Followers

Search Here...

Tuesday, 22 April 2025

ஸ்கந்தம் 10: அத்யாயம் 56 (ச்யமந்தக மணி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ச்யமந்தக மணி

ஸ்கந்தம் 10: அத்யாயம் 56

श्री-शुकः उवाच –

सत्राजितः स्व-तनयाम् कृष्णाय कृत-किल्बिषः।
स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान्॥ १ ॥

श्री-राजा उवाच –
सत्राजितः किम् अकरोत् ब्रह्मन् कृष्णस्य किल्बिषम्।
स्यमन्तकः कुतः तस्य कस्मात् दत्ता सुता हरेः॥ २ ॥

श्री-शुकः उवाच –
आसीत् सत्राजितः सूर्यः भक्तस्य परमः सखा।
प्रीतः तस्मै मणिम् प्रादात् सूर्यः तुष्टः स्यमन्तकम्॥ ३ ॥

सः तम् बिभ्रत् मणिम् कण्ठे भ्राजमानः यथा रविः।
प्रविष्टः द्वारकाम् राजन् तेजसा न उपलक्षितः॥ ४ ॥

तम् विलोक्य जनाः दूरात् तेजसा मुष्ट-दृष्टयः।
दीव्यते अक्षैः भगवते शशंसुः सूर्य-शङ्किताः॥ ५ ॥

नारायण नमस्ते अस्तु शङ्ख-चक्र-गदा-धर।
दामोदर अरविन्दाक्ष गोविन्द यदु-नन्दन॥ ६ ॥

एषः आयाति सविता त्वाम् दिदृक्षुः जगत्-पते।
मुष्णन् गभस्ति-चक्रेण नृणाम् चक्षूंषि तिग्म-गुः॥ ७ ॥

नु अनु विच्छन्ति ते मार्गम् त्रिलोक्याम् विबुध-ऋषभाः।
ज्ञात्वा अद्य गूढम् यदुषु द्रष्टुम् त्वाम् याति अजः प्रभो॥ ८ ॥

श्री-शुकः उवाच –
निशम्य बाल-वचनम् प्रहस्य अम्बुज-लोचनः।
प्राह न असौ रविः देवः सत्राजिन् मणिना ज्वलन्॥ ९ ॥

सत्राजित् स्व-गृहम् श्रीमत् कृत-कौतुक-मङ्गलम्।
प्रविश्य देव-सदने मणिम् विप्रैः न्यवेशयत्॥ १० ॥

दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो।
दुर्भिक्षम् आर्य-अरिष्टानि सर्प-आधि-व्याधयः अशुभाः।
न सन्ति मायिनः तत्र यत्र आस्ते अभ्यर्चितः मणिः॥ ११ ॥

स याचितः मणिम् क्वापि यदु-राजाय शौरिणा।
न एव अर्थ-कामुकः प्रादात् याचन-भङ्गम् अ-तर्कयन्॥ १२ ॥

तम् एका-दा मणिम् कण्ठे प्रतिमुच्य महा-प्रभम्।
प्रसेनः हयम् आरुह्य मृगायाम् व्यचरत् वने॥ १३ ॥

प्रसेनम् सहयम् हत्वा मणिम् आच्छिद्य केशरी।
गिरिम् विशन् जाम्बवता निहतः मणिम् इच्छता॥ १४ ॥

सः अपि चक्रे कुमारस्य मणिम् क्रीडनकम् बिले।
अपश्यन् भ्रातरम् भ्राता सत्राजित् पर्यतप्यत॥ १५ ॥

प्रायः कृष्णेन निहतः मणि-ग्रीवः वनम् गतः।
भ्राता मम इति तत् श्रुत्वा कर्णे कर्णे अ-जपन् जनाः॥ १६ ॥

भगवान् तत् उपश्रुत्य दुर्यशः लिप्तम् आत्मनि।
मार्ष्टुम् प्रसेन-पदविम् अन्वपद्यत नागरैः॥ १७ ॥

