Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 47 (ப்ரமர கீதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ப்ரமர கீதம்

ஸ்கந்தம் 10: அத்யாயம் 47

श्री शुक उवाच –
तम् वीक्ष्य कृष्ण-अनुचरम् व्रज-स्त्रियः
प्रलम्ब-बाहुम् नव-कञ्ज-लोचनम् ।
पीत-अम्बरम् पुष्कर-मालिनम् लसन्-
मुख-अरविन्दम् मणि-मृष्ट-कुण्डलम् ॥ १ ॥


शुचि-स्मिताः कः अयम् अपीच्य-दर्शनः
कुतः च कस्य अच्युत-वेष-भूषणः ।
इति स्म सर्वाः परिवव्रुः उत्सुकाः-
तम् उत्तम-श्लोक-पद-अम्बुज-आश्रयम् ॥ २ ॥


तम् प्रश्रयेण अवनताः सु-सत्कृतम्
स-व्रीड-हास-ईक्षण-सूनृत-आदिभिः ।
रहस्य-पृच्छन् उपविष्टम् आसने
विज्ञाय सन्देश-हरम् रमा-पतेः ॥ ३ ॥


जानीमः त्वाम् यदुपतेः पार्षदम् समुपागतम् ।
भर्त्रे इह प्रेषितः पित्रोः भवाञ् प्रियत्-चिकीर्षया ॥ ४ ॥


अन्यथा गो-व्रजे तस्य स्मरणीयम् न चक्ष्महे ।
स्नेह-अनुबन्धः बन्धूनाम् मुनेः अपि सु-दुस्त्यजः ॥ ५ ॥


अन्येषु अर्थ-कृता मैत्री यावत्-अर्थ-विडम्बनम् ।
पुम्भिः स्त्रीषु कृता यद्वत् सुमनसः इव षट्-पदैः ॥ ६ ॥


निस्स्वम् त्यजन्ति गणिकाः अकल्पम् नृपतिम् प्रजाः ।
अधीत-विद्या आचार्यम् ऋत्विजः दत्त-दक्षिणम् ॥ ७ ॥


खगाः वीत-फलम् वृक्षम् भुक्त्वा चातिथयः गृहम् ।
दग्धम् मृगाः तथा अरण्यम् जारः भुक्त्वा रताम् स्त्रियम् ॥ ८ ॥


इति गोप्यः हि गोविन्दे गत-वाक्-काय-मानसाः ।
कृष्ण-दूते व्रजम् याते उद्धवे त्यक्त-लौकिकाः ॥ ९ ॥


गायन्त्यः प्रीय-कर्माणि रुदन्त्यः च गत-ह्रियः ।
तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः ॥ १० ॥


काचित् मधुकरम् दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् ।
प्रिय-प्रस्थापितम् दूतम् कल्पयित्वा इदम् अब्रवीत् ॥ ११ ॥

गोप्यः ऊचुः –
मधुप कितव-बन्धो मा स्पृश अङ्घ्रिम् स-पत्न्याः
कुच-विलुलित-माला-कुङ्कुम-अश्मश्रुभिः नः ।
वहतु मधु-पतिः तत्-मानिनीनाम् प्रसादम्
यदु-सदसि विडम्ब्यम् यस्य दूतः त्वम् ईदृक् ॥ १२ ॥


सकृत् अधर-सुधाम् स्वाम् मोहिनीम् पाययित्वा
सुमनसः इव सद्यः तत्यजः अस्मान् भवादृक् ।
परिचरति कथम् तत् पाद-पद्मम् नु पद्मा
हि अपि बत हृत-चेताः उत्तम-श्लोक-जल्पैः ॥ १३ ॥


किम् इह बहु षट्-अङ्घ्रे गायसि त्वम् यदूनाम्-
अधिपतिम् अगृहाणाम् अग्रतः नः पुराणम् ।
विजय-सख-सखीनाम् गीयताम् तत्-प्रसङ्गः
क्षपित-कुच-रुजः ते कल्पयन्ती इष्टम् इष्टाः ॥ १४ ॥


