Followers

Search Here...

Sunday, 13 April 2025

ஸ்கந்தம் 10: அத்யாயம் 51 (முசுகுந்தனுக்கு கிருஷ்ண தரிசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

முசுகுந்தனுக்கு கிருஷ்ண தரிசனம்

ஸ்கந்தம் 10: அத்யாயம் 51

श्री शुक उवाच –
तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इव उडुपम् ।
दर्शनीय-तमम् श्यामम् पीत-कौशेय-वाससम् ॥ १ ॥


श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभ-अमुक्त-कन्धरम् ।
पृथु-दीर्घ-चतुर्-बाहुम् नव-कञ्ज-अरुण-ईक्षणम् ॥ २ ॥


नित्य-प्रमुदितम् श्रीमत्-सुकपोलम् शुचि-स्मितम् ।
मुख-अरविन्दम् बिभ्राणम् स्फुरत्-मकर-कुण्डलम् ॥ ३ ॥


वासुदेवः हि अयम् इति पुमान् श्रीवत्स-लाञ्छनः ।
चतुर्-भुजः अरविन्द-आक्षः वन-माल्य-अति-सुन्दरः ॥ ४ ॥


लक्षणैः नारद-प्रोक्तैः न अन्यः भवितुम् अर्हति ।
निरायुधः चलन् पद्भ्याम् योत्स्ये अनेन निरायुधः ॥ ५ ॥


इति निश्चित्य यवनः प्राद्रवन्तम् पराङ्मुखम् ।
अन्वधावत् जिघृक्षुः तम् दुरापम् अपि योगिनाम् ॥ ६ ॥


हस्त-प्राप्तम् इव आत्मानम् हरिणा स पदे पदे ।
नीतः दर्शयता दूरम् यवन-ईशः अद्रि-कन्दरम् ॥ ७ ॥


पलायनम् यदु-कुले जातस्य तव न उचितम् ।
इति क्षिपन् अनुगतः न एनम् प्राप् आहत-अशुभः ॥ ८ ॥


एवम् क्षिप्तः अपि भगवान् प्राविशत् गिरि-कन्दरम् ।
सः अपि प्रविष्टः तत्र अन्यम् शयानम् ददृशे नरम् ॥ ९ ॥


नु असौ दूरम् आनीय शेते माम् इह साधु-वत् ।
इति मत्वा अच्युतम् मूढः तम् पदा समताडयत् ॥ १० ॥


सः उत्थाय चिरम् सुप्तः शनैः उन्मील्य लोचने ।
दिशः विलोकयन् पार्श्वे तम् अद्राक्षीत् अवस्थितम् ॥ ११ ॥


सः तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत ।
देहजेन अग्निना दग्धः भस्मसात् अभवत् क्षणात् ॥ १२ ॥


श्रीराज उवाच –
कः नाम सः पुमान् ब्रह्मन् कस्य किम्-वीर्यः एव च ।
कस्मात् गुहाम् गतः शिष्ये किम् तेजः यवन-अर्दनः ॥ १३ ॥


श्री शुक उवाच –
सः इक्ष्वाकु-कुले जातः मान्धातृ-तनयः महान् ।
मुचुकुन्दः इति ख्यातः ब्रह्मण्यः सत्य-सङ्गरः ॥ १४ ॥


सः याचितः सुर-गणैः इन्द्र-आद्यैः आत्म-रक्षणे ।
असुरेभ्यः परित्रस्तैः तत् रक्षाम् सः अकरोत् चिरम् ॥ १५ ॥


लब्ध्वा गुहम् ते स्वः-पालम् मुचुकुन्दम् अथ अब्रुवन् ।
राजन् विरमताम् कृच्छ्रात् भवान् नः परि-पालनात् ॥ १६ ॥


नर-लोके परित्यज्य राज्यम् निहत-कण्टकम् ।
अस्मान् पालयतः वीर कामाः ते सर्वे उज्झिताः ॥ १७ ॥