हतम् प्रसेनम् अश्वम् च वीक्ष्य केसरिणा वने।
तम् च अद्रि-प्रिष्ठे निहतम् ऋक्षेण ददृशुः जनाः॥ १८ ॥

ऋक्ष-राज-बिलम् भीमम् अन्धेन तमसा आवृतम्।
एकः विवेश भगवान् अवस्थाप्य बहिः प्रजाः॥ १९ ॥

तत्र दृष्ट्वा मणि-प्रेष्ठम् बाल-क्रीडनकम् कृतम्।
हर्तुम् कृत-मतिः तस्मिन् अवतस्थे अर्भक-अन्तिके॥ २० ॥

तम् अपूर्वम् नरम् दृष्ट्वा धात्री चुक्रोश भीतवत्।
तत् श्रुत्वा अभ्यद्रवत् क्रुद्धः जाम्बवान् बलिनाम् वरः॥ २१ ॥

सः वै भगवता तेन युयुधे स्वामिना आत्मनः।
पुरुषम् प्राकृतम् मत्वा कुपितः न अनु-भाव-वित्॥ २२ ॥

द्वन्द्व-युद्धम् सुतुमुलम् उभयोः विजिगीषतोः।
आयुध-आश्म-द्रुमैः दोर्भिः क्रव्य-अर्थे श्येनयोः इव॥ २३ ॥

आसीत् तत् अष्टा-विंश-अहम् इतरेतरम् उष्टिभिः।
वज्र-निष्पेष-परुषैः अविश्रमम् अहः-निशम्॥ २४ ॥

कृष्ण-मुष्टि-विनिष्पात-निष्पिष्ट-अङ्ग-उरु-बन्धनः।
क्षीण-सत्त्वः स्विन्न-गात्रः तम् आह अतीव विस्मितः॥ २५ ॥

जाने त्वाम् सर्व-भूतानाम् प्राण-ओजः सहः बलम्।
विष्णुम् पुराण-पुरुषम् प्रभविष्णुम् अधीश्वरम्॥ २६ ॥

त्वम् हि विश्व-सृजाम् स्रष्टा सृज्यानाम् अपि यत् च सत्।
कालः कलयताम् ईशः पर-आत्मा तथा आत्मनाम्॥ २७ ॥

यस्य ईषत्-उत्कलित-रोष-कटाक्ष-मोक्षैः
वर्त्मा आदिशत् क्षुभित-नक्र-तिमिङ्गलः अब्धिः।
सेतुः कृतः स्व-यशः उज्ज्वलिता च लङ्का
रक्षः-शिरांसि भुवि पेतुः इषु-क्षतानि॥ २८ ॥

इति विज्ञात-विज्ञानम् ऋक्ष-राजानम् अच्युतः।
व्याजहार महाराज भगवान् देवकी-सुतः॥ २९ ॥

अभिमृश्य अरविन्द-आक्षः पाणिना शङ्करेण तम्।
कृपया परया भक्तम् प्रेम-गम्भीरया गिरा॥ ३० ॥

मणि-हेतोः इह प्राप्ताः वयम् ऋक्ष-पते बिलम्।
मिथ्या-अभिशापम् प्रमृजन् आत्मनः मणिना अमुना॥ ३१ ॥

इति उक्तः स्वाम् दुहितरम् कन्याम् जाम्बवतीम् मुदा।
अर्हण-अर्थम् स मणिना कृष्णाय उपजहार ह॥ ३२ ॥

अदृष्ट्वा निर्गमम् शौरेः प्रविष्टस्य बिलम् जनाः।
प्रतीक्ष्य द्वादश-अहानि दुःखिताः स्व-पुरम् ययुः॥ ३३ ॥

निशम्य देवकी देवी रुक्मिण्या अनक-दुन्दुभिः।
सुहृदः ज्ञातयः अशोचन् बिलात् कृष्णम् अनिर्गतम्॥ ३४ ॥