दिवि भुवि च रसायाम् काः स्त्रियः तत्-दुरापाः
कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः ।
चरण-रजः उपास्ते यस्य भूतिः वयम् काः
अपि च कृपण-पक्षे हि उत्तम-श्लोक-शब्दः ॥ १५ ॥


विसृज शिरसि पादम् वेद्मि अहम् चाटुकारैः
अनुनय-विदुषः ते अभ्येत्य दौत्यैः मुकुन्दात् ।
स्व-कृतम् इह विसृष्ट-अपत्य-अपत्य-अन्य-लोकाः
व्यसृजत् अ-कृत-चेताः किम् नु सन्धेयम् अस्मिन् ॥ १६ ॥


मृगयुः इव कपि-इन्द्रम् विव्यधे लुब्ध-धर्मा
स्त्रियम् अ-कृत विरूपाम् स्त्री-जितः काम-यानाम् ।
बलिम् अपि बलिमत्त्वा आवेष्टयत् ध्वाङ्क्षवत् यः
तत् अलम् असित-सख्यैः दुस्त्यजः तत्-कथा-अर्थः ॥ १७ ॥


यत् अनुचरित-लीला-आकर्ण-पीयूष-विप्रुट्-
सकृत्-अदन-विधूत-द्वन्द्व-धर्माः विनष्टाः ।
सपदि गृह-कुटुम्बम् दीनम् उत्सृज्य दीनाः
बहवः इह विहङ्गाः भिक्षु-चर्याम् चरन्ति ॥ १८ ॥


वयम् अमृतम् इव जिह्म-व्याहृतम् श्रद्दधानाः
कुलिक-रुतम् इव अज्ञाः कृष्ण-वध्वः हरिण्यः ।
ददृशुः असकृत् एतत् तत् नख-स्पर्श-तीव्र-
स्मर-रुजः उप-मन्त्रिन् भण्यताम् अन्य-वार्ता ॥ १९ ॥


प्रिय-सखः पुनः आगाः प्रेयसा प्रेषितः किम्
वरय किम् अनु-रुन्धे माननीयः असि मे अङ्ग ।
नयसि कथम् इह अस्मान् दुस्त्यज-द्वन्द्व-पार्श्वम्
सततम् उरसि सौम्य श्रीः वधूः साकम् आस्ते ॥ २० ॥


