Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 43 (குவலயாபீடம் வதம் செய்யப்பட்டது - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குவலயாபீடம் வதம் செய்யப்பட்டது

ஸ்கந்தம் 10: அத்யாயம் 43

श्रीशुक उवाच -

अथ कृष्णः च रामः च कृत-शौचौ परन्तप ।

मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ १ ॥


रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् ।

अपश्यत् कुवलयापीडम् कृष्णः अम्बष्ठ-प्रचोदितम् ॥ २ ॥


बद्ध्वा परिकरम् शौरिः समुह्य कुटिल-अलकान् ।

उवाच हस्तिपम् वाचा मेघ-नाद-गभीरया ॥ ३ ॥


अम्बष्ठ, अम्बष्ठ, मार्गं नौ देहि, अपक्रम, मा चिरम् ।

नो चेत् स-कुञ्जरम् त्वा अद्य नयामि यम-सादनम् ॥ ४ ॥


एवम् निर्भर्त्सितः अम्बष्ठः कुपितः कोपितम् गजम् ।

चोदयामास कृष्णाय काल-अन्तक-यम-उपमम् ॥ ५ ॥


करीन्द्रः तम् अभिद्रुत्य करेण तरसा अग्रहीत् ।

करात् विगलितः सः अमुम् निहत्य अङ्घ्रिषु अलीयत ॥ ६ ॥


सङ्क्रुद्धः तम् अचक्षाणः घ्राण-दृष्टिः सः केशवम् ।

परामृशत पुष्करेण सः प्रसह्य विनिर्गतः ॥ ७ ॥


पुच्छे प्रगृह्य अतिबलम् धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागम् सुपर्णः इव लीलया ॥ ८ ॥


सः पर्यावर्तमानेन सव्य-दक्षिणतः अच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेन इव बालकः ॥ ९ ॥


ततः अभिमुखम् अभ्येत्य पाणिना आहत्य वारणम् ।

प्राद्रवत् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥


सः धावन् क्रीडया भूमौ पतित्वा सहसा उत्थितः ।

तम् मत्वा पतितम् क्रुद्धः दन्ताभ्याम् सः अहनत् क्षितिम् ॥ ११


स्व-विक्रमे प्रतिहते कुञ्जर-इन्द्रः अति-अमर्षितः ।

चोद्य-मानः महा-मात्रैः कृष्णम् अभ्यद्रवत् रुषा ॥ १२


तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः ।

निगृह्य पाणिना हस्तम् पातयामास भूतले ॥ १३


पतितस्य पदा आक्रम्य मृग-इन्द्रः इव लीलया ।

दन्तम् उत्पाट्य तेन एभम् हस्ति-पान् च अहनत् हरिः ॥ १४


मृतकम् द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् ।

अंस-न्यस्त-विषाणः असृक्-मद-बिन्दुभिः अङ्कितः ।

विरूढ-स्वेद-कणिका-वदन-अम्बुरुहः बभौ ॥ १५


वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ ।

रङ्गम् विविशतुः राजन् गज-दन्त-वरा-अयुधौ ॥ १६


मल्लानाम् अशनि-ः, नृणाम् नरवरः,

स्त्रीणाम् स्मरः मूर्तिमान्,

गोपानाम् स्वजनः, असताम् क्षिति-भुजाम् शास्ता,

स्वपित्रोः शिशुः,

मृत्युः भोज-पतेः, विराट् विदुषाम्,

तत्त्वम् परम् योगिनाम्,

वृष्णीनाम् पर-देवता इति विदितः,

रङ्गम् गतः सः अग्रजः ॥ १७


हतम् कुवलयापीडम् दृष्ट्वा तौ अपि दुर्जयौ ।

कंसः मनस्वी अपि तदा भृशम् उद्विविजे नृप ॥ १८


तौ रेजतुः रङ्ग-गतौ महा-भुजौ

विचित्र-वेष-आभरण-स्रक्-अम्बरौ ।

यथा नटौ उत्तम-वेष-धारिणौ

मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९


निरीक्ष्य तौ उत्तम-पुरुषौ जना

मञ्च-स्थिता नागर-राष्ट्रकाः नृप ।

प्रहर्ष-वेग-उत्कलित-ईक्षण-आननाः

पपुः न तृप्ताः नयनैः तदा आननम् ॥ २०


पिबन्त इव चक्षुर्भ्याम् लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्याम् श्लिष्यन्त इव बाहुभिः ॥ २१ ॥


