Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 39 (அக்ரூரரின் எண்ணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரரின் எண்ணம்

ஸ்கந்தம் 10: அத்யாயம் 39

श्री शुक उवाच –
सुख-उपविष्टः पर्यङ्के राम-कृष्ण-उरु-मानितः
लेभे मनोरथान् सर्वान् यथि यान् सः चकार ॥ १ ॥

किम् अलभ्यम् भगवति प्रसन्ने श्री-निकेतने
तथापि तत्-पराः राजन् हि वाञ्छन्ति किञ्चन ॥ २ ॥

सायम्-तन-आशनम् कृत्वा भगवान् देवकी-सुतः
सुहृत्सु वृत्तम् कंसस्य पप्रच्छ अन्यत् चिकीर्षितम् ॥ ३ ॥

श्रीभगवान् उवाच –
तात सौम्य आगतः कच्चित् स्वागतम् भद्रम् अस्तु वः
अपि स्व ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥ ४ ॥

किम् नु नः कुशलम् पृच्छे एधमाने कुल-आमये
कंसे मातुल-नाम्नि अङ्ग स्वानाम् नः तत्-प्रजासु ॥ ५ ॥

अहो अस्मत् अभूत् भूरि पित्रोः वृजिनम् आर्ययोः
यत्-हेतोः पुत्र-मरणम् यत्-हेतोः बन्धनम् तयोः ॥ ६ ॥

दिष्ट्या अद्य दर्शनम् स्वानाम् मह्यम् वः सौम्य काङ्क्षितम्
सञ्जातम् वर्ण्यताम् तात तव आगमन-कारणम् ॥ ७ ॥

श्री शुक उवाच –
पृष्टः भगवता सर्वम् वर्णयामास माधवः
वैर-अनुबन्धम् यदुषु वसुदेव-वध-उद्यमम् ॥ ८ ॥

यत्-सन्देशः यत्-अर्थम् वा दूतः सम्प्रेषितः स्वयम्
यत्-उक्तम् नारदेन अस्य स्व-जन्म अनक-दुन्दुभेः ॥ ९ ॥

श्रुत्वा अक्रूर-वचः कृष्णः बलः पर-वीर-हा
प्रहस्य नन्दम् पितरम् राज्ञा आदिष्टम् विजज्ञतुः ॥ १० ॥


गोपान् समादिशत् सः अपि गृह्यताम् सर्व-गोरसः
उपायनानि गृह्णीध्वम् युज्यन्ताम् शकटानि ॥ ११ ॥

यास्यामः श्वः मधु-पुरीम् दास्यामः नृपतेः रसान्
द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदाः किल
एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले ॥ १२ ॥

गोप्यः ताः तत्-उपश्रुत्य बभूवुः व्यथिताः भृशम्
राम-कृष्णौ पुरीम् नेतुम् अक्रूरम् व्रजम् आगतम् ॥ १३ ॥

काश्चित् तत्-कृत-हृत्तापाः श्वास-अम्लान-मुख-श्रियः
स्रंसत्-दुर्द्दुकूल-वलय-केश-ग्रंथ्यः काश्चन ॥ १४ ॥

अन्याः तत्-अनुध्यान-निवृत्त-अशेष-वृत्तयः
अभ्यजानन् इमम् लोकम् आत्म-लोकम् गताः इव ॥ १५ ॥

स्मरन्त्यः अपराः शौरेः अनुराग-स्मित-इरिताः
हृदि-स्पृशः चित्र-पदाः गिरः संमुमुहुः स्त्रियः ॥ १६ ॥

गतिम् सुललिताम् चेष्टाम् स्निग्ध-हास-अवलोकनम्
शोक-अपहानि नर्माणि प्रोद्दाम-चरितानि ॥ १७ ॥

चिन्तयन्त्यः मुकुन्दस्य भीताः विरह-कातराः
समेताः सङ्घशः प्रोचुः अश्रु-मुख्यः अच्युत-आशयाः ॥ १८ ॥