अपि बत मधुपुर्याम् आर्यपुत्रः अधुना आस्ते

स्मरति स पितृ-गेहान् सौम्य बन्धून् च गोपान्।

क्वचित् अपि स कथा नः किङ्करीणाम् गृणीते

भुजम् अगुरु-सुगन्धम् मूर्ध्नि अधास्यत् कदा नु॥ २१॥


श्री शुक उवाच –

अथ उद्धवः निशम्य एवम् कृष्ण-दर्शन-लालसाः।

सान्त्वयन् प्रिय-सन्देशैः गोपीः इदम् अभाषत॥ २२॥


श्री उद्धव उवाच –

अहो यूयम् स्म पूर्ण-अर्थाः भवत्यः लोक-पूजिताः।

वासुदेवे भगवति यासाम् इति अर्पितम् मनः॥ २३॥


दान-व्रत-तपः-होम-जप-स्वाध्याय-संयमैः।

श्रेयोभिः विविधैः च अन्यैः कृष्णे भक्तिः हि साध्यते॥ २४॥


भगवति उत्तम-श्लोके भवतीभिः अनुत्तमा।

भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा॥ २५॥


दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च।

हित्वा अवृणीत यूयम् यत् कृष्ण-आख्यम् पुरुषम् परम्॥ २६॥


सर्व-आत्म-भावः अधिकृतः भवतीनाम् अधोक्षजे।

विरहेण महाभागाः महान् मे अनुग्रहः कृतः॥ २७॥


श्रूयताम् प्रिय-सन्देशः भवतीनाम् सुख-आवहः।

यम् आदाय आगतः भद्राः अहम् भर्तुः रहः-करः॥ २८॥


श्रीभगवान् उवाच –

भवतीनाम् वियोगः मे न हि सर्वात्मना क्वचित्।

यथा भूतानि भूतेषु खम् वायुः अग्निः जलम् मही॥ २९॥


तथा अहम् च मनः-प्राण-भूत-इन्द्रिय-गुण-आश्रयः।

आत्मनि एव आत्मना आत्मानम् सृजे हन्मि अनुपालये॥ ३०॥


आत्म-माया-अनुभावेन भूत-इन्द्रिय-गुण-आत्मना।

आत्मा ज्ञान-मयः शुद्धः व्यतिरिक्तः अ-गुण-अन्वयः॥ ३१॥


सुषुप्ति-स्वप्न-जागरद्भिः माया-वृत्तिभिः ईयते।

येन इन्द्रिय-अर्थान् ध्यायेत् मृषा स्वप्नवत् उत्थितः॥ ३२॥


तत् निरुन्ध्यात् इन्द्रियाणि वि-निद्रः प्रत्यपद्यत।

एतत् अन्तः समाम्नायः योगः साङ्ख्यम् मनीषिणाम्॥ ३३॥


त्यागः तपः दमः सत्यं समुद्र-अन्ताः इव आपगाः।

यत् तु अहम् भवतीनाम् वै दूरे वर्ते प्रियः दृशाम्॥ ३४॥


मनसः सन्निकर्ष-अर्थम् मत्-अनुध्यान-काम्यया।

यथा दूर-चरे प्रेष्ठे मनः आविश्य वर्तते॥ ३५॥


स्त्रीणाम् च न तथा चेतः सन्निकृष्टे अक्षि-गोचरे।

मयि आवेश्य मनः कृत्स्नम् विमुक्त-अशेष-वृत्ति यत्॥ ३६॥


अनुस्मरन्त्यः माम् नित्यम् अचिरात् माम् उपैष्यथ॥ ३६॥


या मया क्रीडता रात्र्याम् वने अस्मिन् व्रज-आस्थिताः।

अलब्ध-रासाः कल्याण्यः मा आपुः मत्-वीर्य-चिन्तया॥ ३७॥


श्री शुक उवाच –

एवम् प्रिय-तम-आदिष्टम् आखर्ण्य व्रज-योषितः।

ताः ऊचुः उद्धवम् प्रीताः तत्-सन्देश-आगत-स्मृतयः॥ ३८॥


गोप्यः ऊचुः –

दिष्ट्या आहितः हतः कंसः यदूनाम् स-अनुगः अघ-कृत्।

दिष्ट्या आप्तैः लब्ध-सर्व-अर्थैः कुशल्याः ते अच्युतः अधुना॥ ३९॥


कच्चित् गद-अग्रजः सौम्य करोति पुर-योषिताम्।

प्रीतिम् नः स्निग्ध-स-व्रीड-हास-उदार-ईक्षण-अर्चितः॥ ४०॥


कथं रति-विशेष-ज्ञः प्रियः च वर-योषिताम्।
न अनुबध्येत तत्-वाक्यैः विभ्रमैः च अनु-भाजितः॥ ४१॥

अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्।
गोष्ठि-मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर-कथा-अन्तरे॥ ४२॥

ताः किम् निशाः स्मरति यासु तदा प्रियाभिः–
वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये।
रेमे क्वणत्-चरण-नूपुर-रास-गोष्ठ्याम्–
अस्माभिः ईडित-मनोऽज्ञ-कथः कदाचित्॥ ४३॥

अपि एष्यति इह दाशार्हः तप्तः स्व-कृतया शुचा।
सञ्जीवयन् नु नः गात्रैः यथा इन्द्रः वनम् अम्बुदैः॥ ४४॥

कस्मात् कृष्णः इह आयाति प्राप्त-राज्यः हत-आहितः।
नरेन्द्र-कन्याम् उद्वाह्य प्रीतः सर्व-सुहृत्-वृतः॥ ४५॥