सुता महिष्यः भवतः ज्ञातयः अमात्य-मन्त्रिणः ।
प्रजाः च तुल्य-कालीयाः न अधुना सन्ति कालिताः ॥ १८ ॥


कालः बलीयान् बलिनाम् भगवान् ईश्वरः अव्ययः ।
प्रजाः कालयते क्रीडन् पशु-पालः यथा पशून् ॥ १९ ॥


वरम् वृणीष्व भद्रम् ते ऋते कैवल्यम् अद्य नः ।
एकः एव ईश्वरः तस्य भगवान् विष्णुः अव्ययः ॥ २० ॥


एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः ।
अशयिष्ट गुहा-आविष्टः निद्रया देव-दत्तया ॥ २१ ॥


स्वापम् यातम् यः तु मध्ये बोधयेत् त्वाम् अचेतनः ।
सः त्वया दृप्त-मात्रः तु भस्मी-भवतु तत्-क्षणात् ॥ २२ ॥


यवने भस्म-सात् नीते भगवान् सात्वत-ऋषभः ।
आत्मानम् दर्शयामास मुचुकुन्दाय धीमते ॥ २३ ॥


तम् आलोक्य घन-श्यामम् पीत-कौशेय-वाससम् ।
श्रीवत्स-वक्षसम् भ्राजत् कौस्तुभेन विराजितम् ॥ २४ ॥


चतुः-भुजम् रोचमानम् वैजयन्त्या च मालया ।
चारु-प्रसन्न-वदनम् स्फुरत्-मकर-कुण्डलम् ॥ २५ ॥


प्रेक्षणीयम् नृ-लोकस्य स-अनुराग-स्मित-ईक्षणम् ।
अपीच्य-वयसम् मत्त-मृग-इन्द्र-उदार-विक्रमम् ॥ २६ ॥


पर्यपृच्छत् महा-बुद्धिः तेजसा तस्य धर्षितः ।
शङ्कितः शनकैः राजा दुर्धर्षम् इव तेजसा ॥ २७ ॥


श्री-मुचुकुन्द उवाच –
कः भवान् इह सम्प्राप्तः विपिने गिरि-गह्वरे ।
पद्भ्याम् पद्म-पालाशाभ्याम् विचरसि उरु-कण्टके ॥ २८ ॥


किम् स्वित् तेजस्विनाम् तेजः भगवान् वा विभावसुः ।
सूर्यः सोमः महा-इन्द्रः वा लोक-पालः अपरः अपि वा ॥ २९ ॥


मन्ये त्वाम् देव-देवानाम् त्रयाणाम् पुरुष-ऋषभम् ।
यत् बाधसे गुहा-अध्वान्तम् प्रदीपः प्रभया यथा ॥ ३० ॥


शुश्रूषताम् अव्यलीकम् अस्माकम् नर-पुङ्गव ।
स्व-जन्म कर्म गोत्रम् वा कथ्यताम् यदि रोचते ॥ ३१ ॥


वयम् तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः ।
मुचुकुन्दः इति प्रोक्तः यौवनाश्व-आत्मजः प्रभो ॥ ३२ ॥


चिर-प्रजागर-श्रान्तः निद्रया अपहत-इन्द्रियः ।
शये अस्मिन् विजने कामम् केन अपि उत्थापितः अधुना ॥ ३३ ॥


सः अपि भस्मी-कृतः नूनम् आत्मीयेन एव पाप्मना ।
अनन्तरम् भवान् श्रीमान् लक्षितः अमित्र-शातनः ॥ ३४ ॥


तेजसा ते अविषह्येण भूरि द्रष्टुम् न शक्नुमः ।
हत-ओजसा महा-भाग माननीयः असि देहिनाम् ॥ ३५ ॥


एवम् सम्भाषितः राज्ञा भगवान् भूत-भावनः ।प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया ॥ ३६ ॥


श्री-भगवान् उवाच –
जन्म-कर्म-अभिधानानि सन्ति मे अङ्ग सहस्रशः ।
न शक्यन्ते अनुसङ्ख्यातुम् अनन्तत्वात् मया अपि हि ॥ ३७ ॥