सत्राजितम् शपन्तः ते दुःखिताः द्वारका-उकसः।
उपतस्थुः महा-मायाम् दुर्गाम् कृष्ण-उपलब्धये॥ ३५ ॥

तेषाम् तु देवी-उपस्थानात् प्रत्यादिष्ट-आशिषा स च।
प्रादुर्बभूव सिद्ध-अर्थः स-दारः हर्षयन् हरिः॥ ३६ ॥

उपलभ्य हृषीकेशम् मृतम् पुनर्-इव आगतम्।
सह पत्न्या मणि-ग्रीवम् सर्वे जात-महोत्सवाः॥ ३७ ॥

सत्राजितम् समाहूय सभायाम् राजा-सन्निधौ।
प्राप्तिम् च आख्याय भगवान् मणिम् तस्मै न्यवेदयत्॥ ३८ ॥

सः च अति-व्रीडितः रत्नम् गृहीत्वा अवाङ्मुखः ततः।
अनुतप्यमानः भवनम् अगमत् स्वेन पाप्मना॥ ३९ ॥

सः अनु-ध्यायन् तत् एव अघम् बलवत्-विग्रह-आकुलः।
कथम् मृजामि आत्म-रजः प्रसीदेत् वा अच्युतः कथम्॥ ४० ॥

किं कृत्वा साधु मह्यम् स्यात् न शपेत् वा जनः यथा।
अदीर्घ-दर्शनम् क्षुद्रम् मूढम् द्रविण-लोलुपम्॥ ४१ ॥

दास्ये दुहितरम् तस्मै स्त्री-रत्नम् रत्नम् एव च।
उपायः अयम् समीचीनः तस्य शान्तिः न च अन्यथा॥ ४२ ॥

एवम् व्यवसितः बुद्ध्या सत्राजित् स्व-सुताम् शुभाम्।
मणिम् च स्वयम् उद्यम्य कृष्णाय उपजहार ह॥ ४३ ॥

ताम् सत्यभामाम् भगवान् उपयेमे यथा-विधि।
बहुभिः याचिताम् शील-रूप-औदार्य-गुण-अन्विताम्॥ ४४ ॥

भगवान् आह न मणिम् प्रतीच्छामः वयम् नृप।
तव अस्ताम् देव-भक्तस्य वयम् च फल-भागिनः॥ ४५ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने षट्पञ्चाशत्तमोऽध्यायः॥ 56


Tuesday, 15 April 2025

ஸ்கந்தம் 10: அத்யாயம் 54 (ருக்மிணி கல்யாணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கல்யாணம்

ஸ்கந்தம் 10: அத்யாயம் 54

श्री-शुकः उवाच –
इति सर्वे सुसंरब्धाः वाहान् आरुह्य दंशिताः
स्वैः स्वैः बलैः परिक्रान्ताः अन्वीयुः धृत-कार्मुकाः॥ १ ॥

तान् आपततः आलोक्य यादव-आनीक-यूथपाः
तस्थुः तत्-सम्मुखाः राजन् विस्फूर्ज्य स्व-धनूंषि ते॥ २ ॥

अश्व-पृष्ठे गज-स्कन्धे रथ-उपस्थे कोविदाः
मुमुचुः शर-वर्षाणि मेघाः अद्रिषु अपः यथा॥ ३ ॥

पत्युः बलम् शर-आसारैः छन्नम् वीक्ष्य सुमध्यमा।
स-व्रीडा अमैक्षत् तत्-वक्त्रं भय-विह्वल-लोचना॥ ४ ॥

प्रहस्य भगवान् आह मा स्म भैः वाम-लोचने।
विनङ्क्ष्यति अधुना एव एतत् तावकैः शात्रवम् बलम्॥ ५ ॥

