Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 45 (குருபுத்ரனை மீட்ட கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குருபுத்ரனை மீட்ட கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 45

श्री शुक उवाच –

पितरौ उपलब्ध-अर्थौ विदित्वा पुरुष-उत्तमः ।

मा भूत् इति निजाम् मायाम् ततान जन-मोहिनीम् ॥ १ ॥


उवाच पितरौ इत्य् साग्रजः सात्व-ऋषभः ।

प्रश्रय-अवनतः प्रीणन् अम्ब तात इति स-आदरम् ॥ २ ॥


न अस्मत्-तः युवयोः तात नित्य-उत्कण्ठितयोः अपि ।

बाल्य-पौगण्डक-ऐशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ ३ ॥


न लब्धः दैव-हतयोः वासः नौ भवत्-अन्तिके ।

याम् बालाः पितृ-गेह-स्थाः विन्दन्ते लालिता मुदम् ॥ ४ ॥


सर्व-अर्थ-सम्भवः देहः जनितः पोषितः यतः ।

न तयोः याति निर्वेशम् पित्रोः मर्त्यः शत-आयुषा ॥ ५ ॥


यः तयोः आत्मजः कल्पः आत्मना च धनेन च ।

वृत्तिम् न दद्यात् तम् प्रेत्य स्व-मांसम् खादयन्ति हि ॥ ६ ॥


मातरम् पितरम् वृद्धम् भार्याम् साध्वीम् सुतम् शिशुम् ।

गुरुम् विप्रम् प्रपन्नम् च कल्पः अबिभ्रत् श्वसन् मृतः ॥ ७ ॥


तत् न अवकल्पयोः कंसात् नित्यम् उद्विग्न-चेतसोः ।

मोघम् एते व्यतिक्रान्ताः दिवसाः वाम् अनर्चतोः ॥ ८ ॥


तत् क्षन्तुम् अर्हथः तात मातरन् नौ परतन्त्रयोः ।

अकुर्वतोः वाम् शुश्रूषाम् क्लिष्टयोः दुर्हृदा भृशम् ॥ ९ ॥


श्री शुक उवाच –

इति माया-मनुष्यस्य हरेः विश्व-आत्मनः गिरा ।

मोहितौ अङ्कम् आरोप्य परिष्वज्य आपतुः मुदम् ॥ १० ॥


सिञ्चन्तौ अश्रु-धाराभिः स्नेह-पाशेन च आवृतौ ।

न किञ्चित् ऊचतुः राजन् बाष्प-कण्ठौ विमोहितौ ॥ ११ ॥


एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः ।

मातामहम् तू उग्रसेनम् यदूनाम् अकरोत् नृपम् ॥ १२ ॥


आह च अस्मान् महा-राज प्रजाः च आज्ञप्तुम् अर्हसि ।

ययाति-शापात् यदुभिः न आसितव्यम् नृप-आसने ॥ १३ ॥


मयि भृत्ये उपासीने भवतः विबुध-आदयः ।

बलिम् हरन्ति अवनताः किम् उ तान्ये नर-अधिपाः ॥ १४ ॥


सर्वान् स्वान् ज्ञाति-संबन्धान् दिग्भ्यः कंस-भय-आकुलान् ।

यदु-वृष्णि-अन्धक-मधु-दाशार्ह-कुकुर-आदिकान् ॥ १५ ॥


सभाजितान् समाश्वास्य विदेश-आवास-कर्त्शितान् ।

न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् ॥ १६ ॥


कृष्ण-सङ्कर्षण-भुजैः गुप्ताः लब्ध-मनोरथाः ।

गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः ॥ १७ ॥


वीक्षन्तः अहरहः प्रीताः मुकुन्द-वदन-अम्बुजम् ।

नित्यं प्रमुदितम् श्रीमत् स-दय-स्मित-वीक्षणम् ॥ १८ ॥


तत्र प्रवयसः अपि आसन् युवानः अति-बल-ओजसः ।

पिबन्तः अक्षैः मुकुन्दस्य मुख-अम्बुज-सुधाम् मुहुः ॥ १९ ॥


अथ नन्दम् समसाद्य भगवान् देवकी-सुतः ।

