Followers

Search Here...

Tuesday, 15 April 2025

ஸ்கந்தம் 10: அத்யாயம் 53 (கண்ணன் ருக்மிணியை தூக்கி சென்றான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன் ருக்மிணியை தூக்கி சென்றான்

ஸ்கந்தம் 10: அத்யாயம் 53

श्री-शुकः उवाच –
वैदर्भ्याः सः तु सन्देशम् निशम्य यदु-नन्दनः।
प्रगृह्य पाणिना पाणिम् प्रहसन् इदम् अब्रवीत्॥ १ ॥

श्री-भगवान् उवाच –
तथा अहम् अपि तत्-चित्तः निद्राम् च न लभे निशि।
वेद अहम् रुक्मिणा द्वेषात् मम उद्वाहः निवारितः॥ २ ॥

ताम् आनयिष्य उन्मथ्य राजन्‍य-अपसदान् मृधे।
मत्-पराम् अनवद्या-अङ्गीम् मेधसः अग्नि-शिखाम् इव॥ ३ ॥

श्री-शुकः उवाच –
उद्वाह-ऋक्षम् च विज्ञाय रुक्मिण्या मधु-सूदनः।
रथः संयुज्यताम् आशु "दारुक" इति आह सारथिम्॥ ४ ॥

सः च अश्वैः शैब्य-सुग्रीव-मेघ-पुष्प-बलाहकैः।
युक्तम् रथम् उपानीय तस्थौ प्राञ्जलिः अग्रतः॥ ५ ॥

आरुह्य स्यन्दनम् शौरिः द्विजम् आरोप्य तूर्ण-गैः।
आनर्तात् एक-रात्रेण विदर्भान् अगमत् धयैः॥ ६ ॥

राजा सः कुण्डिन-पतिः पुत्र-स्नेह-वशं गतः।
शिशुपालाय स्वाम् कन्याम् दास्यन् कर्माणि अकारयत्॥ ७ ॥

पुरम् सम्मृष्ट-संसिक्त मार्ग-रथ्या-चतुष्पथम्।
चित्र-ध्वज-पताका-भिः तोरणैः समलङ्कृतम्॥ ८ ॥

स्रक्-गन्ध-माल्य-आभरणैः विरजः अम्बर-भूषितैः।
जुष्टम् स्त्री-पुरुषैः श्रीमत्-गृहैः अगुरु-धूपितैः॥ ९ ॥

पितॄन् देवान् समभ्यर्च्य विप्रान् च विधिवत् नृप।
भोजयित्वा यथा-न्यायम् वाचयामास मङ्गलम्॥ १० ॥

सुस्नाताम् सुदतीम् कन्याम् कृत-कौतुक-मङ्गलाम्।
आहत-अंशुक-युग्मेन भूषिताम् भूषण-उत्तमैः॥ ११ ॥

चक्रुः साम-ऋक्-यजुः-मन्त्रैः वध्वाः रक्षाम् द्विज-उत्तमाः।
पुरोहितः अथर्व-वित् वै जुहाव ग्रह-शान्तये॥ १२ ॥

हिरण्य-रूप्य-वासाांसि तिलान् च गुड-मिश्रितान्।
प्रादात् धेनूः च विप्रेभ्यः राजा विधि-विदाम् वरः॥ १३ ॥

एवम् चेदि-पतिः राजा दम-घोषः सुताय वै।
कारयामास मन्त्र-ज्ञैः सर्वम् अभ्युदय-उचितम्॥ १४ ॥

मत-उद्भिः गज-अनीकैः स्यन्दनैः हेमा-मालिभिः।
पत्त्य-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्डिनम् ययौ॥ १५ ॥

तम् वै विदर्भ-अधिपतिः समभ्येत्य अभिपूज्य च।
निवेशयामास मुदा कल्पितानि निवेशने॥ १६ ॥

तत्र शाल्वः जरासन्धः दन्तवक्त्रः विदूरथः।
आजग्मुः च ऐद्य-पक्षीयाः पौण्ड्रक-आद्याः सहस्रशः॥ १७ ॥

कृष्ण-राम-द्विषः यत्ताः कन्याम् चैद्याय साधितुम्।
यदि आगत्य हरेत् कृष्णः राम-आद्यैः यदुभिः वृत्तः॥ १८ ॥

योत्स्यामः संहताः तेन इति निश्चित-मानसाः।
आजग्मुः भूभुजः सर्वे समग्र-बल-वाहनाः॥ १९ ॥