किम् अस्माभिः वन्-औकोभिः अन्याभिः वा महात्मनः।
श्री-पतेः आप्त-कामस्य क्रियेत अर्थः कृत-आत्मनः॥ ४६॥

परम् सौख्यम् हि नैराश्यम् स्वैरिण्य् अपि आह पिङ्गला।
तत् जानतीनाम् नः कृष्णे तथापि आशा दुरत्यया॥ ४७॥

कः उत्सहेत सन्-त्यक्तुम् उत्तम-श्लोक-संविदम्।
अनिच्छतः अपि यस्य श्रीः अङ्गात् न च्यवते क्वचित्॥ ४८॥

सरित्-शैल-वन्-उद्देशाः गावः वेणु-रवः इमे।
सङ्कर्षण-सहायेन कृष्णेन आचरिताः प्रभो॥ ४९॥

पुनः पुनः स्मारयन्ति नन्द-गोप-सुतम् बत।
श्री-निकेतैः तत्-पदकैः विस्मर्तुम् नैव शक्नुमः॥ ५०॥

गत्या ललित-उदार-हास-लीला-अवलोकनैः।
माध्व्या गिरा हृत-धियः कथम् तम् विस्मराम हे॥ ५१॥

हे नाथ हे रमा-नाथ व्रज-नाथ आर्ति-नाशन।
मग्नम् उद्धर गोविन्द गोकुलम् वृजिन-अर्णवत्॥ ५२॥


श्री-शुक उवाच
ततः ताः कृष्ण-सन्देशैः व्यपेत-विरह-ज्वराः।
उद्धवम् पूजयाम् चक्रुः ज्ञात्वा आत्मानम् अधः-क्षजम्॥ ५३॥

उवास कतिचित् मासान् गोपीनाम् विनुदन् शुचः।
कृष्ण-लीला-कथाम् गायन् रमयामास गोकुलम्॥ ५४॥

यावन्ति अहानि नन्दस्य व्रजे अवात्सीत् सः उद्धवः।
व्रज-औकसाम् क्षण-प्रायाणि आसन् कृष्णस्य वार्तया॥ ५५॥

सरित्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान्।
कृष्णम् संस्मारयन् रेमे हरि-दासः व्रज-औकसाम्॥ ५६॥

दृष्ट्वा एवम् आदि गोपीनाम् कृष्ण-आवेश-आत्म-विक्लवम्।
उद्धवः परम-प्रीतः ताः नमस्यन् इदम् जगौ॥ ५७॥

एताः परम् तनु-भृतः भुवि गोप-वध्वः।
गोविन्दे एव निखिल-आत्मनि रूढ-भावाः।
वाञ्छन्ति यत् भव-भियः मुनयः वयम् च।
किम् ब्रह्म-जन्मभिः अनन्त-कथा-रसस्य॥ ५८॥

क्व इमाः स्त्रियः वन-चरिः व्यभिचार-दुष्टाः।
कृष्णे क्व च एषः परम-आत्मनि रूढ-भावः।
नु न्व् ईश्वरः अनु-भजतः अविदुषः अपि साक्षात्—
श्रेयः तनुति अगद-राजः इव उपयुक्तः॥ ५९॥

नायं श्रियः अंग उ नितान्तरेतेः प्रसादः

स्वर्योषितां नलिनगन्ध-रुचां कुतो अन्याः।


रासोत्सवे अस्य भुजदण्डगृहीत-कण्ठ-

लब्ध-आशीषां य उडगात् व्रज-वल्लवी-नाम्॥ ६०


आसामहो चरण-रेणु-जुषाम् अहम् स्यां

वृन्दावने किम् अपि गुल्म-लतौषधीनाम्।


या दुस-त्यजं स्व-जन-आरी-पथं च हित्वा

भेजुर्मुकुन्द-पदवीं श्रुतिभि-र्विमृग्याम्॥ ६१


या वै श्रिया-अर्चित-मजा-आदि-भिराप्त-का-मै

र्योगेश्वरैः अपि यत् आत्मनि रास-गोष्ठ्याम्।


कृष्णस्य तत् भगवत-श्चरण-आर्विन्दं

न्यस्तं स्तनेषु विजहुः परिरभ्य तापम्॥ ६२


वन्दे नन्दव्रजस्त्रीणां पाद-रेणु-भीक्ष्ण-शः।

यासां हरि-कथा-उद्गीतं पुनाति भुवन-त्रयम्॥ ६३


श्रीशुक उवाच
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च।
गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम्॥ ६४