सङ्कर्षणः च राजेन्द्र परिष्वज्य इदम् ऊचतुः ॥ २० ॥


पितर्य् उवाभ्याम् स्निग्धाभ्याम् पोषितौ लालितौ भृशम् ।

पित्रोः अभ्यधिका प्रीतिः आत्मजेषु आत्मनः अपि हि ॥ २१ ॥


सः पिता सा च जननी यौ पुष्णीताम् स्व-पुत्रवत् ।

शिशून् बन्धुभिः उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ २२ ॥


यात यूयम् व्रजम् तात वयम् च स्नेह-दुःखितान् ।

ज्ञातीन् वः द्रष्टुम् एष्यामः विधाय सुहृदाम् सुखम् ॥ २३ ॥


एवम् सान्त्वय्य भगवान् नन्दम् स-व्रजम् अच्युतः ।

वासः अलङ्कार-कुप्य-आद्यैः अर्हयामास स-आदरम् ॥ २४ ॥


इति उक्तः तौ परिष्वज्य नन्दः प्रणय-विह्वलः ।

पूरयन् अश्रुभिः नेत्रे सह गोपैः व्रजम् ययौ ॥ २५ ॥


अथ शूर-सुतः राजन् पुत्रयोः समकारयत् ।

पुरोधसा ब्राह्मणैः च यथावत् द्विज-संस्कृतिम् ॥ २६ ॥


तेभ्यः अदात् दक्षिणाः गावः रुक्म-मालाः स्व-अलङ्कृताः ।

स्व-अलङ्कृतेभ्यः संपूज्य स-वत्साः क्षौम-मालिनीः ॥ २७ ॥


याः कृष्ण-राम-जन्म-अर्क्षे मनः-दत्ताः महा-मतिः ।

ताः च अददात् अनुस्मृत्य कंसेन अधर्मतः हृताः ॥ २८ ॥


ततः च लब्ध-संस्कारौ द्विजत्वम् प्राप्य सु-व्रतौ ।

गर्गात् यदु-कुल-आचार्यात् गायत्रम् व्रतम् आस्थितौ ॥ २९ ॥


प्रभवौ सर्व-विद्यानाम् सर्वज्ञौ जगत्-ईश्वरौ ।

न अन्य-सिद्ध-अमल-ज्ञानम् गूहमानौ नर-ईहितैः ॥ ३० ॥


अथः गुरुकुले वासम् इच्छन्तौ उपजग्मतुः ।

काश्यम् सान्दीपनिम् नाम हि अवन्तिपुर-वासिनम् ॥ ३१ ॥


यथा उपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् ।

ग्राहयन्तौ उपेतौ स्म भक्त्या देवम् इव आदृतौ ॥ ३२ ॥


तयोः द्विज-वरः तुष्टः शुद्ध-भाव अनुवृत्तिभिः ।

प्रोवाच वेदान् अखिलान् स-आङ्ग-उपनिषदः गुरुः ॥ ३३ ॥


स-रहस्यम् धनुः-वेदम् धर्मान् न्याय-पथान् तथा ।

तथा च आन्वीक्षिकीम् विद्याम् राज-नीतिम् च षड्विधाम् ॥ ३४ ॥


सर्वम् नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ ।

सकृत् निगद-मात्रेण तौ सञ्जगृहतुः नृप ॥ ३५ ॥


अहो-रात्रैः चतुः-षष्ट्या संयत्तौ तावतीः कलाः ।

गुरु-दक्षिणया आचार्यम् छन्दयामासतुः नृप ॥ ३६ ॥


द्विजः तयोः तम् महिमानम् अद्भुतम्

संलक्ष्य राजन् अति-मानुषीम् मतिम् ।

सम्मन्त्र्य पत्न्या सः महा-अर्णवे मृतम्

बालम् प्रभासे वरयाम्-अभूव ह ॥ ३७ ॥


तथैति अथ आरुह्य महा-रथौ रथम्

प्रभासम् आसाद्य दुरन्त-विक्रमौ ।

वेलाम् उपव्रज्य निषीदतुः क्षणम्

सिन्धुः विदित्वा अर्हणम् आहरत् तयोः ॥ ३८ ॥


तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् ।

यः असौ इह त्वया ग्रस्तः बालकः महता ऊर्मिणा ॥ ३९ ॥


श्री-समुद्रः उवाच –

न एव आहर्षम् अहम् देव दैत्यः पञ्चजनः महा-अन् ।

अन्तः-जल-चरः कृष्ण शङ्ख-रूप-धरः असुरः ॥ ४० ॥


आस्ते तेन आहृतः नूनम् तत् श्रुत्वा सत्वरम् प्रभुः ।