तेषाम् तत्-विक्रमम् वीराः गद-सङ्कर्षण-आदयः
अमृष्यमाणाः नाराचैः जघ्नुः हय-गजान् रथान्॥ ६ ॥

पेतुः शिरांसि रथिनाम् अश्विनाम् गजिनाम् भुवि।
स-कुण्डल-किरीटानि स-उष्णीषाणि कोटिशः॥ ७ ॥

हस्ताः स-असि-गद-इषु-आसाः करभाः ऊरवः अङ्घ्रयः।
अश्व-अश्वतर-नाग-उष्ट्र-खर-मर्त्य-शिरांसि च॥ ८ ॥

हन्यमान-बल-आनीकाः वृष्णिभिः जय-काङ्क्षिभिः।
राजानः विमुखाः जग्मुः जरासन्ध-पुरःसराः॥ ९ ॥

शिशुपालम् समभ्येत्य हृत-दारम् इव आतुरम्।
नष्ट-त्विषम् गत-उत्साहम् शुष्यत्-वदनम् अब्रुवन्॥ १० ॥

भोः भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज।
प्रिय-अप्रिययोः राजन् निष्ठा देहिषु दृश्यते॥ ११ ॥

यथा दारुमयी योषित् नृत्यते कुहक-इच्छया।
एवम् ईश्वर-तन्त्रः अयम् ईहते सुख-दुःखयोः॥ १२ ॥

शौरेः सप्तदश अहम् वै संयुगानि पराजितः।
त्रयोविंशतिभिः सैन्यैः जिग्ये एकम् अहम् परम्॥ १३ ॥

तथापि अहम् शोचामि प्रहृष्यामि कर्हिचित्।
कालेन दैव-युक्तेन जानन् विद्रावितम् जगत्॥ १४ ॥

अधुना अपि वयम् सर्वे वीर-यूथप-यूथपाः।
पराजिताः फल्गु-तन्त्रैः यदुभिः कृष्ण-पालितैः॥ १५ ॥

रिपवः जिग्युः अधुना काले आत्म-अनुसारिणि।
तदा वयम् विजेष्यामः यदा कालः प्रदक्षिणः॥ १६ ॥

एवम् प्रबोधितः मित्रैः चैद्यः अगात् स-अनुगः पुरम्।
हत-शेषाः पुनः ते अपि ययुः स्वं स्वं पुरम् नृपाः॥ १७ ॥

रुक्मी तु राक्षस-उद्वाहम् कृष्ण-द्विषा असहन् स्वसुः।
पृष्ठतः अन्वगमत् कृष्णम् अक्षौहिण्या वृतः बली॥ १८ ॥

रुक्मिः अमर्षी सुसंरब्धः शृण्वताम् सर्व-भूभुजाम्।
प्रतिजज्ञे महाबाहुः दंशितः स-शर-आसनः॥ १९ ॥

अहत्वा समरे कृष्णम् अप्रत्यूह्य रुक्मिणीम्।
कुण्डिनम् प्रवेक्ष्यामि सत्यम् एतत् ब्रवीमि वः॥ २० ॥