क्वचित् रजांसि विममे पार्थिवानि उरु-जन्मभिः ।
गुण-कर्म-अभिधानानि न मे जन्मानि कर्हिचित् ॥ ३८ ॥


काल-त्रय-उपपन्नानि जन्म-कर्माणि मे नृप ।
अनुक्रमन्तः न एव अन्तम् गच्छन्ति परम-ऋषयः ॥ ३९ ॥


तथा अपि अद्यतनानि अङ्ग शृणुष्व गदतः मम ।
विज्ञापितः विरिञ्चेन पुरा अहम् धर्म-गुप्तये ॥
भूमेः भार-आयमानानाम् असुराणाम् क्षयाय च ॥ ४० ॥


अवतीर्णः यदुकुले गृहे आनक-दुन्दुभेः।

वदन्ति वासुदेव इति वसुदेव-सुतम् हि माम्॥ ४१॥


काल-नेमिः हतः कंसः प्रलम्ब-आद्याः च सत्-द्विषः।

अयम् च यवनः दग्धः राजन् ते तिग्म-चक्षुषा॥ ४२॥


सः अहम् तव अनु-ग्रह-अर्थम् गुहाम् एताम् उपागतः।

प्रार्थितः प्रचुरम् पूर्वम् त्वया अहम् भक्त-वत्सलः॥ ४३॥


वरान् वृणीष्व राज-ऋषे सर्वान् कामान् ददामि ते।

माम् प्रसन्नः जनः कश्चित् न भूयः अर्हति शोचितुम्॥ ४४॥


श्री शुक उवाच –

इति उक्तः तम् प्रणम्य आह मुचुकुन्दः मुदान्वितः।

ज्ञात्वा नारायणम् देवं गर्ग-वाक्यम् अनुस्मरन्॥ ४५॥


श्री मुचुकुन्द उवाच –

विमोहितः अयम् जनः ईश मायाया

 त्वदीयया त्वाम् न भजति अनर्थ-दृक्।

सुखाय दुःख-प्रभवेषु सज्जते

 गृहेषु योषित् पुरुषः च वञ्चितः॥ ४६॥


लब्ध्वा जनः दुर्लभम् अत्र मानुषम्

 कथंचित् अव्यङ्गम् अयत्नतः अनघ।

पाद-अरविन्दम् न भजति असत्-मतिः

 गृह-अन्ध-कूपे पतितः यथा पशुः॥ ४७॥


मम एषः कालः अजित निष्फलः गतः

 राज्य-श्रिया उन्नद्ध-मदस्य भूपतेः।

मर्त्य-आत्म-बुद्धेः सुत-दार-कोश-भू-

 षु आसज्जमानस्य दुरन्त-चिन्तया॥ ४८॥


कलेवरे अस्मिन् घट-कुड्य-सन्निभे

 निरूढ-मानः नर-देवः इति अहम्।

वृतः रथ-इभ-अश्व-पदाति-अनीक-पैः

 गाम् पर्यटन् त्वाम् अगणयन् सुदुर्मदः॥ ४९॥


प्रमत्तम् उच्चैः इति कृत्य-चिन्तया

 प्रवृद्ध-लोभम् विषयेषु लालसम्।

त्वम् अप्रमत्तः सहसा अभिपद्यसे

 क्षुल्ल इह आनः अहिः इव आखुम् अन्तकः॥ ५०॥


पुरा रथैः हेम-परिष्कृतैः चरन्

 मतङ्गजैः वा नर-देव-संज्ञितः।

सः एव कालेन दुरत्ययेन ते

 कलेवरः विट्-कृमि-भस्म-संज्ञितः॥ ५१॥


निर्जित्य दिक्-चक्रम् अभूत-विग्रहः

 वर-आसन-स्थः सम-राज-वन्दितः।

गृहेषु मैथुन-सुखेषु योषिताम्

 क्रीडा-मृगः पुरुषः ईश नीयते॥ ५२॥


करोति कर्माणि तपः-सु-निष्ठितः

 निवृत्त-भोगः तत् अपेक्षया ददत्।

पुनः च भूयासम् अहम् स्व-राट् इति

 प्रवृद्ध-तर्षः न सुखाय कल्पते॥ ५३॥


भव-अपवर्गः भ्रमतः यदा भवेत्