जलम् आविश्य तम् हत्वा न अपश्यत् उदरे अर्भकम् ॥ ४१ ॥


तत् अङ्ग-प्रभवम् शङ्खम् आदाय रथम् आगमत् ।

ततः संयमनीम् नाम यमस्य दयिताम् पुरीम् ॥ ४२ ॥


गत्वा जनार्दनः शङ्खम् प्रदध्मौ सह-आयुधः ।

शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनः यमः ॥ ४३ ॥


तयोः सपर्याम् महतीम् चक्रे भक्ति-उपबृंहिताम् ।

उवाच अवनतः कृष्णम् सर्व-भूत-आशय-आलयम् ।

लीलाम् अनुष्य हे विष्णो युवयोः करवाम किम् ॥ ४४ ॥


श्री-भगवान् उवाच –

गुरु-पुत्रम् इह आनीतम् निज-कर्म-निबन्धनम् ।

आनयस्व महा-राज मत्-शासन-पुरस्कृतः ॥ ४५ ॥


तथा इति तेन उपानीतम् गुरु-पुत्रम् यदूत्तमौ ।

दत्त्वा स्व-गुरवे भूयः वृणीष्व इति तम् ऊचतुः ॥ ४६ ॥


श्री-गुरुः उवाच –

सम्यक् सम्पादितः वत्स भवद्भ्याम् गुरु-निष्क्रयः ।

कः नु युष्मत्-विदः गुरोः कामानाम् अवशिष्यते ॥ ४७ ॥


गच्छतम् स्व-गृहम् वीरौ कीर्तिः वाम् अस्तु पावनी ।

छन्दांसि अयात-यामानि भवंतु इह परत्र च ॥ ४८ ॥


गुरुणा एवम् अनुज्ञातौ रथेन अनिल-रंहसा ।

आयातौ स्व-पुरम् तात पर्जन्य-निनदेन वै ॥ ४९ ॥


समनन्दन् प्रजाः सर्वाः दृष्ट्वा राम-जनार्दनौ ।

अपश्यन्त्यः बहु-अहानि नष्ट-लब्ध-धनाः इव ॥ ५० ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५

ஸ்கந்தம் 10: அத்யாயம் 44 (கம்ஸ வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கம் வதம்

ஸ்கந்தம் 10: அத்யாயம் 44

श्री शुक उवाच –
एवम् चर्चित-सङ्कल्पः भगवान् मधु-सूदनः
आससाद अथ चणूरम् मुष्टिकम् रोहिणी-सुतः ॥ १ ॥


हस्ताभ्याम् हस्तयोः बद्ध्वा पद्‍भ्याम् एव पादयोः
विचकर्षतुः अन्योन्यम् प्रसह्य विजिगीषया ॥ २ ॥


अरत्नी द्वे अरत्‍निभ्याम् जानुभ्याम् एव जानुनी
शिरः शीर्ष्णोः उरसः उरस्‍तौ अन्योन्यम् अभिजघ्नतुः ॥ ३ ॥


परि-भ्रामण-विक्षेप-परि-रम्भ-अपातनैः
उत्सर्पण-अपसर्पणैः अन्योन्यम् प्रत्यरुन्धताम् ॥ ४ ॥


उत्थापनैः उन्नयनैः चालनैः स्थापनैः अपि
परस्परम् जिगीषन्तौ अपचक्रतुः आत्मनः ॥ ५ ॥


तत् बल-अबल-वत् युद्धम् समेतााः सर्व-योषितः
ऊचुः परस्परम् राजन् सा-अनुकम्पाः वरूथशः ॥ ६ ॥


महान् अयम् बतः अधर्मः एषाम् राज-सभा-सदाम्
ये बल-अबलवत् युद्धम् राज्ञः अन्विच्छन्ति पश्यतः ॥ ७ ॥


क्व वज्र-सार-सर्व-अङ्गौ मल्लौ शैल-इन्द्र-सन्निभौ
क्व अति-सुकुमार-अङ्गौ किशोरौ आप्त-यौवनौ ॥ ८ ॥


धर्म-व्यतिक्रमः हि अस्य समाजस्य ध्रुवम् भवेत्
यत्र अधर्मः समुत्तिष्ठेत् स्थेयं तत्र कर्हिचित् ॥ ९ ॥


सभाम् प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन्
अब्रुवन् विब्रुवन् अज्ञः नरः किल्बिषम् अश्नुते ॥ १० ॥


वल्गतः शत्रुम् अभितः कृष्णस्य वदन-अम्बुजम्
वीक्ष्यताम् श्रम-वारि-उप्तम् पद्म-कोशम् इव आम्बुभिः ॥ ११ ॥