तं निर्गतं समासाद्य नानोपायनपाणयः।
नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः॥ ६५

मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः।
वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु॥ ६६

कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया।
मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे॥ ६७

एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप।
उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम्॥ ६८

कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम्।
वसुदेवाय रामाय राज्ञे चोपायनान्यदात्॥ ६९

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥


ஸ்கந்தம் 10: அத்யாயம் 46 (உத்தவன் பிருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

உத்தவன் பிருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 46

श्री-शुकः उवाच –

वृष्णीनाम् प्रवरः मन्त्री कृष्णस्य दयितः सखा ।

शिष्यः बृहस्पतेः साक्षात् उद्धवः बुद्धि-सत्तमः ॥ १ ॥


तम् आह भगवान् प्रेष्ठम् भक्तम् एकान्तिनम् क्वचित् ।

गृहीत्वा पाणिना पाणिम् प्रपन्न-आर्ति-हरः हरिः ॥ २ ॥


गच्छ उद्धव व्रजम् सौम्य पित्रोः नः प्रीतिम् आवह ।

गोपीनाम् मत्-वियोग-अधिम् मत्-सन्देशैः विमोचय ॥ ३ ॥


ताः मत्-मनस्काः मत्-प्राणाः मत्-अर्थे त्यक्त-दैहिकाः ।

माम् एव दयितम् प्रेष्ठम् आत्मानम् मनसा गताः ।

ये त्यक्त-लोक-धर्माः च मत्-अर्थे तान् बिभर्मि अहम् ॥ ४ ॥


मयि ताः प्रेयसाम् प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।

स्मरन्त्यः अङ्ग विमुह्यन्ति विरह-उत्कण्ठ्य-विह्वलाः ॥ ५ ॥


धारयन्ति अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।

प्रत्यागमन-सन्देशैः वल्लव्यः मे मत्-आत्मिकाः ॥ ६ ॥


श्री-शुकः उवाच –

इति उक्तः उद्धवः राजन् सन्देशम् भर्तुः आदृतः ।

आदाय रथम् आaruhya प्रययौ नन्द-गोकुलम् ॥ ७ ॥


प्राप्तः नन्द-व्रजम् श्रीमान् निम्लोचति विभा-अवसौ ।

छन्न-यानः प्रविशताम् पशूनाम् खुर-रेणुभिः ॥ ८ ॥


वासित-अर्थे अभियुध्यद्भिः नादितम् शुष्मिभिः वृषैः ।

धावन्तीभिः च वास्राभिः ऊढ-भारैः स्व-वत्सकान् ॥ ९ ॥


इतः-ततः विलङ्घद्भिः गोवत्सैः मण्डितम् सितैः ।

गो-दोह-शब्दाभिः रवम् वेणूनाम् निःस्वनेन च ॥ १० ॥


गायन्तीभिः च कर्माणि शुभानि बल-कृष्णयोः ।

स्वलङ्कृताभिः गोपीभिः गोपैः च सुविराजितम् ॥ ११ ॥


अग्नि-अर्क-अतिथि-गो-विप्र-

पितृ-देव-अर्चन-आन्वितैः ।

