Followers

Search Here...

Sunday, 13 April 2025

ஸ்கந்தம் 10: அத்யாயம் 49 (அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 49

श्री शुक उवाच –
सः गत्वा हास्तिनपुरम् पौरव-इन्द्र-यशः-अङ्कितम् ।
ददर्श तत्र अम्बिकायम् सभीष्मम् विदुरम् पृथाम् ॥ १ ॥


सह-पुत्रम् च बाह्लीकम् भारद्वाजम् स-गौतमम् ।
कर्णम् सुयोधनम् द्रौणिम् पाण्डवान् सुहृदः अपरान् ॥ २ ॥


यथावत् उपसङ्गम्य बन्धुभिः गांदिनी-सुतः ।
सम्पृष्टः तैः सुहृत्-वार्ताम् स्वयं च अपृच्छत् अव्ययम् ॥ ३ ॥


उवास कतिचित् मासान् राज्ञः वृत्त-विवित्सया ।
दुष्प्रजस्य अल्प-सारस्य खल-छन्द-अनुवर्तिनः ॥ ४ ॥


तेजः ओजः बलम् वीर्यम् प्रश्रय-आदीन् च सत्-गुणान् ।
प्रजा-अनुरागम् पार्थेषु न सहद्भिः चिकीर्षितम् ॥ ५ ॥


कृतम् च धार्तराष्ट्रैः यत् गरद-अनादि-अपेशलम् ।
आचख्यौ सर्वम् एव अस्मै पृथा विदुरः एव च ॥ ६ ॥


पृथा तु भ्रातरम् प्राप्तम् अक्रूरम् उपसृत्य तम् ।
उवाच जन्म-निलयम् स्मरन्ती अश्रु-कल-ईक्षणा ॥ ७ ॥


अपि स्मरन्ति नः सौम्य पितरौ भ्रातरः च मे ।
भगिन्यः भ्रातृ-पुत्राः च जामयः सख्यः एव च ॥ ८ ॥


भ्रात्रेयः भगवान् कृष्णः शरण्यः भक्तवत्सलः ।
पैतृष्वस्य-यान् स्मरति रामः च अम्बुज-ईक्षणः ॥ ९ ॥


स-पत्न-मध्ये शोचन्तीम् वृकाणाम् हरिणीम् इव ।
सान्त्वयिष्यति माम् वाक्यैः पितृ-हीनान् च बालकान् ॥ १० ॥


कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-भावन ।
प्रपन्नाम् पाहि गोविन्द शिशुभिः च अवसीदतीम् ॥ ११ ॥


न अन्यत् तव पद-अम्भोजात् पश्यामि शरणम् नृणाम् ।
बिभ्यताम् मृत्यु-संसारात् ईश्वरस्य अपवर्गिकात् ॥ १२ ॥


नमः कृष्णाय शुद्धाय ब्रह्मणे परम-आत्मने ।
योगेश्वराय योगाय त्वाम् अहम् शरणम् गता ॥ १३ ॥


श्री शुक उवाच –
इति अनुस्मृत्य स्व-जन्‍म् कृष्णम् च जगत्-ईश्वरम् ।
प्रारुदत् दुःखिता राजन् भवताम् प्रपितामही ॥ १४ ॥


सम-दुःख-सुखः अक्रूरः विदुरः च महा-यशाः ।
सान्त्वयामासतुः कुन्तीम् तत्-पुत्र-उत्पत्ति-हेतुभिः ॥ १५ ॥


यास्यन् राजानम् अभ्येत्य विषम् पुत्र-लालसम् ।
अवदत् सुहृदाम् मध्ये बन्धुभिः सौहृद-उदितम् ॥ १६ ॥


अक्रूर उवाच –
भो भो वैचित्रवीर्य त्वम् कुरूणाम् कीर्ति-वर्धन ।
भ्रातरि उपरते पाण्डवः अधुना आसनम् आस्थितः ॥ १७ ॥


धर्मेण पालयन् उर्वीम् प्रजाः शीलेन रञ्जयन् ।
वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ १८ ॥