किम् पश्यति रामस्य मुखम् आताम्र-लोचनम्
मुष्टिकम् प्रति सामर्षम् हास-संरम्भ-शोभितम् ॥ १२ ॥


पुण्याः बतः व्रज-भवः यत् अयम् नृ-लिङ्ग-
गूढः पुराण-पुरुषः वन-चित्र-माल्यः
गाः पालयन् सह बलः क्वणयन् वेणुम्
विक्रीडयन् चति गिरि-त्र-रमा-अर्चित-अङ्घ्रिः ॥ १३ ॥


गोप्यः तपः किम् अचरन् यत् अमुर्ष्य रूपम्
लावण्य-सारम् असमा-ऊर्ध्वम् अनन्य-सिद्धम्
दृग्भिः पिबन्त्यः अनु-सव-अभिनवम् दुरापम्
एकान्त-धाम यशसः श्रियः ऐश्वरस्य ॥ १४ ॥


या दोहने-अवहनने मथन-उपलेप-
प्रेङ्खेण खन-अर्भ-रुदित-उक्षण-मार्जन-आदौ
गायन्ति एनम् अनुरक्त-धियः अश्रु-कण्ठ्यः
धन्याः व्रज-स्त्रियः उरुक्रम-चित्त-यानाः ॥ १५ ॥


प्रातर् व्रजात् व्रजतः आविशतः सायम्
गोभिः समम् क्वणयतः अस्य निशम्य वेणुम्
निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः
पश्यन्ति सस्मित-मुखम् सदय-आवलोकम् ॥ १६ ॥


एवम् प्रभाषमाणासु स्त्रीषु योग-ईश्वरः हरिः
शत्रुम् हन्तुम् मनः चक्रे भगवान् भरत-ऋषभ ॥ १७ ॥


सभयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचा आतुरौ
पितरौ अन्वतप्येताम् पुत्रयोः अबुधौ बलम् ॥ १८ ॥


तैःतैः नियुद्ध-विधिभिः विविधैः अच्युतइतरौ
युयुधाते यथा अन्योन्यम् तथैव बलमुष्टिकौ ॥ १९ ॥


भगवत्गात्र-निष्पातैः वज्र-नीष्पेष-निष्ठुरैः
चाणूरः भज्यमान-अङ्गः मुहुः ग्लानिम् अवाप ॥ २० ॥


सः श्येन-वेगः उत्पत्य मुष्टीकृत्य करौ उभौ
भगवन्तम् वासुदेवम् क्रुद्धः वक्षसि अबाधत ॥ २१ ॥


अचलत् तत् प्रहारेण माला-आहतः इव द्विपः
बाह्वोः निगृह्य चाणूरम् बहुशः भ्रामयन् हरिः ॥ २२ ॥


भू-पृष्ठे पोथयाम्-आस तरसा क्षीण-जीवितम्
विस्रस्तआकल्पकेशस्रक् इन्द्र-ध्वजः इव अपतत् ॥ २३ ॥


तथा एव मुष्टिकः पूर्वम् स्व-मुष्ट्या अभिहतेन वै
बलभद्रेण बलिना तलेन अभिहतः भृशम् ॥ २४ ॥


प्रवेपितः सः रुधिरम् उद्वमन् मुखतः आर्दितः
व्यसुः पपात उर्वि-उपस्थे वात-आहतः इव अङ्घ्रिपः ॥ २५ ॥


ततः कूटम् अनुप्राप्तम् रामः प्रहरताम् वरः
अवधीद् लीलया राजन् सावज्ञम् वाम-मुष्टिना ॥ २६ ॥


तर्हि एव हि शलः कृष्ण-पदआपहतशीर्षकः
द्विधा विदीर्णः तोशलकः उभौ अपि निपेततुः ॥ २७ ॥


चाणूरे मुष्टिके कूटे शले तोशलके हते
शेषाः प्रदुद्रुवुः मल्लाः सर्वे प्राण-परीप्सवः ॥ २८ ॥


गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः
वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥ २९ ॥


जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः
ऋते कंसम् विप्र-मुख्याः साधवः साधु साधु इति ॥ ३० ॥


हतेषु मल्ल-वर्येषु विद्रुतेषु भोज-राट्
न्यवारयत् स्व-तूर्याणि वाक्यम् इदम् उवाच ॥ ३१ ॥


निःसारयत दुर्वृत्तौ वसुदेव-आत्मजौ पुरात्
धनम् हरत गोपानाम् नन्दम् बध्नीत दुर्मतिम् ॥ ३२ ॥


