऋतेः अर्थ क्षयम् ।
पुष्पैः किरन्तः हरिम् ईडिरे सुराः ॥14॥

एवम् कुकुद्मिनम् हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठम् सबलः गोपीनाम् नयन-उत्सवः ॥15॥

अरिष्टे निहते दैत्ये कृष्णेन अद्भुत-कर्मणा ।
कंसाय अथ आह भगवान् नारदः देव-दर्शनः ॥16॥

यशोदायाः सुताम् कन्याम् देवक्याः कृष्णम् एव च ।
रामम् च रोहिणी-पुत्रम् वसुदेवेन बिभ्यता ॥17॥

न्यस्तौ स्व-मित्रे नन्दे वै याभ्याम् ते पुरुषाः हताः ।
निशम्य तत् भोज-पतिः कोपात् प्रचलित-इन्द्रियः ॥18॥

निशातमसिम् आदत्त वसुदेव-जिघांसया ।
निवारितः नारदेन तत्-सुतौ मृत्युम् आत्मनः ॥19॥

ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया ।
प्रतियाते तु देवर्षौ कंसः आभाष्य केशिनम् ॥20॥

प्रेषयामास हन्येताम् भवता राम-केशवौ ।
ततः मुष्टिक-चाणूर-शल-तोशलक-आदिकान् ॥21॥

अमात्यान् हस्तिपान् च एव समाहूय आह भोज-राट् ।
भो भो निशम्यताम् एतत् वीर-चाणूर-मुष्टिकौ ॥22॥

नन्द-व्रजे किल आसाते सुतौ अनक-दुन्दुभेः ।
राम-कृष्णौ ततः मह्यम् मृत्युः किल निदर्शितः ॥23॥

भवद्‌भ्याम् इह सम्प्राप्तौ हन्येताम् मल्ल-लीलया ।
मञ्चाः क्रियन्ताम् विविधाः मल्ल-रङ्ग-परिश्रिताः ।
पौराः जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥24॥

महामात्र त्वया भद्र रङ्ग-द्वारि उपनियताम् ।
द्विपः कुवलयापीडः जहि तेन मम-आहितौ ॥25॥

आरभ्यताम् धनुः-यागः चतुर्दश्याम् यथा-विधि ।
विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे ॥26॥

इति आज्ञाप्य अर्थ-तन्त्र-ज्ञः आहूय यदु-पुङ्गवम् ।
गृहीत्वा पाणिना पाणिम् ततः अक्रूरम् उवाच ह ॥27॥

भो भो दानपते मह्यम् क्रियताम् मैत्रम् आदृतः ।
न अन्यः त्वत्तः हिततमः विद्यते भोज-वृष्णिषु ॥28॥

अतः त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् ।
यथा इन्द्रः विष्णुम् आश्रित्य स्व-अर्थम् अध्यगमत् विभुः ॥29॥

गच्छ नन्द-व्रजम् तत्र सुतौ अनक-दुन्दुभेः ।
आसाते तौ इह आनेन रथेन आनय मा चिरम् ॥30॥

निसृष्टः किल मे मृत्युः दैवैः वैकुण्ठ-संश्रयैः ।
तौ आनय समम् गोपैः नन्द-आद्यैः स-आभ्युपायनैः ॥३१॥

घातयिष्ये इह आनीतौ काल-कल्पेन हस्तिना ।
यदि मुक्तौ ततः मल्लैः घातये वैद्युत-उपमैः ॥३२॥

तयोः निहतयोः तप्तान् वसुदेव-पुरोगमान् ।
तत्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥३३॥

उग्रसेनम् च पितरम् स्थविरम् राज्य-कामुकम् ।
तत्-भ्रातरम् देवकम् च ये च अन्ये विद्विषः मम ॥३४॥

ततः च एषा मही मित्र भवित्री नष्ट-कण्टका ।
जरासन्धः मम गुरुः द्विविदः दयितः सखा ॥३५॥

शम्बरः नरकः बाणः मयि एव कृत-सौहृदाः ।
तैः अहम् सुर-पक्षीयान् हत्वा भोक्ष्ये महीम् नृपान् ॥३६॥

एतत् ज्ञात्वा आनय क्षिप्रं राम-कृष्णौ इह अर्भकौ ।
धनुः-मख-निरीक्ष-अर्थम् द्रष्टुम् यदु-पुर-श्रियम् ॥३७॥

श्रीअक्रूर उवाच
राजन् मनीषितम् सध्र्यक् तव स्व-अवद्य-मार्जनम् ।
सिद्धि-असिद्ध्योः समम् कुर्यात् दैवम् हि फल-साधनम् ॥३८॥

मनोरथान् करोति उच्चैः जनः दैव-हतान् अपि ।
युज्यते हर्ष-शोक-आभ्याम् तथापि आज्ञाम् करोमि ते ॥३९॥

श्रीशुक उवाच
एवम् आदिश्य च अक्रूरम् मन्त्रिणः च विषृज्य सः ।
प्रविवेश गृहम् कंसः तथा अक्रूरः स्वम् आलयम् ॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम 
षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