श्री-गोप्यः ऊचुः
अहो विधातः तव क्वचित् दया
संयोज्य मैत्र्या प्रणयेन देहिनः
तान् अकृत-अर्थान् वियुनक्षि अ-पार्थकम्
विक्रीडितम् ते अर्भक-चेष्टितम् यथा ॥ १९ ॥

यः त्वम् प्रदर्श्य आसित-कुन्तल-आवृतम्
मुकुन्द-वक्त्रम् सुकपोलम् उन्नसम्
शोक-अपनोद-स्मित-लेश-सुन्दरम्
करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ २० ॥


क्रूरः त्वम् अक्रूर-समाख्यया स्म नः
चक्षुः हि दत्तम् हरसे बतः अज्ञवत्
येन एक-देशे अखिल-सर्ग-सौष्ठवम्
त्वदीयम् अद्राक्ष्म वयम् मधु-द्विषः ॥२१॥

नन्द-सूनुः क्षण-भङ्ग-सौहृदः
समीक्षते नः स्व-कृत-आतुराः बतः
विहाय गेहान् स्व-जनान् सुतान् पतीन्
तत्-दास्यम् अद्धा उपगताः नव-प्रियः ॥२२॥

सुखम् प्रभाता रजनी आशिषः
सत्याः बभूवुः पुर-योषिताम् ध्रुवम्
याः संप्रविष्टस्य मुखम् व्रज-स्वपतेः
पास्यन्ति अपाङ्ग-उत्कलित-स्मित-आसवम् ॥२३॥

तासाम् मुकुन्दः मधु-मञ्जु-भाषितैः
गृहीत-चित्तः परवान् मनस्व्य्-अपि
कथम् पुनः नः प्रतियास्यते अबलाः
ग्राम्याः स-लज्ज-स्मित-विभ्रमैः भ्रमन् ॥२४॥

अद्य ध्रुवम् तत्र दृशः भविष्यते
दाशार्ह-भोज-अन्धक-वृष्णि-सात्वताम्
महा-उत्सवः श्री-रमणम् गुण-आस्पदम्
द्रक्ष्यन्ति ये अध्वनि देवकी-सुतम् ॥२५॥

मैतद्विधस्य अ-करुणस्य नाम भूत्
अक्रूरः इति एतत् अतीव दारुणः
यः असौ अनाश्वास्य सुदुःखितम् जनम्
प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥२६॥

अनार्द्र-धीरः असौ समास्थितः रथम्
तम् अन्वमीय त्वरयन्ति दुर्-मदाः
गोपाः अनैः स्थविरैः उपेक्षितम्
दैवम् नः अद्य प्रतिकूलम् ईहते ॥२७॥

निवारयामः समुपेत्य माधवम्
किम् नः अकरिष्यन् कुल-वृद्ध-बान्धवाः
मुकुन्द-सङ्गात् निमिष-अर्ध-दुस्त्यजात्
दैवेन विध्वंसित-दीन-चेतसाम् ॥२८॥

यस्य अनुराग-ललित-स्मित-वल्गु-मन्त्र-
लीला-अवलोक-परिरम्भण-रास-गोष्ठाम्
नीताः स्म नः क्षणम् इव क्षणदा विना तम्
गोप्यः कथम् नु अतितरेम तमः दुरन्तम् ॥२९॥

यः अह्नः क्षये व्रजम् अनन्त-सखः परीतः
गोपैः विशन् खुर-रजः-छुरित-आलक-स्रक्
वेणुम् क्वणन् स्मित-कटाक्ष-निरीक्षणेन
चित्तम् क्षिणोति अमुम् ऋते नु कथम् भवेम ॥३०॥