ऊचुः परस्परम् ते वै यथा दृष्टम् यथा श्रुतम्
तत्-रूप-गुण-माधुर्य-प्रागल्भ्य-स्मारिताः इव ॥ २२ ॥


एतौ भगवतः साक्षात् हरेः नारायणस्य हि
अवतीर्णौ इह अंशेन वसुदेवस्य वेश्मनि ॥ २३ ॥


एषः वै किल देवक्याम् जातः नीतः गोकुलम्
कालम् एतम् वसन् गूढः ववृधे नन्द-वेश्मनि ॥ २४ ॥


पूतना नेन नीता अन्तम् चक्रवातः दानवः
अर्जुनौ गुह्यकः केशी धेनुकः अन्ये तत्-विधाः ॥ २५ ॥


गावः सपाला एतेन दाव-अग्नेः परिमोचिताः
कालियः दमितः सर्पः इन्द्रः विमदः कृतः ॥ २६ ॥


सप्त-अहम् एक-हस्तेन धृतः अद्रि-प्रवरः अमुना
वर्ष-वात-अशनिभ्यः परित्रातम् गोकुलम् ॥ २७ ॥


गोप्यः अस्य नित्यम् उदित-हसित-प्रेक्षणम् मुखम्
पश्यन्त्यः विविधान् तापान् तरन्ति स्म आश्रमम् मुदा ॥ २८ ॥


वदन्ति अनेन वंशः अयम् यदोः सुभु-विश्रुतः
श्रियम् यशः महत्त्वम् लप्स्यते परिरक्षितः ॥ २९ ॥


अयम् अस्य आग्रजः श्रीमान् रामः कमल-लोचनः
प्रलम्बः निहतः येन वत्सकः ये बक-आदयः ॥ ३० ॥


जनेषु एवम् ब्रुवाणेषु तूर्येषु निनदत्सु
कृष्ण-रामौ समाभाष्य चाणूरः वाक्यम् अब्रवीत् ॥ ३१ ॥

हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ
नियुद्ध-कुशलौ श्रुत्वा राज्ञा आहूतौ दिदृक्षुणा ॥ ३२ ॥


प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयः विन्दन्ति वै प्रजाः
मनसा कर्मणा वाचा विपरीतम् मतः अन्यथा ॥ ३३ ॥


नित्यं प्रमुदिताः गोपाः वत्सपालाः यथा स्फुटम्
वनेषु मल्ल-युद्धेन क्रीडन्तः चारयन्ति गाः ॥ ३४ ॥


तस्मात् राज्ञः प्रियं यूयम् वयम् करवाम हे
भूतानि नः प्रसीदन्ति सर्व-भूत-मयः नृपः ॥ ३५ ॥


तत्-निशम्य अब्रवीत् कृष्णः देश-काल-उचितम् वचः
नियुद्धम् आत्मनः अभीष्टम् मन्‍यमानः अभिनन्द्य ॥ ३६ ॥


प्रजाः भोज-पतेः अस्य वयम् अपि वने-चराः
करवाम प्रियं नित्यं तत् नः परम-अनुग्रहः ॥ ३७ ॥


बालाः वयम् तुल्य-बलैः क्रीडिष्यामः यथा-उचितम्
भवेत् नियुद्धम् मा-अधर्मः स्पृशेत् मल्ल-सभा-सदः ॥ ३८ ॥


चाणूरः उवाच –
बालः किशोरः त्वम् बलः बलिनाम् वरः
लीलया एभः हतः येन सहस्र-द्विप-सत्त्व-भृत् ॥ ३९ ॥


तस्मात् भवद्‍भ्याम् बलिभिः योद्धव्यम् अनयः अत्र वै
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 

संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम 

त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 42 (தனுர் பங்கம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