धूप-दीपैः च माल्यैः च गोप-आवासैः मनोरमम् ॥ १२ ॥


सर्वतः पुष्पित-वनम् द्विज-अलि-कुल-नादितम् ।

हंस-कारण्डव-आकीर्णैः पद्म-षण्डैः च मण्डितम् ॥ १३ ॥


तम् आगतम् समागम्य कृष्णस्य अनुचरम् प्रियम् ।

नन्दः प्रीतः परिष्वज्य वासुदेव-धिया अर्चयत् ॥ १४ ॥


भोजितम् परम-अन्नेन संविष्टम् कशिपौ सुखम् ।

गत-श्रमम् पर्यपृच्छत् पाद-संवाहन-आदिभिः ॥ १५ ॥


कच्चित् अङ्ग महा-भाग सखा नः शूर-नन्दनः ।

आस्ते कुशल्य-पत्य-आद्यैः युक्तः मुक्तः सुहृत्-वृतः ॥ १६ ॥


दिष्ट्या कंसः हतः पापः स-अनुगः स्वेन पाप्मना ।

साधूनाम् धर्मशीलानाम् यदूनाम् द्वेष्टि यः सदा ॥ १७ ॥


अपि स्मरति नः कृष्णः मातरम् सुहृतः सखीन् ।

गोपान् व्रजम् च आत्म-नाथम् गावः वृन्दावनम् गिरिम् ॥ १८ ॥


अपि आयास्यति गोविन्दः स्व-जनान् सकृत्-ईक्षितुम् ।

तर्हि द्रक्ष्याम तत्-वक्त्रम् सु-नसम् सु-स्मित-ईक्षणम् ॥ १९ ॥


दाव-अग्नेः वात-वर्षात् च वृष-सर्पात् च रक्षिताः ।

दुरत्ययेभ्यः मृत्युभ्यः कृष्णेन सु-महात्मना ॥ २० ॥


स्मरताम् कृष्ण-वीर्याणि लीला-अपाङ्ग-निरीक्षितम् ।

हसितम् भाषितम् च अङ्ग सर्वाः नः शिथिलाः क्रियाः ॥ २१ ॥


सरित्-शैल-वन-उद्देशान् मुकुन्द-पद-भूषितान् ।

आक्रीडानी-ईक्ष्यमाणानाम् मनो याति तत्-आत्मताम् ॥ २२ ॥


मन्ये कृष्णम् च रामम् च प्राप्तौ इह सुर-उत्तमौ ।

सुराणाम् महत्-अर्थाय गर्गस्य वचनम् यथा ॥ २३ ॥


कंसम् नाग-आयुत-प्राणम् मल्लौ गज-पतिम् यथा ।

अवधिष्टाम् लीलया एव पशून् इव मृग-अधिपः ॥ २४ ॥


ताल-त्रयम् महा-सारम् धनुः-यष्टिम् इव इभ-राट् ।

बभञ्ज एकेन हस्तेन सप्त-अहम् अदधात् गिरिम् ॥ २५ ॥


प्रलम्बः धेनुकः अरिष्टः तृणावर्तः बक-आदयः ।

दैत्याः सुर-असुर-जितः हता येन् इह लीलया ॥ २६ ॥


श्री-शुकः उवाच –

इति संस्मृत्य संस्मृत्य नन्दः कृष्ण-अनुरक्त-धीः ।

अत्युत्कण्ठः अभवत् तूष्णीम् प्रेम-प्रसर-विह्वलः ॥ २७ ॥


यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।

शृण्वन्ती अश्रूणि अवास्राक्षीत् स्नेह-स्नुत-पयो-धराः ॥ २८ ॥


तयोः इत्थम् भगवति कृष्णे नन्द-यशोदयोः ।

वीक्ष्य अनुरागम् परम् नन्दम् आह उद्धवः मुदा ॥ २९ ॥


श्री-उद्धवः उवाच –

युवाम् श्लाघ्य-तमौ नूनम् देहिनाम् इह मानद ।

नारायणे अखिल-गुरौ यत् कृता मतिः ईदृशी ॥ ३० ॥


एतौ हि विश्वस्य च बीज-योनी

रामः मुकुन्दः पुरुषः प्रधानम्।

अन्वीय भूतेषु विलक्षणस्य

ज्ञानस्य च ईशात् इमौ पुराणौ॥ ३१ ॥


यस्मिन् जनः प्राण-वियोग-काले