श्रीशुक उवाच

एवं ब्रुवाणाः विरहातुराः भृशम्

व्रजस्त्रियः कृष्णविषक्तमानसाः

विसृज्य लज्जाम् रुरुदुः स्म सुस्वरम्

गोविन्द दामोदर माधव इति ॥३१॥


स्त्रीणाम् एवम् रुदन्तीनाम् उदिते सवितरि यथा

अक्रूरः च उदयामास कृतमैत्रः अदिकः रथम् ॥३२॥


गोपाः तम् अन्वसज्जन्त नन्दाद्याः शकटैः ततः

आदाय उपायनम् भूरि कुम्भान् गोरससम्भृतान् ॥३३॥


गोप्यः च दयितम् कृष्णम् अनुव्रज्य अनुरञ्जिताः

प्रत्यादेशम् भगवतः काङ्क्षन्त्यः च अवतस्थिरे ॥३४॥


ताः तथा तप्यतीः वीक्ष्य स्वप्रस्थाणे यदूत्तमः

सान्त्वयाम् आस सप्रेमैः आयास्ये इति दौत्यकैः ॥३५॥


यावत् आलक्ष्यते केतुः यावत् रेणुः रथस्य च

अनुप्रस्थापितात्मानः लेख्यानि इव उपलक्षिताः ॥३६॥


ताः निराशाः निववृतुः गोविन्दविनिवर्तने

विशोकाः अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥३७॥


भगवान् अपि सम्प्राप्तः राम अक्रूर युतः नृप

रथेन वायुवेगेन कालिन्दीम् अघनाशिनीम् ॥३८॥


तत्र उपस्पृश्य पानीयम् पीत्वा मृष्टम् मणिप्रभम्

वृक्षषण्डम् उपव्रज्य सरामः रथम् आविशत् ॥३९॥


अक्रूरः तौ उपामन्त्र्य निवेश्य च रथ उपरि

कालिन्द्याः ह्रदम् आगत्य स्नानम् विधिवत् आचरत् ॥४०॥


निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।
तौ एव ददृशे अक्रूरः राम-कृष्णौ समन्वितौ ॥ ४१ ॥

तौ रथस्थौ कथम् इह सुतौ अनक-दुन्दुभेः ।
तर्हि स्वित् स्यन्दने न स्तः इति उन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥

तत्र अपि च यथा पूर्वम् आसीनौ पुनः एव सः ।
न्यमज्जत् दर्शनम् यत् मे मृषा किम् सलिले तयोः ॥ ४३ ॥

भूयः तत्र अपि सः अद्राक्षीत् स्तूयमानम् मही-ईश्वरम् ।
सिद्ध-चारण-गन्धर्वैः असुरैः नत-कन्धरैः ॥ ४४ ॥

सहस्र-शिरसम् देवं सहस्र-फण-मौलिनम् ।
नील-अम्बरम् बिस-श्वेतम् शृङ्गैः श्वेतम् इव स्थितम् ॥ ४५ ॥

तस्य उत्सङ्गे घन-श्यामम् पीत-कौशेय-वाससम् ।
पुरुषम् चतुर्-भुजम् शान्तम् पद्म-पत्र-अरुण-ईक्षणम् ॥ ४६ ॥

चारु-प्रसन्न-वदनम् चारु-हास-निरीक्षणम् ।
सु-भ्रून्-नसम् चारु-कर्णम् सु-कपोल-अरुण-अधरम् ॥ ४७ ॥

प्रलम्ब-पीवर-भुजम् तुङ्ग-अंस-उरः-स्थल-श्रियम् ।
कम्बु-कण्ठम् निम्न-नाभिम् वलि-मत्-पल्लव-उदरम् ॥ ४८ ॥

बृहत्-कति-तट-श्रोणि-कर-भु-ऊरु-द्वय-अन्वितम् ।
चारु-जानु-युगम् चारु-जङ्घा-युगल-संयुतम् ॥ ४९ ॥

तुङ्ग-गुल्फ-अरुण-नख-व्रात-दीधितिभिः-वृतम् ।
नव-अङ्गुलि-अङ्गुष्ठ-दलैः विलसत्-पाद-पङ्कजम् ॥ ५० ॥


सुमह-अर्ह-मणि-व्रात-किरीट-कटक-अङ्गदैः ।
कटी-सूत्र-ब्रह्म-सूत्र-हार-नूपुर-कुण्डलैः ॥ ५१ ॥

भ्राजमानम् पद्म-करम् शङ्ख-चक्र-गदा-धरम् ।
श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभम् वन-मालिनम् ॥ ५२ ॥