अन्यथा त्वा अचरन् लोके गर्हितः यास्यसि तमः ।
तस्मात् समत्वे वर्तस्व पाण्डवेषु आत्म-जेषु च ॥ १९ ॥


न इह च अत्यन्त-संवासः कर्हिचित् केनचित् सह ।
राजन् स्वेन अपि देहेन किम् उ जाय-आत्मज-आदिभिः ॥ २० ॥


एकः प्रसूयते जन्तुः एक एव प्रलीयते ।

एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम् ॥ २१ ॥


अधर्म-उपचितम् वित्तम् हरन्ति अन्ये अल्प-मेधसः ।

सम्भोजनीय-अपदेशैः जलानि इव जल-ओकसः ॥ २२ ॥


पुष्णाति यत् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ।

ते अकृत-अर्थम् प्रहिण्वन्ति प्राणाः रायः सुत-आदयः ॥ २३ ॥


स्वयम् किल्बिषम् आदाय तैः त्यक्तः न अर्थ-कोविदः ।

असिद्ध-अर्थः विशति अन्धम् स्व-धर्म-विमुखः तमः ॥ २४ ॥


तस्मात् लोकम् इम् राजन् स्वप्न-माया-मनो-रथम् ।

वीक्ष्य आयम्य आत्मना आत्मानम् समः शान्तः भव प्रभो ॥ २५ ॥


धृतराष्ट्र उवाच –

यथा वदति कल्याणीम् वाचम् दान-पते भवान् ।

तथा अनया न तृप्यामि मर्त्यः प्राप्य यथा अमृतम् ॥ २६ ॥


तथा अपि सूनृता सौम्य हृदि न स्थीयते चले ।

पुत्र-अनुराग-विषमे विद्युत् सौदामनी यथा ॥ २७ ॥


ईश्वरस्य विधिम् कः नु विधुनोति अन्यथा पुमान् ।

भूमेः भार-अवताराय यः अवतीर्णः यदोह् कुले ॥ २८ ॥


यः दुर्विमर्श-पथया निज-मायया इदम्

सृष्ट्वा गुणान् विभजते तत् अनुप्रविष्टः ।

तस्मै नमः दुरवबोध-विहार-तन्त्र-

संसार-चक्र-गतये परम-ईश्वराय ॥ २९ ॥


श्रीशुक उवाच –

इति अभिप्रेत्य नृपतेः अभिप्रायम् स यादवः ।

सुहृद्‌भिः समनुज्ञातः पुनः यदु-पुरिम् अगात् ॥ ३० ॥


शशंस राम-कृष्णाभ्याम् धृतराष्ट्र-विचेष्टितम् ।

पाण्डवान् प्रति कौरव्य यत्-अर्थम् प्रेषितः स्वयम् ॥ ३१ ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशम-स्कन्धे पूर्वार्धे एकोन-पञ्चाशः अध्यायः ॥

ஸ்கந்தம் 10: அத்யாயம் 48 (குப்ஜயை குமரியாக்கினான் கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குப்ஜயை குமரியாக்கினான் கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 48