श्रुत्वा एतत् भगवान् रामः विपक्षीय-नृप-उद्यमम्।
कृष्णम् च एकम् गतम् हर्तुम् कन्याम् कलह-शङ्कितः॥ २० ॥

बलेन महता सार्धम् भ्रातृ-स्नेह-परिप्लुतः।
त्वरितः कुण्डिनम् प्रागात् गज-अश्व-रथ-पत्तिभिः॥ २१ ॥

भीष्मक-कन्या वर-आरोहा काङ्क्षन्ती आगमनम् हरेः।
प्रत्यापत्तिम् अपश्यन्ती द्विजस्य अचिन्तयत् तदा॥ २२ ॥

अहो त्रियाम-अन्तरितः उद्वाहः मे अल्प-अराधसः।
आगच्छति अरविन्द-आक्षः न अहम् वेद्मि अत्र कारणम्।
सः अपि न आवर्तते अद्य अपि मत्-सन्देश-हरः द्विजः॥ २३ ॥

अपि मयि अनवद्य-आत्मा दृष्ट्वा किञ्चित् जुगुप्सितम्।
मत्-पाणि-ग्रहणे नूनम् न आयाति हि कृत-उद्यतः॥ २४ ॥

दुर्भगायाः न मे धाता न अनुकूलः महा-ईश्वरः।
देवी वा विमुखा गौरी रुद्राणी गिरिजा सती॥ २५ ॥

एवम् चिन्तयती बाला गोविन्द-हृत-मानसा।
न्यमीलयत् काल-ज्ञा नेत्रे च अश्रु-कलाकुले॥ २६ ॥

एवम् वध्वाः प्रतीक्षन्त्याः गोविन्द-आगमनम् नृप।
वामः ऊरुः भुजः नेत्रम् अस्फुरन् प्रिय-भाषिणः॥ २७ ॥

अथ कृष्ण-विनिर्दिष्टः सः एव द्विज-सत्तमः।
अन्तःपुर-चरीम् देवīm राज-पुत्रीम् ददर्श ह॥ २८ ॥

सा तम् प्रहृष्ट-वदनम् अव्यग्र-आत्म-गतिम् सती।
आलक्ष्य लक्षण-अभिज्ञा समपृच्छत् शुचि-स्मिता॥ २९ ॥

तस्यै आवेदयत् प्राप्तम् शशंस यदु-नन्दनम्।
उक्तम् च सत्य-वचनम् आत्म-उपनयनम् प्रति॥ ३० ॥

तम् आगतम् समाज्ञाय वैदर्भी हृष्ट-मानसा।
पश्यन्ती ब्राह्मणाय प्रियम् अन्यत् अननाम सा॥ ३१ ॥

प्राप्तौ श्रुत्वा स्व-दुहितुः उद्वाह-प्रेक्षण-उत्सुकौ।
अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः॥ ३२ ॥

मधुपर्कम् उपानीय वासांसि विरजांसि सः।
उपायनानि अभीष्टानि विधिवत् समपूजयत्॥ ३३ ॥

तयोः निवेशनम् श्रीमत् उपाकल्प्य महा-मतिः।
स-सैन्ययोः स-अनुगयोः आतिथ्यम् विदधे यथा॥ ३४ ॥

एवम् राज्ञाम् समेतानाम् यथा-वीर्यम् यथा-आयः।
यथा-बलम् यथा-वित्तम् सर्वैः कामैः समर्हयत्॥ ३५ ॥

कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः।
आगत्य नेत्र-अञ्जलिभिः अपु: तत्-मुख-पङ्कजम्॥ ३६ ॥

अस्यै एव भार्या भवितुम् रुक्मिण्या अर्हति न अपरा।
असौ अपि अनवद्य-आत्मा भैष्म्याः समुचितः पतिः॥ ३७ ॥

किञ्चित् सु-चरितम् यत् नः तेन तुष्टः त्रि-लोक-कृत्।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः॥ ३८ ॥

एवम् प्रेम-कलाभद्धाः वदन्ति स्म पुर-औकसः।
कन्या च अन्तःपुरात् प्रागात् भटैः गुप्ता अम्बिका-आलयम्॥ ३९ ॥

पद्भ्याम् विनिर्ययौ द्रष्टुम् भवान्याः पाद-पल्लवम्।
सा च अनुध्यायती सम्यक् मुकुन्द-चरण-अम्बुजम्॥ ४० ॥