क्षणम् समावेश्य मनो विशुद्धम्।

निर्हृत्य कर्म-आशयम् आशु याति

पराम् गतिम् ब्रह्ममयः अर्कवर्णः॥ ३२ ॥


तस्मिन् भवन्तौ अखिल-आत्म-हेतौ

नारायणे कारण-मर्त्य-मूर्तौ।

भावम् विधत्ताम् नितराम् महात्मन्

किं वा अवशिष्टम् युवयोः सुकृत्यम्॥ ३३ ॥


आगमिष्यति अदीर्घेण कालेन व्रजम् अच्युतः।

प्रियं विधास्यते पित्रोः भगवान् सात्वताम् पतिः॥ ३४ ॥


हत्वा कंसम् रङ्ग-मध्ये प्रतीपम् सर्व-सात्वताम्।

यदा आह वः समागत्य कृष्णः सत्यं करोति तत्॥ ३५ ॥


मा खिद्यतम् महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके।

अन्तः-हृदि सः भूतानाम् आस्ते ज्योतिः इव एधसि॥ ३६ ॥


न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः वास्त्य् अमानिनः।

न उत्तमः न अधमः न अपि समानस्य असमः अपि वा॥ ३७ ॥


न माता न पिता तस्य न भार्या न सुत-आदयः।

न आत्मीयः न परः च अपि न देहः जन्म एव च॥ ३८ ॥


न च अस्य कर्म वा लोके सत्-असत्-मिश्र-योनि-षु।

क्रीडार्थः सः अपि साधूनाम् परित्राणाय कल्पते॥ ३९ ॥


सत्त्वम् रजः तमः इति भजते निर्गुणः गुणान्।

क्रीडन् अतीतः अत्र गुणैः सृजति अवति हन्ति अजः॥ ४० ॥


यथा भ्रमरिक-अदृष्ट्या भ्राम्यति इव महीयते।

चित्ते कर्तरि तत्र आत्मा कर्तेव अहं-धिया स्मृतः॥ ४१ ॥


युवयोः एव न एव अयम् आत्मजः भगवान् हरिः।

सर्वेषाम् आत्मजः हि आत्मा पिता माता सः ईश्वरः॥ ४२ ॥


दृष्टम् श्रुतम् भूत-भवत्-भविष्यत्

स्थास्नुः चरिष्णुः महत्-अल्पकं च।

विना अच्युतात् वस्तु तराम् न वाच्यम्

सः एव सर्वम् परम-आत्म-भूतः॥ ४३ ॥


एवम् निशा सा ब्रुवतोः व्यतीता

नन्दस्य कृष्ण-अनुचरस्य राजन्।

गोप्यः समुत्थाय निरूप्य दीपान्

वास्तून् समभ्यर्च्य दधि अन्यमन्थन्॥ ४४ ॥


ता दीप-दीप्तैः मणिभिः विरेजुः

रज्जु-उर्विकर्षत्-भुज-कङ्कण-स्रजः।

चलन्-नितम्ब-स्तन-हार-कुण्डल-

त्विषत्-कपोल-अरुण-कुङ्कुम-आननाः॥ ४५ ॥


उद्गायतीनाम् अरविन्द-लोचनम्

व्रजाङ्गनानाम् दिवम् अस्पृशत् ध्वनिः।

दध्नः च निर्मन्थन-शब्द-मिश्रितः

निरस्यते येन दिशाम् अमङ्गलम्॥ ४६ ॥


भगवति उदिते सूर्ये नन्द-द्वारि व्रज-औकसः।

दृष्ट्वा रथम् शातकौम्भम् कस्य अयम् इति च अब्रुवन्॥ ४७ ॥


अक्रूरः आगतः किं वा यः कंसस्य अर्थ-साधकः।

येन नीतः मधु-पुरीं कृष्णः कमल-लोचनः॥ ४८ ॥


किं साधयिष्यति अस्माभिः भर्तुः प्रीतस्य निष्कृतिम्।

ततः स्त्रीणाम् वदन्तीनाम् उद्धवः अगात् कृत-अह्निकः॥ ४९ ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६