 जनस्य तर्हि अच्युत सत्-समागमः।

सत्-सङ्गमः यः हि तदा एव सद्-गतौ

 पर-आवर-ईशे त्वयि जायते मतिः॥ ५४॥


मन्ये मम अनुग्रहः ईश ते कृतः

 राज्य-अनुबन्ध-अपगमः यदृच्छया।

यः प्रार्थ्यते साधुभिः एक-चर्यया

 वनम् विविक्षद्भिः अखण्ड-भूमि-पैः॥ ५५॥


न कामये अन्यम् तव पाद-सेवनात्

 अकिञ्चन-प्रार्थ्य-तमात् वरम् विभो।

आराध्यः कः त्वाम् हि अपवर्गदम् हरे

 वृणीते आर्यः वरम् आत्म-बन्धनम्॥ ५६॥


तस्मात् विसृज्य आशीः ईश सर्वतः

 रजः-तमः-सत्त्व-गुण-अनुबन्धनाः।

निरञ्जनम् निर्गुणम् अद्वयम् परम्

 त्वाम् ज्ञाप्ति-मात्रम् पुरुषम् व्रजामि अहम्॥ ५७॥


चिरम् इह वृजिन-आर्तः तप्यमानः अनुतापैः

 अवितृष-षट्-अमित्रः अलब्ध-शान्तिः कथञ्चित्।

शरणद समुपेतः त्वत्-पद-अब्जम् पर-आत्मन्

 अभयम् अमृतम् अशोकम् पाहि माम् आपन्नम् ईश॥ ५८॥


श्री भगवान् उवाच –

सार्व-भौम महा-राज मतिः ते विमलः ऊर्जिता।

वरैः प्रलोभितस्य अपि न कामैः विहता यतः॥ ५९॥


प्रलोभितः वरैः यत् त्वम् अप्रमादाय विद्धि तत्।

न धीः मयि एक-भक्तानाम् आशीर्भिः भिद्यते क्वचित्॥ ६०॥


युञ्जानानाम् अभक्तानाम् प्राणायाम-आदिभिः मनः।

अक्षीण-वासनम् राजन् दृश्यते पुनः-उत्थितम्॥ ६१ ॥


विचरस्व महीम् कामम् मयि-आवेशित-मानसः।

अस्तु एवम् नित्यदा तुभ्यम् भक्तिः मयि अनपायिनी॥ ६२ ॥


क्षात्र-धर्म-स्थितः जन्तून् न्यवधीः मृगया-आदिभिः।

समाहितः तत्-तपसा जहि अघम् मद्-उपाश्रितः॥ ६३ ॥


जन्मनि अनन्तरे राजन् सर्व-भूत-सुहृत्-तमः।

भूत्वा द्विज-वरः त्वम् वै माम् उपैष्यसि केवलम्॥ ६४ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मुचुकुन्दस्तुतिर्नामैक- पञ्चाशत्तमोऽध्यायः॥ ५१

ஸ்கந்தம் 10: அத்யாயம் 50 (துவாரகை நிர்மாணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

துவாரகை நிர்மாணம்

ஸ்கந்தம் 10: அத்யாயம் 50

श्री शुक उवाच –
अस्तिः प्राप्तिः च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दुःखार्ते ईयतुः स्म पितुः गृहान् ॥ १ ॥


पित्रे मगध-राजाय जरासन्धाय दुःखिते ।
वेदयाम् चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् ॥ २ ॥


सः तत् अप्रियम् आकर्त्य शोक-अमर्ष-युतः नृप ।
अ-यादवीं महीं कर्तुम् चक्रे परमम् उद्यमम् ॥ ३ ॥


अक्षौहिणीभिः विंशत्या तिसृभिः च अपि संवृतः ।
यदु-राजधानीम् मथुराम् न्यरुणत् सर्वतः दिशम् ॥ ४ ॥