यतवाक्-मातृभिः सार्धं सखीभिः परिवारिता।
गुप्ता राज-भटैः शूरैः सन्नद्धैः उद्यत-आयुधैः।
मृदङ्ग-शङ्ख-पणवाः तूर्य-भेर्यः च जघ्निरे॥ ४१ ॥

नानोपहार-बलिभिः वार-मुख्याः सहस्रशः।
स्रक्-गन्ध-वस्त्र-आभरणैः द्विज-पत्न्यः स्वलङ्कृताः॥ ४२ ॥

गायन्त्यः च स्तुवन्त्यः च गायका वाद्य-वादकाः।
परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः॥ ४३ ॥

आसाद्य देवी-सदनम् धौत-पाद-कर-अम्बुजा।
उपस्पृश्य शुचिः शान्ता प्रविवेश अम्बिका-अन्तिकम्॥ ४४ ॥

तां वै प्रवयसः बालाम् विधि-ज्ञाः विप्र-योषितः।
भवानीम् वन्दयाम् चक्रुः भव-पत्नीं भवान्विताम्॥ ४५ ॥

नमस्ये त्वाम् अम्बिके अभिक्ष्णम् स्व-सन्तान-युतां शिवाम्।
भूयात् पतिः मे भगवान् कृष्णः तत् अनु-मोदताम्॥ ४६ ॥

अद्भिः-गन्ध-क्षतैः-धूपैः वासः-स्रक्-माल्य-भूषणैः।
नानोपहार-बलिभिः प्रदीप-आवलिभिः पृथक्॥ ४७ ॥

विप्र-स्त्रियः पतिमतीः तथा ताः समपूजयत्।
**लवण-आपूप-ताम्बूल-कण्ठ-सूत्र-फल-इक्षुभिः॥ ४८ ॥

तस्यै स्त्रियः ताः प्रददुः शेषाम् युयुजुः आशिषः।
ताभ्यः देव्यै नमः चक्रे शेषां च जगृहे वधूः॥ ४९ ॥

मुनि-व्रतम् अथ त्यक्त्वा निष्क्रान्ता अम्बिका-गृहात्।
प्रगृह्य पाणिना भृत्यां रत्न-मुद्रा-उपशोभिना॥ ५० ॥

तां देव-मायाम् इव वीर-मोहिनीम्
सु-मध्यमाम् कुण्डल-मण्डित-आननाम्।
श्यामाम् नितम्ब-आर्पित-रत्न-मेखलाम्
व्यञ्जत्-स्तनीम् कुन्तल-शङ्कित-ईक्षणाम्॥ ५१ ॥

शुचि-स्मिताम् बिम्ब-फल-आधर-द्युति
शोणायमान-द्विज-कुन्द-कुड्मलाम्।
पदा
चलन्तीम् कल-हंस-गामिनीम्
**शिञ्जत्-कल-नूपुर-धाम-शोभिना॥ ५२ ॥

विलोक्य वीराः मुमुहुः समागताः
यशस्विनः तत्-कृत-हृच्छय-आर्दिताः॥

याम् वीक्ष्य ते नृपतयः तत्-उदार-हास
व्रीडा-आवलोक-हृत-चेतसः उज्झित-अस्त्राः।
पेतुः क्षितौ गज-रथ-अश्व-गताः विमूढाः
यात्रा-च्छलेन हरये अर्पयतीं स्व-शोभाम्॥ ५३ ॥

सा एवम् शनैः चलयती चल-पद्म-कोशौ
प्राप्तिम् तदा भगवतः प्रसमीक्षमाणा।
उत्सार्य वाम-कर-जैः अलकान् अपङ्गैः
प्राप्तान् ह्रियै ईक्षत नृपान् ददृशे अच्युतम् सा॥ ५४ ॥

तां राज-कन्याम् रथम् आरुरुक्षतीम्
जहार कृष्णः द्विषताम् समीक्षताम्।
रथम् समारोप्य सुपर्ण-लक्षणम्
राजन्य-चक्रम् परिभूय माधवः॥ ५५ ॥

ततः ययौ राम-पुरोगमैः शनैः
सृगाल-मध्यात् इव भाग-हृत् हरिः॥ ५६ ॥

तम् मानिनः स्व-अभिभवम् यशः-क्षयम्
परे जरासन्ध-वशाः न सेहिरे।
अहो धिक् अस्मान् यशः आत्त-धन्वनाम्
गोपैः हृतम् केसरिणाम् मृगैः इव॥ ५७ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३