தனுர் பங்கம்

ஸ்கந்தம் 10: அத்யாயம் 42

श्री शुक उवाच –

अथ व्रजन् राज-पथेन माधवः

स्त्रियम् गृहीत-अङ्ग-विलेप-भाजनाम् ।

विलोक्य कुब्जाम् युवतीम् वर-आननाम्

पप्रच्छ यान्तीम् प्रहसन् रस-प्रदः ॥ १ ॥


का त्वम् वरः वेतत् उ अङ्ग-विलेपनम्

कस्य अङ्गने वा कथयस्व साधु नः ।

देहि आवयोः अङ्ग-विलेपम् उत्तमम्

श्रेयः ततः ते न चिरात् भविष्यति ॥ २ ॥


सैरन्ध्रिः उवाच –

दास्य-अस्मि अहम् सुन्दर कंस-सम्मता

त्रि-वक्र-नामा हि अनुलेप-कर्मणि ।

मद्-भावितम् भोज-पतेः अति-प्रियम्

विना युवाम् कः अन्यतमः तत् अर्हति ॥ ३ ॥


रूप-पेशल-माधुर्य-हसित-आलाप-वीक्षितैः ।

धर्षित-आत्मा ददौ सान्द्रम् उभयोः अनुलेपनम् ॥ ४ ॥


ततः तौ अङ्ग-रागेण स्व-वर्ण-इतऱ-शोभिना ।

सम्प्राप्त-पर-भागेन शुशुभाते अनुरञ्जितौ ॥ ५ ॥


प्रसन्नः भगवान् कुब्जाम् त्रि-वक्राम् रुचिर-आननाम् ।

ऋज्वीम् कर्तुम् मनः चक्रे दर्शयन् दर्शनम् फलम् ॥ ६ ॥


पद्‍भ्याम् आक्रम्य प्रपदे द्रुग्-अङ्गुलिः उत्तान-पाणिना ।

प्रगृह्य चिबुके अध्यात्मम् उद्दीनम् अदत् अच्युतः ॥ ७ ॥


सा तत् ऋजु-सम-आङ्गी बृहत्-श्रोणि-पयोधरा ।

मुकुन्द-स्पर्शनात् सद्यः बभूव प्रमदा उत्तमा ॥ ८ ॥


ततः रूप-गुण-औदार्य-सम्पन्ना प्राह केशवम् ।

उत्तरीय-अन्तम् आकृष्य स्मयन्ती जात-हृत्-श्रया ॥ ९ ॥


एहि वीर गृहम् यामः न त्वाम् त्यक्तुम् इह उत्सहे ।

त्वया उन्मथित-चित्तायाः प्रसीद पुरुष-ऋषभ ॥ १० ॥


एवम् स्त्रिया याच्यमानः कृष्णः रामस्य पश्यतः ।

मुखम् वीक्ष्य अनुगानाम् च प्रहसन् ताम् उवाच ह ॥ ११ ॥


एष्यामि ते गृहम् सुभ्रु पुंसाम् आधि-विकर्शनम् ।

साधित-अर्थः अ-гृहाणाम् नः पान्थानाम् त्वम् परायणम् ॥ १२ ॥


विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः ।

नाना-उपायन-ताम्बूल-स्रक्-गन्धैः स-अग्रजः अर्चितः ॥ १३ ॥


तत्-दर्शन-स्मर-क्षोभात् आत्मानम् न अविदन् स्त्रियः ।

विस्रस्त-वासा:-कबर-वलया लेख्य-मूर्तयः ॥ १४ ॥


ततः पौरान् पृच्छमानः धनुषः स्थानम् अच्युतः ।

तस्मिन् प्रविष्टः ददृशे धनुः ऐन्द्रम् इव अद्भुतम् ॥ १५ ॥


पुरुषैः बहुभिः गुप्तम् अर्चितम् परम्-ऋद्धिमत् ।

वार्यमाणः नृभिः कृष्णः प्रसह्य धनुः आददे ॥ १६ ॥


करेण वामेन सलीलम् उद्धृतम्

सज्यम् च कृत्वा निमिषेण पश्यताम् ।

नृणाम् विकृष्य प्रबभञ्ज मध्यतः

यथा इक्षु-दण्डम् मद-करिः उरुक्रमः ॥ १७ ॥


धनुषः भज्यमानस्य शब्दः खम् रोदसी दिशः ।

पूरयाम् आस यम् श्रुत्वा कंसः त्रासम् उपागमत् ॥ १८ ॥