सु-नन्द-नन्द-प्रमुखैः पर्षदैः सनक-आदिभिः ।
सुर-ईश्वरैः ब्रह्म-रुद्र-आद्यैः नवभिः च द्विज-उत्तमैः ॥ ५३ ॥

प्रह्लाद-नारद-वसु-प्रमुखैः भागवत-उत्तमैः ।
स्तूयमानम् पृथक्-भावैः वचोभिः अमल-आत्मभिः ॥ ५४ ॥

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्या इलया उर्जया ।
विद्यया अविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥

विलोक्य सुभृशम् प्रीतः भक्त्या परमया युतः ।
हृष्यत्-तनु-उरुः भाव-परिक्लिन्न-आत्म-लोचनः ॥ ५६ ॥

गिरा गद्गदया अस्तोषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नि अवहितः कृत-अञ्जलि-पुटः शनैः ॥ ५७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोन्चत्वारिंशोऽध्यायः ॥ ३९ ॥

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 38 (அக்ரூரர் பிருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் பிருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 38

श्री शुक उवाच –
अक्रूरः अपि च ताम् रात्रिम् मधुपुर्याम् महामतिः ।
उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ १ ॥

गच्छन् पथि महाभागः भगवति अम्बुज-ईक्षणे ।
भक्तिम् पराम् उपगतः एवम् एतत् अचिन्तयत् ॥ २ ॥

किम् मया आचरितम् भद्रम् किम् तप्तम् परमम् तपः ।
किम् वा अथ अपि अर्हते दत्तम् यत् द्रक्ष्यामि अद्य केशवम् ॥ ३ ॥

मम एतत् दुर्लभम् मन्ये उत्तम-श्लोक-दर्शनम् ।
विषय-आत्मनः यथा ब्रह्म-कीर्तनम् शूद्र-जन्मनः ॥ ४ ॥

मा एवम् मम अधमस्य अपि स्यात् एव अच्युत-दर्शनम् ।
ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन ॥ ५ ॥

मम आद्य-अङ्गलम् नष्टम् फलवान् च एव मे भवः ।
यत् नमस्ये भगवतः योगि-ध्येय-अङ्घ्रि-पङ्कजम् ॥ ६ ॥

कंसः बत आद्या अक्रत् मे अति-अनुग्रहम् ।
द्रक्ष्ये अङ्घ्रि-पद्मम् प्रहितः अमुना हरेः ॥
कृत-अवतारस्य दुरत्ययम् तमः ।
पूर्वे अतरण् यत् नख-मण्डल-त्विषा ॥ ७ ॥

यत् अर्चितम् ब्रह्म-भव-आदिभिः सुरैः ।
श्रिया च देव्या मुनिभिः स-सात्वतैः ॥
गो-चारणाय अनुचरैः चरत् वने ।
यत् गोपिकानाम् कुच-कुङ्कुम-अङ्कितम् ॥ ८ ॥

द्रक्ष्यामि नूनम् सु-कपोल-नासिकम् ।
स्मित-अवलोक-अरुण-कञ्ज-लोचनम् ॥
मुखम् मुकुन्दस्य गुड-आलक-आवृतम् ।
प्रदक्षिणम् मे प्रचरन्ति वै मृगाः ॥ ९ ॥

अपि अद्य विष्णोः मनुजत्वम् ईयुषः ।
भार-अवताराय भुवः निज-इच्छया ॥
लावण्य-धाम्नः भविता उपलम्भनम् ।
मह्यम् न न स्यात् फलम् अञ्जसा दृशः ॥ १० ॥

यः ईक्षित-अहम्-रहितः अपि असत्-सतः ।
स्व-तेजसा अपास्त-तमः अभिदा-अभ्रमः ॥
स्व-मायया आत्मन् रचितैः तत्-ईक्षया ।
प्राण-अक्ष-धीभिः सदनेषु अ‍भीयते ॥ ११ ॥

यस्मिन् अखिल-आमीव-भिः सु-मङ्गलैः ।
वाचः विमिश्राः गुण-कर्म-जन्मभिः ॥
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् ।
याः तत्-विरक्ताः शव-शोभनाः मताः ॥ १२ ॥