इत्युक्त्वा रथम् आरुह्य सारथिम् प्राह सत्वरः।

चोदय अश्वान् यतः कृष्णः तस्य मे संयुगम् भवेत्॥ २१ ॥


अद्य अहम् निशितैः बाणैः गोपालस्य सुदुर्मतेः।

नेष्ये वीर्य-आदम् येन स्वसा मे प्रसभम् हृता॥ २२ ॥


विकत्थमानः कुमतिः ईश्वरस्य अप्रमाण-वित्।

रथेन एकेन गोविन्दम् तिष्ठ तिष्ठ इति अथ आह्वयत्॥ २३ ॥


धनुः विकृष्य सुदृढम् जघ्ने कृष्णम् त्रिभिः शरैः।

आह च अत्र क्षणम् तिष्ठ यदूनाम् कुल-पांसन॥ २४ ॥


कुत्र यासि स्वसारम् मे मुषित्वा ध्वाङ्क्षवत् धविः।

हरिष्ये अद्य मदम् मन्द मायिनः कूट-योधिनः॥ २५ ॥


यावत् न मे हतः बाणैः शयीथा मुञ्च दारिकाम्।

स्मयन् कृष्णः धनुः छित्त्वा षड्भिः विव्याध रुक्मिणम्॥ २६ ॥


अष्टभिः चतुरः वाहान् द्वाभ्याम् सूतम् ध्वजम् त्रिभिः।

सः च अन्यत् धनुः आधाय कृष्णम् विव्याध पञ्चभिः॥ २७ ॥


तैः तातितः शर-ओघैः तु चिच्छेद धनुः अच्युतः।

पुनः अन्यत् उपादत्त तत् अपि अच्छिनद् अव्ययः॥ २८ ॥


परिघम् पट्टिशम् शूलम् चर्म-आसिः शक्ति-तोमरौ।

यत् यत् आयुधम् आदत्त तत् सर्वम् सः अच्छिनद् हरिः॥ २९ ॥


ततः रथात् अवप्लुत्य खड्ग-पाणिः जिघांसया।

कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्गः इव पावकम्॥ ३० ॥


तस्य च आपततः खड्गम् तिलशः चर्म च इषुभिः।

छित्त्वा असिम् आददे तिग्मम् रुक्मिणम् हन्तुम् उद्यतः॥ ३१ ॥


दृष्ट्वा भ्रातृ-वध-उद्योगम् रुक्मिणी भय-विह्वला।

पतित्वा पादयोः भर्तुः उवाच करुणम् सती॥ ३२ ॥


योगेश्वर अप्रमेय-आत्मन् देव-देव जगत्-पते।

हन्तुम् न अर्हसि कल्याण भ्रातरम् मे महाभुज॥ ३३ ॥


श्री-शुकः उवाच –

तया परित्रास-विकम्पित-अङ्गया

 शुचा-उशुष्यन्-मुख-रुद्ध-कण्ठया।

कातर्य-विस्रंसित-हेम-मालया

 गृहीत-पादः करुणः न्यवर्तत॥ ३४ ॥


चैलेन बद्ध्वा तम् असाधु-कारिणम्

 स-श्मश्रु-केशम् प्रवपन् व्यरूपयत्।

तावत् ममर्दुः पर-सैन्यम् अद्भुतम्

 यदु-प्रवीराः नलिनीम् यथा गजाः॥ ३५ ॥


कृष्ण-अन्तिकम् उपव्रज्य ददृशुः तत्र रुक्मिणम्।

तथा-भूतम् हत-प्रायम् दृष्ट्वा सङ्कर्षणः विभुः।

विमुच्य बद्धम् करुणः भगवान् कृष्णम् अब्रवीत्॥ ३६ ॥


असाधु इदम् त्वया कृष्ण कृतम् अस्मत्-जुगुप्सितम्।

वपनम् श्मश्रु-केशानाम् वैरूप्यम् सुहृदः वधः॥ ३७ ॥


मा एव अस्मान् साध्वि असूयथा भ्रातुः वैरूप्य-चिन्तया।

सुख-दुःख-दः न च अन्यः अस्ति यतः स्व-कृत-भुक् पुमान्॥ ३८ ॥


बन्धुः वध-अर्ह-दोषः अपि न बन्धोः वधम् अर्हति।

त्याज्यः स्वेन एव दोषेण हतः किं हन्यते पुनः॥ ३९ ॥


क्षत्रियाणाम् अयम् धर्मः प्रजापति-विनिर्मितः।

भ्राता अपि भ्रातरम् हन्यात् येन घोरतमः ततः॥ ४० ॥