Sunday, 13 April 2025

ஸ்கந்தம் 10: அத்யாயம் 52 (ருக்மிணி கண்ணனுக்கு எழுதிய கடிதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கண்ணனுக்கு எழுதிய கடிதம்

ஸ்கந்தம் 10: அத்யாயம் 52

श्री-शुकः उवाच –

इत्थम् सः अनुग्रहीतः अङ्ग कृष्णेन इक्ष्वाकु-नन्दनः।

तम् परिक्रम्य सन्नम्य निःचक्राम गुहा-मुखात्॥ १ ॥


सः वीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुत्-वनस्पतीन्।

मत्वा कलि-युगम् प्राप्तम् जगाम दिशम् उत्तराम्॥ २ ॥


तपः-श्रद्धा-युतः धीरो निःसङ्गः मुक्त-संशयः।

समाधाय मनः कृष्णे प्राविशत् गन्ध-मादनम्॥ ३ ॥


बदर्याश्रमम् आसाद्य नर-नारायण-आलयम्।

सर्व-द्वन्द्व-सहः शान्तः तपसा आराधयत् हरिम्॥ ४ ॥


भगवान् पुनः-आव्रज्य पुरीम् यवन-वेष्टिताम्।

हत्वा म्लेच्छ-बलम् निन्ये तदीयम् द्वारकाम् धनम्॥ ५ ॥


नीयमाने धने गोभिः नृभिः च अच्युत-चोदितैः।

आजगाम जरासन्धः त्रयो-विंशति-अनीकपः॥ ६ ॥


विलोक्य वेग-रभसम् रिपु-सैन्यस्य माधवौ।

मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुः द्रुतम्॥ ७ ॥


विहाय वित्तम् प्रचुरम् अभीतौ भीरु-भीत-वत्।

पद्भ्याम् पद्म-पलाशाभ्याम् चेलतुः बहु-योजनम्॥ ८ ॥


पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली।

अन्वधावत् रथ-अनीकैः ईशयोः अप्रमाण-वित्॥ ९ ॥


प्रद्रुत्य दूरम् संश्रान्तौ तुङ्गम् आरुहताम् गिरिम्।

प्रवर्षण-आख्यम् भगवान् नित्यदा यत्र वर्षति॥ १० ॥


गिरौ निलीनौ अविज्ञाय न अधिगम्य पदम् नृप।

ददाह गिरिम् एधोभिः समन्तात् अग्निम् उत्सृजन्॥ ११ ॥


ततः उत्पत्य तरसा दह्यमान-तटात् उभौ।

दश-एक-योजनात् तुङ्गात् निपेततुः अधः भुवि॥ १२ ॥


अलक्ष्य-माणौ रिपुणा स-अनुगेन यदु-उत्तमौ।

स्व-पुरम् पुनः-आयातौ समुद्र-परिखाम् नृप॥ १३ ॥


सः अपि दग्धौ इति मृषा मन्वानः बल-केशवौ।

बलम् आकृष्य सुमहम् मगधान् मागधः ययौ॥ १४ ॥


आनर्त-अधिपतिः श्रीमन् रैवतः रैवतीम् सुताम्।

ब्रह्मणा चोदितः प्रादात् बलाय इति पुरा-उदितम्॥ १५ ॥


भगवान् अपि गोविन्दः उपयेमे कुरु-उद्वह।

वैदर्भीम् भीष्मक-सुताम् श्रियः मात्राम् स्वयंवरे॥ १६ ॥


प्रमथ्य तरसा राज्ञः शाल्व-आदीन् च ऐद्य-पक्षगान्।

पश्यताम् सर्व-लोकानाम् तार्क्ष्य-पुत्रः सुधाम् इव॥ १७ ॥


श्री-राजा उवाच –

भगवान् भीष्मक-सुताम् रुक्मिणीम् रुचिर-आननाम्।

राक्षसेन विधानेन उपयेमे इति श्रुतम्॥ १८ ॥


भगवन् श्रोतुम् इच्छामि कृष्णस्य अमित-तेजसः।

यथा मागध-शाल्व-आदीन् जित्वा कन्याम् उपाहरत्॥ १९ ॥


ब्रह्मन् कृष्ण-कथाः पुण्याः माध्वीः लोक-मल-अपहाः।

कः नु तृप्येत शृण्वानः श्रुत-ज्ञः नित्य-नूतनाः॥ २० ॥


श्री शुक उवाच

राजा-आसीत् भीष्मकः नाम विदर्भाधिपतिर्महान्।

तस्य पञ्च-आभवन् पुत्राः कन्या-एका च वर-अनना ॥ २१


रुक्म्यग्रजः रुक्मरथः रुक्मबाहुः अनन्तरः।

रुक्मकेशः रुक्ममाली रुक्मिण्याः एषां स्वसा सती ॥ २२


सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः।

गृह-आगतानि गीयमानास्तं मेने सदृशं पतिम् ॥ २३


तां बुद्धि-लक्षण-औदार्य रूप-शील-गुण-आश्रयाम्।

कृष्णः च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ २४


बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप।