निरीक्ष्य तत् बलम् कृष्णः उद्वेलम् इव सागरम् ।
स्व-पुरम् तेन संरुद्धम् स्व-जनम् च भय-आकुलम् ॥ ५ ॥


चिन्तयामास भगवान् हरिः कारण-मानुषः ।
तत् देश-काल-अनुगुणम् स्व-अवतार-प्रयोजनम् ॥ ६ ॥


हनिष्यामि बलम् हि एतत् भुवि भारम् समाहितम् ।
मागधेन समानीतम् वश्यानाम् सर्व-भूभुजाम् ॥ ७ ॥


अक्षौहिणीभिः सङ्ख्यातम् भट-अश्व-रथ-कुञ्जरैः ।
मागधः तु न हन्तव्यः भूयः कर्ता बल-उद्यमम् ॥ ८ ॥


एतत् अर्थः अवतारः अयम् भू-भार-हरणाय मे ।
संरक्षणाय साधूनाम् कृतः अन्येषाम् वधाय च ॥ ९ ॥


अन्यः अपि धर्म-रक्षायै देहः संभ्रियते मया ।
विरामाय अपि अधर्मस्य काले प्रभवतः क्वचित् ॥ १० ॥


एवम् ध्यायति गोविन्दे आकाशात् सूर्य-वर्चसौ ।
रथौ उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ ॥ ११ ॥


आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथ अब्रवीत् ॥ १२ ॥


पश्य आर्य व्यसनम् प्राप्तम् यदूनाम् त्वावताम् प्रभो ।
एष ते रथः आयातः दयितानि आयुधानि च ॥ १३ ॥


यानम् आस्थाय जहि एतत् व्यसनात् स्वान् समुद्धर ।
एतत् अर्थम् हि नौ जन्म साधूनाम् ईश शर्म-कृत् ॥ १४ ॥


त्रयो-विंशति-अनीक-आख्यम् भूमेः भारम् अपाकुरु ।
एवम् सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥ १५ ॥


निर्जग्मतुः स्व-आयुध-आढ्यौ बलेन अल्पीयसा आवृतौ ।
शङ्खम् दध्मौ विनिर्गत्य हरिः दारुक-सारथिः ॥ १६ ॥


ततः अभूत् पर-सैन्यानाम् हृदि वित्रास-वेपथुः ।
तौ अवाह मागधः वीक्ष्य हे कृष्ण पुरुष-अधम ॥ १७ ॥


न त्वया योद्धुम् इच्छामि बालेन एकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन् ॥ १८ ॥


तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह ।
हित्वा वा मच्छरैः छिन्नम् देहम् स्वः याहि माम् जहि ॥ १९ ॥


श्रीभगवान् उवाच –
न वै शूराः विकत्थन्ते दर्शयन्ति एव पौरुषम् ।
न गृह्णीमः वचः राजन् आतुरस्य मुमूर्षतः ॥ २० ॥


श्री शुक उवाच –
जरासुतः तौ अभिसृत्य माधवौ
महाबल-ओघेन बलीयसा आवृणोत् ।
ससैन्य-यान-ध्वज-वाजि-सारथी
सूर्य-अनलौ वायुः इव अभ्र-रेणुभिः ॥ २१ ॥


सुपर्ण-ताल-ध्वज-चिह्नितौ रथौ
वलक्षयन्त्यः हरि-रामयोः मृधे ।
स्त्रियः पुर-आट्टालक-हर्म्य-गोपुरम्
समाश्रिताः सम्मुमुहुः शुच्-आर्दिताः ॥ २२ ॥


हरिः पर-अनीक-पयः-मुचाम् मुहुः
शिलीमुख-आत्युल्बण-वर्ष-पीडितम् ।
स्वसैन्यम् आलोक्य सुर-असुर-अर्चितम्
व्यस्फूर्जयत् शार्ङ्ग-शर-असन-उत्तमम् ॥ २३ ॥