सः च अवतीर्णः किल सात्वत-आन्वये ।
स्व-सेतु-पाल-अमर-वर्य-शर्म-कृत् ॥
यशः वितन्वन् व्रज-आस्त ईश्वरः ।
गायन्ति देवा यत् अशेष-मङ्गलम् ॥ १३ ॥

तम् तु अद्य नूनम् महताम् गतिम् गुरुम् ।
त्रै-लोक्य-कान्तम् दृशि-मत्-महोत्सवम् ॥
रूपम् दधानम् श्रियः ईप्सित-आस्पदम् ।
द्रक्ष्ये मम आसन्न-उषसः सु-दर्शनाः ॥ १४ ॥

अथ अवरूढः सपदि ईशयः रथात् ।
प्रधान-पुंसः चरणम् स्व-लभ्दये ॥
धिया धृतम् योगिभिः अपि अहम् ध्रुवम् ।
नमस्य आभ्याम् च सखीन् वन-औकसः ॥ १५ ॥

अपि अङ्घ्रि-मूले पतितस्य मे विभुः ।
शिरसि अधास्यन् निज-हस्त-पङ्कजम् ॥
दत्त-अभयम् काल-भुज-अङ्ग-रंहसा ।
प्रोद्वेजितानाम् शरण-ईषिणाम् नृणाम् ॥ १६ ॥

समर्हणम् यत्र निधाय कौशिकः ।
तथा बलिः च अपि जगत्-त्रय-इन्द्रताम् ॥
यत् वा विहारे व्रज-योषिताम् श्रमम् ।
स्पर्शेन सौगन्धिक-गन्धि अपानुदत् ॥ १७ ॥

न मयि उपैष्यति अरि-बुद्धिम् अच्युतः ।
कंसस्य दूतः प्रहितः अपि विश्व-दृक् ॥
यः अन्तः बहिः चेतसः एतत् ईहितम् ।
क्षेत्रज्ञः ईक्षति अमलेन चक्षुषा ॥ १८ ॥

अपि अङ्घ्रि-मूले अवहितम् कृत-अञ्जलिम् ।
माम् ईक्षिता सस्मितम् आर्द्रया दृशा ॥
सपदि अप-ध्वस्त-समस्त-किल्बिषः ।
वोढा मुदम् वीत-विशङ्कः ऊर्जिताम् ॥ १९ ॥

सुहृत्-तमम् ज्ञातिम् अनन्य-दैवतम् ।
दोर्-भ्याम् बृहद्-भ्याम् परिरप्स्यते अथ माम् ॥
आत्मा हि तीर्थी-क्रियते तदा एव मे ।
बन्धः च कर्म-आत्मकः उच्छ्वसिति यतः ॥ २० ॥

लब्ध्वा-अङ्ग-सङ्गम् प्रणतम् कृत-अञ्जलिम् ।
माम् वक्ष्यते अक्रूर तते इति उरु-श्रवाः ॥
तदा वयम् जन्म-भृतः महीयसा ।
न एव आदृतः यः धिक् अमुष्य जन्म तत् ॥ २१ ॥

न तस्य कश्चित् दयितः सुहृत्-तमः ।
न च अप्रियः द्वेष्यः उपेक्ष्यः एव वा ॥
तथा अपि भक्तान् भजते यथा तथा ।
सुर-द्रुमः यत्-वत् उपाश्रितः अर्थ-दः ॥ २२ ॥

किञ्च अग्रजः माम् अवनतम् यदू-उत्तमः ।
स्मयन् परिष्वज्य गृहीत-अञ्जलौ ॥
गृहम् प्रवेश्य आप्त-समस्त-सत्कृतम् ।
सम्प्रक्ष्यते कंस-कृतम् स्व-बन्धुषु ॥ २३ ॥

श्री-शुकः उवाच —
इति सञ्चिन्तयन् कृष्णम् श्वफल्क-तनयः अध्वनि ।
रथेन गो-कुलम् प्राप्तः सूर्यः च अस्त-गिरिम् नृप ॥ २४ ॥