तत्-रक्षिणः स-अनुचरम् कुपिताः आततायिनः ।

गृहीतु-कामाः आवव्रुः गृह्यताम् बध्यताम् इति ॥ १९ ॥


अथ तान् दुरभि-प्रायान् विलोक्य बल-केशवौ ।

क्रुद्धौ धन्वन आदाय शकले तान् च जघ्नतुः ॥ २० ॥


बलम् च कंस-प्रहितम् हत्वा शाला-मुखात् ततः ।

निष्क्रम्य चेरतुः हृष्टौ निरीक्ष्य पुर-सम्पदः ॥ २१ ॥


तयोः तत् अद्‍भुतम् वीर्यम् निशाम्य पुर-वासिनः ।

तेजः प्रागल्भ्यम् रूपम् च मेनिरे विबुध-उत्तमौ ॥ २२ ॥


तयोः विचरतोः स्वैरम् आदित्यः अस्तम् उपेयिवान् ।

कृष्ण-रामौ वृतौ गोपैः पुरात् शकटम् ईयतुः ॥ २३ ॥


गोप्यः मुकुन्द-विगमे विरह-आतुराः याः

आशासत आशिषः ऋता मधुपुरी-अभूवन् ।

सम्पश्यताम् पुरुष-भूषण-गात्र-लक्ष्मिम्

हित्वा इतरे (तान्) नु भजतः च अकमे अयनम् श्रीः ॥ २४ ॥


अवनिक्त-अङ्‌घ्रि-युगलौ भुक्त्वा क्षीर-उपसेचनम् ।

ऊषतुः ताम् सुखम् रात्रिम् ज्ञात्वा कंस-चिकीर्षितम् ॥ २५ ॥


कंसः तु धनुषः भङ्गम् रक्षिणाम् स्व-बलस्य च ।

वधम् निशम्य गोविन्द-राम-विक्रीडितम् परम् ॥ २६ ॥


दीर्घ-प्रजागरः भीतः दुर्निमित्तानि दुर्मतिः ।

बहूनि अचष्ट उभयथा मृत्यु-उर्-दौत्य-कराणि च ॥ २७ ॥


अदर्शनम् स्व-शिरसः प्रति-रूपे च सत्य अपि ।

असत्य अपि द्वितीये च द्वै-रूप्यम् ज्योतिषाम् तथा ॥ २८ ॥


छिद्र-प्रतीतिः छायायाम् प्राण-घोष-अनुपश्रुतिः ।

स्वर्ण-प्रतीतिः वृक्षेषु स्व-पद-अनाम् अदर्शनम् ॥ २९ ॥


स्वप्ने प्रेत-परिष्वङ्गः खर-यानम् विषादनम् ।

यायात् नलदमाल्य-एकः तैल-अभ्यक्तः दिगम्बरः ॥ ३० ॥


अन्यानि च इत्थम् भूतानि स्वप्न-जागरितानि च ।

पश्यन् मरण-सन्त्रस्तः निद्राम् लेभे न चिन्तया ॥ ३१ ॥


व्युष्टायाम् निशि कौरव्य सूर्ये च अद्‍भ्यः समुत्थिते ।

कारयामास वै कंसः मल्ल-क्रीडा-महोत्सवम् ॥ ३२ ॥


आनर्चुः पुरुषाः रङ्गम् तूर्य-भेर्यः च जघ्निरे ।

मञ्चाः च आलङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥ ३३ ॥


तेषु पौराः जानपदाः ब्रह्म-क्षत्र-पुरोगमाः ।

यथोपजोषम् विविशुः राजानः च कृत-आसनाः ॥ ३४ ॥


कंसः परिवृतः अमात्यैः राज-मञ्च उपाविशत् ।

मण्डल-ईश्वर-मध्यस्थः हृदयेन विदूयता ॥ ३५ ॥


वाद्यमानेषु तूर्येषु मल्ल-ताल-उत्तरेषु च ।

मल्लाः स्व-लङ्कृताः दृप्ताः स-उपाध्यायाः समाविशन् ॥ ३६ ॥


चाणूरः मुष्टिकः कूटः शलः तोशलः एव च ।

ते आसेदुः उपस्थानम् वल्गु-वाद्य-प्रहर्षिताः ॥ ३७ ॥


नन्द-गोप-आदयः गोपाः भोज-राज-समाहुताः ।

निवेदित-उपायनाः ते एकस्मिन् मञ्चे आविशन् ॥ ३८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