गृह्णन् निषङ्गात् अथ सन्दधत् शरान्
विकृष्य मुञ्चन् शित-बाण-पूगान् ।
निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन्
निरन्तरम् यद्वद् अलात-चक्रम् ॥ २४ ॥


निर्भिन्न-कुम्भाः करिणः निपेतुः
अनेकशः अश्वाः शर-वृक्ण-कन्धराः ।
रथाः हत-अश्व-ध्वज-सूत-नायकाः
पदायताः छिन्न-भुज-उरु-कन्धराः ॥ २५ ॥


सञ्छिद्यमान-द्विप-देह-वाजिनाम्
अङ्ग-प्रसूताः शतशः असृक्-आपगाः ।
भुज-आहयः पुरुष-शीर्ष-कच्छपाः
हत-द्विप-अद्वीप-हय ग्रह-आकुलाः ॥ २६ ॥


कर-ऊरु-मीना नर-केश-शैवला
धनुष्-तरङ्ग-आयुध-गुल्म-सङ्कुलाः ।
अच्छूरिका-आवर्त-भयानकाः महा-
मणि-प्रवेका-आभरण-अश्म-शर्कराः ॥ २७ ॥


प्रवर्तिता भीरु-भय-आवहाः मृधे
मनस्विनाम् हर्षकरीः परस्परम् ।
विनिघ्नत् आरिन् मुसलेन दुर्मदान्
सङ्कर्षणेन अपरिमेय-तेजसा ॥ २८ ॥


बलम् तत् अङ्ग-अर्णव-दुर्ग-भैरवम्
दुरन्त-पारम् मगध-इन्द्र-पालितम् ।
क्षयम् प्रणीतम् वसुदेव-पुत्रयोः
विक्रीडितम् तत् जगद्-ईशयोः परम् ॥ २९ ॥


स्थिति-उद्भव-अन्तम् भुवन-त्रयस्य यः
समीहिते अनन्त-गुणः स्व-लीलया ।
न तस्य चित्रम् पर-पक्ष-निग्रहः
तथा अपि मर्त्य-अनुविधस्य वर्ण्यते ॥ ३० ॥


जग्राह विरथम् रामः जरासन्धम् महा-बलम् ।
हत-अनीक-अवशिष्ट-आसुम् सिंहः सिंहम् इव ओजसा ॥ ३१ ॥


बध्यमानम् हत-अरातिम् पाशैः वारुण-मानुषैः ।
वारयामास गोविन्दः तेन कार्य-चिकीर्षया ॥ ३२ ॥


सः मुक्तः लोक-नाथाभ्याम् व्रीडितः वीर-सम्मतः ।
तपसे कृत-सङ्कल्पः वारितः पथि राजभिः ॥ ३३ ॥


वाक्यैः पवित्र-अर्थ-पदैः नयनैः प्राकृतैः अपि ।
स्व-कर्म-बन्ध-प्राप्तः अयम् यदुभिः ते पराभवः ॥ ३४ ॥


हतेषु सर्व-अनीकेषु नृपः बार्हद्रथः तदा ।
उपेक्षितः भगवता मगधान् दुर्मनाः ययौ ॥ ३५ ॥


मुकुन्दः अपि अक्षत-बलः निस्तीर्ण-अरि-बल-अर्णवः ।
विकीर्यमाणः कुसुमैः त्रिदशैः अनुमोदितः ॥ ३६ ॥


माथुरैः उपसङ्गम्य विज्वरैः मुदित-आत्मभिः ।
उपगीयमान-विजयः सूत-मागध-वन्दिभिः ॥ ३७ ॥


शङ्ख-दुन्दुभयः नेदुः भेरी-तूर्याणि अनेकशः ।
वीणा-वॆणु-मृदङ्गानि पुरम् प्रविशति प्रभौ ॥ ३८ ॥


सिक्त-मार्गाम् हृष्ट-जनाम् पताकाभिः अलङ्कृताम् ।
निर्घुष्टाम् ब्रह्म-घोषेण कौतुक-आबद्ध-तोरणाम् ॥ ३९ ॥