राज्यस्य भूमेः वित्तस्य स्त्रियो मानस्य तेजसः।

मानिनः अन्यस्य वा हेतोः श्रीमद-आन्धाः क्षिपन्ति हि॥ ४१ ॥


तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम्।

यत्-मन्यसे सदा-आभद्रं सुहृदां भद्रम्-अज्ञवत्॥ ४२ ॥


आत्म-मोहो नृणाम्-एष कल्पते देव-मायया।

सुहृद् दुर्हृद-उदासीन इति देह-आत्म-मानिनाम्॥ ४३ ॥


एकः एव परः ह्यात्मा सर्वेषाम्-अपि देहिनाम्।

नानेव गृह्यते मूढैः यथा ज्योति-र्यथा नभः॥ ४४ ॥


देह आद्यन्त-वानेष द्रव्य-प्राण-गुणात्मकः।

आत्म-न्य-विद्यया कॢप्तः संसारयति देहिनम्॥ ४५ ॥


नात्मनोऽन्येन संयोगो वियोगः चासतः सति।

तद्धेतुत्वात् तत्प्रसिद्धेः दृग्-रूपाभ्यां यथा रवेः॥ ४६ ॥


जन्म-आदयः तु देहस्य विक्रिया नात्मनः क्वचित्।

कलानामिव नैव एन्दोर्मृतिः ह्यस्य कुहूरिव॥ ४७ ॥


यथा शयान आत्मानं विषयान् फलम्-एव च।

अनुभुङ्क्ते अपि असत्य-अर्थे तथा आप्नोत्य-न-आबुधो भवम्॥ ४८ ॥


तस्मात्-ज्ञान-जं शोकम् आत्म-शोष-विमोहनम्।

तत्त्व-ज्ञान-एन निर्हृत्य स्व-स्था भव शुचिस्मिते॥ ४९ ॥


श्री-शुकः उवाच –

एवं भगवता तन्वी रामेण प्रतिबोधिता।

वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे॥ ५० ॥


प्राण-अवशेष उत्सृष्टः द्विड्भिः हतबल-प्रभः।

स्मरन् विरूपकरणं वितथात्म-मनोरथः॥ ५१ ॥


चक्रे भोज-कटं नाम निवासाय महत् पुरम्।

अहत्वा दुर्मतिं कृष्णम् प्रत्यूह्य यवीयसीम्।

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्र आवसद् रुषा॥ ५२ ॥


भगवान् भीष्मकसुताम् एवं निर्जित्य भूमिपान्।

पुरमानीय विधिवदुपयेमे कुरूद्वह॥ ५३ ॥


तदा महोत्सवो नृणां यदुपुर्यां गृहे गृहे।

अभूद् अनन्यभावानां कृष्णे यदुपतौ नृप॥ ५४ ॥


नरा नार्यः च मुदिताः प्रमृष्ट-मणि-कुण्डलाः।

पारिबर्हम् उपाजह्रुः वरयोश्चित्र-वाससोः॥ ५५ ॥


सा वृष्णि-पुरि युत्तभितेन्द्र-केतुभि-

विचित्र-माल्या-अम्बर-रत्न-तोरणैः।

बभौ प्रतिद्वार्युपकॢप्त-मङ्गलै-

रापूर्ण-कुम्भागुरु-धूपदीपकैः॥ ५६ ॥


सिक्तमार्गा मदच्युद्भिराहूत-प्रेष्ठ-भूभुजाम्।

गजैः द्वास्सु परामृष्टरम्भा-पूगो-पशोभिता॥ ५७ ॥


कुरुसृञ्जय-केकेय-विदर्भ-यदुकुन्तयः।

मिथो मुमुदिरे तस्मिन सम्भ्रमात् परिधावताम्॥ ५८ ॥


रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः।

राजानः राजकन्याश्च बभूवुर्हृशविस्मिताः॥ ५९ ॥


द्वारकायामभूद् राजन् महामोदः पुरौकसाम्।

रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः-पतिम्॥ ६० ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे चतुः पञ्चाशत्तमोऽध्यायः ॥ 54