श्री शुक उवाच –

अथ विज्ञाय भगवान् सर्व-आत्मा सर्व-दर्शनः ।

सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहम् ययौ ॥ १ ॥


महा-अर्ह-उपस्करैः आढ्यम् काम-उपाय-उपबृंहितम् ।

मुक्ता-दाम-पताकाभिः वितान-शयन-आसनैः ।

धूपैः सुरभिभिः दीपैः स्रक्-गन्धैः अपि मण्डितम् ॥ २ ॥


गृहम् तम् आयान्तम् अवेक्ष्य सा-आसनात् ।

सद्यः समुत्थाय हि जात-सम्भ्रमा ।

यथा उपसङ्गम्य सखीभिः अच्युतम् ।

स-भाजयाम् आस सत्-आसन-आदिभिः ॥ ३ ॥


तथा उद्धवः साधु तया अभिपूजितः ।

न्यषीदत् उर्व्याम् अभिमृश्य च आसनम् ।

कृष्णः अपि तूर्णम् शयनम् महा-धनम् ।

विवेश लोक-आचरित-आनु-व्रतः ॥ ४ ॥


सा मज्जन-आलेप-दुकूल-भूषण ।

स्रक्-गन्ध-ताम्बूल-सुधा-अस्व-आदिभिः ।

प्रसाधित-आत्मा उपससार माधवम् ।

स-व्रीड-लीला-उत्स्मित-विभ्रम-ईक्षितैः ॥ ५ ॥


आहूय कान्ताम् नव-सङ्गम्-अह्रिया ।

वि-शङ्किताम् कङ्कण-भूषिते करे ।

प्रगृह्य शय्याम् अधिवेश्य रामया ।

रेमे अनु-लेप-अर्पण-पुण्य-लेशया ॥ ६ ॥


सा अनङ्ग-तप्त-कुच-उरु-रसः तथा अक्ष्णोः ।

जिघ्रन्ती अनन्त-चरणेन रुजः मृजन्ती ।

दोर्भ्याम् स्तन-अन्तर-गतम् परिरभ्य कान्तम् ।

आनन्द-मूर्तिम् अजहात् अति-दीर्घ-तापम् ॥ ७ ॥


सा एवम् कैवल्य-नाथम् तम् प्राप्य दुःप्राप्यम् ईश्वरम् ।

अङ्ग-राग-अर्पणेन आहो दुर्भगा इदम् अयाचत ॥ ८ ॥


आहोष्यताम् इह प्रेष्ठ दिनानि कतिचित् मया ।

रमस्व न उत्सहे त्यक्तुम् सङ्गम् ते अम्बुज-ईक्षण ॥ ९ ॥


तस्यै काम-वरम् दत्त्वा मानयित्वा च मानदः ।

स-उद्धवेन सर्वेशः स्व-धाम आगमत् अर्चितम् ॥ १० ॥


दुर्लभ-अाराध्यम् समाराध्य विष्णुम् सर्व-ईश्वर-ईश्वरम् ।

यः वृणीते मनः-ग्रह्यम् अ-सत्त्वात् कुमनीषि असौ ॥ ११ ॥


अक्रूर-भवनम् कृष्णः स-हराम-उद्धवः प्रभुः ।

किञ्चित् चिकीर्षयन् प्रागात् अक्रूर-प्रिय-काम्यया ॥ १२ ॥


सः तान् नर-वर-श्रेष्ठान् आरात् वीक्ष्य स्व-बान्धवान् ।

प्रत्युत्थाय प्रमुदितः परिष्वज्य अभ्यनन्दत ॥ १३ ॥


ननाम कृष्णम् रामम् च सः तैः अपि अभिवादितः ।

पूजयाम् आस विधि-वतः कृत-आसन-परिग्रहान् ॥ १४ ॥


पाद-आवनेजन-ईर्-आपः धारयन् शिरसा नृप ।

अर्हणेन अम्बरैः दिव्यैः गन्ध-स्रक्-भूषण-उत्तमैः ॥ १५ ॥


अर्चित्वा शिरसा आनम्य पादौ अङ्क-गतौ मृजन् ।

प्रश्रय-अवनतः अक्रूरः कृष्ण-रामौ अभाषत ॥ १६ ॥


दिष्ट्या पापः हतः कंसः स-अनुगः वाम् इदम् कुलम् ।

भवद्भ्याम् उद्धृतम् कृच्छ्रात् दुरन्तात् च समेधितम् ॥ १७ ॥


युवाम् प्रधान-पुरुषौ जगत्-हेतू जगत्-मयौ ।

भवद्भ्याम् न विना किञ्चित् परम् अस्ति न च अपरम् ॥ १८ ॥


आत्म-सृष्टम् इदम् विश्वम् अन्वाविश्य स्व-शक्तिभिः ।

ईयते बहुधा ब्रह्मन् श्रुत-प्रत्यक्ष-गोचरम् ॥ १९ ॥


यथा हि भूतेषु चर-अचरेषु ।

महि-आदयः योनिषु भान्ति नानाः ।

एवम् भवान् केवल-आत्म-योनि-षु ।

आत्मा आत्म-तन्त्रः बहुधा विभाति ॥ २० ॥


सृजसि अथ लुम्पसि पासि विश्वम्
रजः-तमः-सत्त्व-गुणैः स्व-शक्तिभिः ।
न बध्यसे तत्-गुण-कर्मभिः वा
ज्ञान-आत्मनः ते क्व च बन्ध-हेतुः ॥ २१ ॥