वसुदेवः तु दुर्मेधा हन्यताम् आशु असत्तमः
उग्रसेनः पिता अपि स-ानुगः पर-पक्षगः ॥ ३३ ॥


एवम् विकत्थमाने वै कंसे प्रकुपितः अव्ययः
लघिम्ना उत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ ३४ ॥


तम् आविशन्तम् आलोक्य मृत्युम् आत्मनः आसनात्
मनस्वी सहसा उत्थाय जगृहे सः असि-चर्मणी ॥ ३५ ॥


तम् खड्ग-पाणिम् विचरन्तम् आशु
श्येनम् यथा दक्षिण-सव्यम् अम्बरे
समग्रहीत् दुर्विषह-उग्र-तेजाः
यथा उरगम् तार्क्ष्य-सुतः प्रसह्य ॥ ३६ ॥


प्रगृह्य केशेषु चलत्–किरीटम्
निपात्य रङ्ग-उपरी तुङ्ग-मञ्चात्
तस्य उपरिष्टात् स्वयम् अब्ज-नाभः
पपात विश्व-आश्रयः आत्म-तन्त्रः ॥ ३७ ॥


तम् सम्परेतम् विचकर्ष भूमौ
हरिः यथा इभम् जगतः विपश्यतः
हा हे इति शब्दः सुमहान् तदा आभूत्
उदीरितः सर्व-जनैः नरेन्द्र ॥ ३८ ॥


सः नित्यदः उद्विग्न-धिया तम् ईश्वरम्
पिबन् वदन् वा विचरन् स्वपन् श्वसन्
ददर्श चक्र-आयुधम् अग्रतः यः
तत् एव रूपम् दुरवापम् आप ॥ ३९ ॥


तस्य अनुजाः भ्रातरः अष्टौ कङ्कः न्यग्रोधकः आदयः
अभ्यधावन् अभि-क्रुद्धाः भ्रातुः निर्वेश-कारिणः ॥ ४० ॥

तथा अतिरभसान् ताम्स् तु संयत्तान् रोहिणीसुतः ।

अहन् परिघम् उद्यम्य पशून् इव मृग-आधिपः ॥ ४१ ॥


नेदुः दुन्दुभयः व्योम्नि ब्रह्म-ईश-आद्याः विभूतयः ।

पुष्पैः किरन्तः तम् प्रीताः शशंसुः ननृतुः स्त्रियः ॥ ४२ ॥


तेषाम् स्त्रियः महा-राज सुहृत्-मरण-दुःखिताः ।

तत्र अभीयुः विनिघ्नन्त्यः शीर्षाणि अश्रु-विलोचनाः ॥ ४३ ॥


शयानान् वीर-शय्यायाम् पतीन् आलिङ्ग्य शोचतीः ।

विलेपुः सु-स्वरम् नार्यः विसृजन्त्यः मुहुः शुचः ॥ ४४ ॥


हा नाथ प्रिय धर्मज्ञ करुणा-नाथ-वात्सल ।

त्वया हतेन निहताः वयम् ते स-गृह-प्रजाः ॥ ४५ ॥


त्वया विरहिता पत्या पुरी इयम् पुरुष-ऋषभ ।

न शोभते वयम् इव निवृत्त-उत्सव-मङ्गला ॥ ४६ ॥


अनागसाम् त्वम् भूतानाम् कृतवान् द्रोहम् उल्बणम् ।

तेन इमाम् भोः दशाम् नीतः भूत-धृक् कः लभेत शम् ॥ ४७ ॥


सर्वेषाम् इह भूतानाम् एषः हि प्रभव-अप्ययः ।

गोप्ता च तत्-अवध्यायी न क्वचित् सुखम् एधते ॥ ४८ ॥


श्री-शुकः उवाच -

राज-योषितः आश्वास्य भगवान् लोक-भावनः ।

या-आहुः लौकिकीम् संस्थाम् हतानाम् समकारयत् ॥ ४९ ॥


मातरम् पितरम् च एव मोचयित्वा अथ बन्धनात् ।

कृष्ण-रामौ ववन्दाते शिरसा आस्पृश्य पादयोः ॥ ५० ॥


देवकी वसुदेवः च विज्ञाय जगत्-ईश्वरौ ।

कृत-संवन्दनौ पुत्रौ स-स्वजाते न शङ्कितौ ॥ ५१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुर्चत्वारिंशोऽध्यायः ॥ ४४ ॥