ततो निवार्य कृष्णद्विड् रुक्मी चैद्यम् अन्यम् अन्यत् ॥ २५


तदवेत्या-आसितापाङ्गी वैदर्भी दुर्मना भृशम्।

विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद्ध्रुतम् ॥ २६


द्वारकाम् स समभ्येत्य प्रतीहारैः प्रवेशितः।

अपश्यदाद्यं पुरुषं आसीनं काञ्चनासनात् ॥ २७


दृष्ट्वा ब्रह्मण्यदेवः तम् अवरुह्य निजासनात्।

उपवेश्यार्हयां चक्रे यथा-आत्मानं दिवौकसः ॥ २८


तम् भुक्तवंतं विश्रान्तम् उपगम्य सतां गतिः।

पाणिनाभिमृशन् पादौव्यग्रस्तम् अपृच्छत ॥ २९


कच्चिद् द्विजवर-श्रेष्ठ धर्मस्ते वृद्ध-सम्मतः।

वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा ॥ ३०


सन्तुष्टो यः-र्हि वर्तेत ब्राह्मणो येन केनचित्।

अहीयमानः स्वाद्धर्मात् स ह्यस्याखिल-कामधुक् ॥ ३१


असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः।

अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः ॥ ३२


विप्रान् स्वलाभ-सन्तुष्टान् साधून् भूत-सुहृत्-तान्।

निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥ ३३


कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः।

सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ ३४


यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया।

सर्वं नो ब्रूह्यगुह्यं चेत् किं कार्यं करवाम ते ॥ ३५


एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना।

लीलागृहीत-देहेन तस्मै सर्वमवर्णयत् ॥ ३६


श्री रुक्मिण्युवाच

श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते

निर्विश्य कर्णविवरैः हरतोऽङ्गतापम्।

रूपं दृशां दृशिमताम् अखिलार्थलाभं

त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३७


का त्वा मुकुन्द महती कुल-शील-रूप

विद्या-वयो-ध्रविण-धाम-भिरात्मतुल्यम्।

धीरा पतिं कुलवती न वृणीत कन्या

काले नृसिंह नर-लोक-मनोऽभिरामम् ॥ ३८


तन्मे भवान् खलु वृतः पतिरङ्ग जायाम्

आत्मार्पितश्च भवतोऽत्र विभो विधेहि।

मा वीर-भागमभिमर्शतु चैद्य आराद्

गोमायु-वन्मृग-पतेर्बलिमम्बुजाक्ष ॥ ३९


पूर्तेष्टदत्त-नियम-व्रत-देवविप्र

गुरु-वर्चनादिभिरलं भगवान् परेशः।

आराधितो यदि गदा-अग्रज एत्य पाणिं

गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥ ४०


श्वो भाविनि त्वमजितोद्वहने विदर्भान्

गुप्तः समेत्य पृतनापतिभिः परीतः।

निर्मथ्य चैद्यमगधेन्द्र बलं प्रसह्य

मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्॥ ४१


अन्तःपुरान्तरचरी मनिहत्य बन्धून्

त्वामुद्वहे कथमिति प्रवदाम्युपायम्।

पूर्वेद्युरस्ति महती कुलदेवयात्रा

यस्यां बहिर्नववधू: गिरिजामुपेयात् ॥ ४२


यस्य आङ्घ्रि पङ्कज रजः  स्नपनं महान्तो

वाञ्छन्ति उमापतिरिव आत्मतमोऽपहत्यै।

यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं

जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात्॥ ४३


ब्राह्मण उवाच

इत्येते गुह्यसन्देशा यदुदेव मया आहृताः ।

विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम्॥ ४४


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहप्रस्तावे द्विपञ्चाशत्तमोऽध्यायः ॥ ५२