देह-आदि-उपाधेः अनिरूपित-त्वात्
भवः न साक्षात् न भिदा आत्मनः स्यात् ।
अतः न बन्धः तव नैव मोक्षः
स्याताम् निकामः त्वयि नः अविवेकः ॥ २२ ॥


त्वया उदितः अयम् जगतः हिताय
यदा यदा वेद-पथः पुराणः ।
बाध्येत पाखण्ड-पथैः असद्भिः
तदा भवान् सत्त्व-गुणम् बिभर्ति ॥ २३ ॥


सः त्वम् प्रभो अद्य वसुदेव-गृहे अवतीर्णः
स्व-अंशेन भारम् अपनेतुम् इह असि भूमेः ।
अक्षौहिणी-शत-वधेन सुर-इतर-अंश-
राज्ञाम् अमुष्य च कुलस्य यशः वितन्वन् ॥ २४ ॥


अद्य ईश नः वसतयः खलु भू‍रिभागाः
यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः ।
यत्-पाद-शौच-सलिलम् त्रि-जगत् पुनाति
सः त्वम् जगत्-गुरुः अधोक्षज यः प्रविष्टः ॥ २५ ॥


कः पण्डितः त्वत्-अपरम् शरणम् समीयात्
भक्त-प्रियात् ऋत-गिरः सुहृदः कृतज्ञात् ।
सर्वान् ददाति सुहृदः भजतः अभिकामान्
आत्मानम् अपि उपचय-अपचयौ न यस्य ॥ २६ ॥

दिष्ट्या जनार्दन भवन् इह नः प्रतीतः
योगेश्वरैः अपि दुराप-गतिः सुर-ईशैः ।
छिन्धि आशु नः सुत-कलत्र-धन-आप्त-गृह-
देह-आदि-मोह-रशनाम् भवदीय-मायाम् ॥ २७ ॥


श्री शुक उवाच –
इति अर्चितः संस्तुतः च भक्तेन भगवान् हरिः ।
अक्रूरम् सस्मितम् प्राह गीर्भिः सम्मोहयन् इव ॥ २८ ॥


श्री भगवान् उवाच –
त्वम् नः गुरुः पितृव्यः च श्लाघ्यः बन्धुः च नित्यदा ।
वयम् तु रक्ष्याः पोष्याः च अनुकम्प्याः प्रजाः हि वः ॥ २९ ॥


भवद्-विधाः महा-भागाः निषेव्याः अर्ह-सत्तमाः ।
श्रेयः-कामैः नृभिः नित्यं देवाः स्वार्थाः न साधवः ॥ ३० ॥


न हि अमय-यानि तीर्थानि न देवाः मृद्-शिलामयाः ।
ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः ॥ ३१ ॥


सः भवान् सुहृदाम् वै नः श्रेयान् श्रेयः-चिकीर्षया ।
जिज्ञासा-अर्थम् पाण्डवानाम् गच्छस्व त्वम् गजाह्वयम् ॥ ३२ ॥


पितरि उपरते बालाः स-मता्रा सुदुःखिताः ।
आनीताः स्व-पुरम् राज्ञा वसन्ति इति शुश्रुम ॥ ३३ ॥


तेषु राज्ञा अम्बिका-पुत्रः भ्रातृ-पुत्रेषु दीन-धीः ।
समः न वर्तते नूनम् दुःपुत्र- वश-गः अन्ध-दृक् ॥ ३४ ॥


गच्छ जानीहि तत्-वृत्तम् अधुना साधु-असाधु वा ।
विज्ञाय तत् विधास्यामः यथा शम् सुहृदाम् भवेत् ॥ ३५ ॥


इति अक्रूरम् समादिश्य भगवान् हरिः ईश्वरः ।
सङ्कर्षण-उद्धवाभ्याम् वै ततः स्व-भवनम् ययौ ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