निचीयमानः नारीभिः माल्य-दधि-अक्षता-अङ्कुरैः ।
निरीक्ष्यमाणः स-स्नेहम् प्रीति-उत्कलित-लोचनैः ॥ ४० ॥


आयोधनगतं वित्तम् अनन्तम् वीर-भूषणम्।
यदु-राजाय तत् सर्वम् आहृतम् प्रादिशत् प्रभुः॥ ४१॥


एवम् सप्तदश-कृत्वः तावत् अक्षौहिणी-बलः।
युयुधे मागधः राजा यदुभिः कृष्ण-पालितैः॥ ४२॥


अक्षिण्वन् तत् बलम् सर्वम् वृष्णयः कृष्ण-तेजसा।
हतेषु स्वेषु अनीकेषु त्यक्तः अयात् अरिभिः नृपः॥ ४३॥


अष्टादशम् सङ्ग्रामे आगामिनि तत् अन्तराः।
नारद-प्रेषितः वीरः यवनः प्रत्यदृश्यत॥ ४४॥


रुरोध मथुराम् एत्य तिसृभिः म्लेच्छ-कोटिभिः।
नृ-लोके च अप्रतिद्वन्द्वः वृष्णीन् श्रुत्वा आत्म-सम्मितान्॥ ४५॥


तम् दृष्ट्वा अचिन्तयत् कृष्णः सङ्कर्षण-सहायवान्।
अहो यदूनाम् वृजिनम् प्राप्तम् हि उभयतः महत्॥ ४६॥


यवनः अयम् निरुन्धे अस्मान् अद्य तावत् महा-बलः।
मागधः अपि अद्य वा श्वः वा परश्वः वा आगमिष्यति॥ ४७॥


आवयोः युध्यतोः अस्य यदि आगन्ता जरासुतः।
बन्धून् वधिष्यति अथ वा नेष्यते स्वपुरम् बली॥ ४८॥


तस्मात् अद्य विधास्यामः दुर्गम् द्विपद-दुर्गम्।
तत्र ज्ञातीन् समाधाय यवनम् घातयामहे॥ ४९॥


इति सम्मन्त्र्य भगवान् दुर्गम् द्वादश-योजनम्।
अन्तः-समुद्रे नगरम् कृत्स्नात् भुतम् अचीकरत्॥ ५०॥


दृश्यते यत्र हि त्वाष्ट्रम् विज्ञानम् शिल्प-नैपुणम्।
रथ्या-चत्वर-वीथीभिः यथा वास्तु विनिर्मितम्॥ ५१॥


सुर-द्रुम-लता-उद्यान विचित्र-उपवन-अन्वितम्।
हेम-शृङ्गैः दिवि-स्पृग्भिः स्फटिक-अट्टाल-गोपुरैः॥ ५२॥


राजत-आरकुटैः कोष्ठैः हेम-कुम्भैः अलङ्कृतैः।
रत्न-कूटैः गृहैः हेमैः महा-मरकत-स्थलैः॥ ५३॥


वास्तु-ईश्वतीनाम् च गृहैः वल्लभीभिः च निर्मितम्।
चातुर्वर्ण्य-जन-आकीर्णम् यदु-देव-गृह-उल्लसत्॥ ५४॥


सुधर्माम् पारिजातम् च महेन्द्रः प्राहिणोत् हरेः।
यत्र च अवस्थितः मर्त्यः मर्त्य-धर्मैः न युज्यते॥ ५५॥


श्याम-एक-कर्णान् वरुणः हयान् शुक्लान् मनोजवान्।
अष्टौ निधि-पतिः कोशान् लोक-पालः निज-उदयान्॥ ५६॥


यत् यत् भगवता दत्तम् आधिपत्यं स्व-सिद्धये।
सर्वम् प्रत्यर्पयामासुः हरेः भूमि-गते नृप॥ ५७॥


तत्र योग-प्रभावेण नीत्वा सर्व-जनम् हरिः।
प्रजापालेन रामेण कृष्णः समनुमन्त्रितः।
निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः॥ ५८॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः॥ ५० ॥