पदानि तस्य अखिल-लोक-पाल-
किरीट-जुष्ट-अमल-पाद-रेणोः ।
ददर्श गोष्ठे क्षिति-कौतुकानि ।
विलक्षितानि अब्ज-यव-अङ्कुश-आद्यैः ॥ २५ ॥

तत्-दर्शन-आह्लाद-विवृद्ध-सम्भ्रमः ।
प्रेम्णा ऊर्ध्व-रोम अश्रु-कलाकुल-ईक्षणः ॥
रथात् अवस्कन्द्य सः तेषु अचेष्टत ।
प्रभोः अमूनि अङ्घ्रि-रजांसि अहो इति ॥ २६ ॥

देह-अम्भृताम् इयान्-अर्थः हित्वा दम्भम् भियम् शुचम् ।
सन्देशात् यः हरेः लिङ्गम् दर्शन-श्रवण-आदिभिः ॥ २७ ॥

ददर्श कृष्णम् रामम् च व्रजे गो-दोहनम् गतौ ।
पीत-नील-अम्बर-धरौ शरद्-अम्बु-रुह-ईक्षणौ ॥ २८ ॥

किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ ।
सुमुखौ सुन्दर-वरौ बल- द्वि-रद-विक्रमौ ॥ २९ ॥

ध्वज-वज्र-अङ्कुश-अम्भोजैः चिह्नितैः अङ्घ्रिभिः व्रजम् ।
शोभयन्तौ महात्मानौ अनुक्रोश-स्मित-ईक्षणौ ॥ ३० ॥

उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ ।
पुण्य-गन्ध-अनुलिप्त-अङ्गौ स्नातौ विरज-वाससौ ॥ ३१ ॥

प्रधान-पुरुषौ आद्यौ जगत्-हेतू जगत्-पती ।
अवतीर्णौ जगति अर्थे स्व-अंशेन बल-केशवौ ॥ ३२ ॥

दिशः वि-तिमिराः राजन् कुर्वाणौ प्रभया स्वया ।
यथा मारकतः शैलः रौप्यः च कनक-आचितौ ॥ ३३ ॥

रथात् तूर्णम् अवप्लुत्य सः अक्रूरः स्नेह-विह्वलः ।
पपात चरण-उपान्ते दण्डवत् राम-कृष्णयोः ॥ ३४ ॥

भगवत्-दर्शन-आह्लाद-बाष्प-पर्याकुल-ईक्षणः ।
पुलक-चित-अङ्गः औत्कण्ठ्यात् स्व-अख्याने न अशकन् नृप ॥ ३५ ॥

भगवान् तम् अभिप्रेत्य रथ-अङ्ग-अङ्कित-पाणिना ।
परिरेभे अभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ ३६ ॥

सङ्कर्षणः च प्रणतम् उपगुह्य महा-मनाः ।
गृहीत्वा पाणिना पाणी अनयत् स-अनुजः गृहम् ॥ ३७ ॥

पृष्ट्वा अथ स्वागतं तस्मै निवेद्य च वर-आसनम् ।
प्रक्षाल्य विधिवत् पादौ मधु-पर्क-अर्हणम् आहरत् ॥ ३८ ॥

निवेद्य गां च अतिथये संवाह्य श्रान्तम् आदृतः ।
अन्नम् बहु-गुणम् मेध्यम् श्रद्धया उपाहरत् विभुः ॥ ३९ ॥

तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् ।
मख-वासैः गन्ध-माल्यैः पराम् प्रीतिम् व्यधात् पुनः ॥ ४० ॥

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौनपाला इव अवयः ॥ ४१ ॥

य: अवधी: स्व-स्वसुः तोकान् क्रोशन्त्याः असुतृप् खलः ।
किं नु स्वित् तत् प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥

इत्थं सूनृतया वाचा नन्देन सुसभाजित: ।
अक्रूर: परिपृष्टेन जहौ अध्व-परिश्रमम् ॥ ४३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम 
अष्टत्रिंशोऽध्यायः ॥ ३८ ॥