Followers

Search Here...

Tuesday, 22 April 2025

ஸ்கந்தம் 10: அத்யாயம் 58 (ஐந்து இளவரசிகளை கண்ணன் மணந்தான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ஐந்து இளவரசிகளை கண்ணன் மணந்தான்

(காளிந்தீ, மித்ரவிந்தா. ஸத்யா, லக்ஷ்மணா, பத்ரா)

ஸ்கந்தம் 10: அத்யாயம் 58

श्री-शुकः उवाच –
एकदा पाण्डवān् द्रष्टुं प्रतीतान् पुरुषोत्तमः।
इन्द्र-प्रस्थं गतः श्रीमान् युयुधान-आदिभिः वृत्तः॥ १॥

दृष्ट्वा तमागतं पार्था मुकुन्द-मखिल-ईश्वरम्।
उत्तस्थुः युगपद् वीराः प्राणा मुख्यम् इव आगतम्॥ २॥

परिष्वज्य-आच्युतं वीरा अङ्ग-सङ्ग-हति-ऐनसः।
सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः॥ ३॥

युधिष्ठिरस्य भीमस्य कृत्वा पाद-आभिवन्दनम्।
फाल्गुनं परिरभ्याथ यमाभ्यां च आभिवन्दितः॥ ४॥

परम-आसनं आसीनं कृष्णा कृष्णा-मनिर्दिता।
नवोढा व्रीडिता किञ्चित् शनैः एत्य आभ्यवन्दत॥ ५॥

तथा-एव सात्यकिः पार्थैः पूजितश्च आभिवन्दितः।
निषसाद आसनेऽन्ये च पूजिताः पर्युपासत॥ ६॥

पृथां समागत्य कृत-आभिवादनं
स्तयाः तिहार्दार्द्र-दृशाः अभ्र-आम्बितः।
आपृष्टवांस्तां कुशलं सहस्नुषां
पितृ-स्वसारं परिपृष्ट-बान्धवः॥ ७॥

तमाह प्रेम-वैक्लव्य-रुद्ध-कण्ठ-आश्रुलोचना।
स्मरन्ती तान् बहून् क्लेशान् क्लेश-आपाय-आत्मदर्शनम्॥ ८॥

तदैव कुशलं नोऽभूत् सनाथाः ते कृता वयम्।
ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया॥ ९॥

न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः।
तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः॥ १०॥

युधिष्ठिरः उवाच –
किं न आचरितं श्रेयो न वेदाहमधीश्वर।
योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम्॥ ११॥

इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम्।
जनयन् नयनानन्दमिन्द्र-प्रस्थ-औकसां विभुः॥ १२॥

एकदा रथमारुह्य विजयो वानर-ध्वजम्।
गाण्डीवं धनुरादाय तूणौ चाक्षय-सायकौ॥ १३॥

साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम्।
बहु-व्या-ल-मृग-आकीर्णं प्राविशत् परवीरहा॥ १४॥

तत्राविध्यच्छरैः व्याघ्रान् सूकरान् महिषान् रुरून्।
शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान्॥ १५॥

तान् निन्युः किङ्कराः राज्ञे मेध्यान् पर्वण्युपागते।
तृट्-परितः परिश्रान्तो बिभत्सुर्य-मुनामगात्॥ १६॥

तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ।
कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम्॥ १७॥

तामासाद्य वरारोहां सुद्विजां रुचिराननाम्।
पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम्॥ १८॥

का त्वं कस्यासी सुश्रोणि कुतोऽसि किं चिकीर्षसि।
मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने॥ १९॥

श्री-कालिन्युः उवाच –
अहं देवस्य सवितुर्दुहिता पतिमिच्छती।
विष्णुं वरेण्यं वरदं तपः परममास्थितः॥ २०॥

श्री-शुकः उवाच –
नान्यं पतिं वृणे वीर तमृते श्री-निकेतनम्।
तुष्यतां मे स भगवान् मुकुन्दोऽनाथ-संश्रयः॥ २१॥

कालिन्दी-इति समाख्याता वसामि यमुनाजले।
निर्मिते भवने पित्रा यावद्-अच्युत-दर्शनम्॥ २२॥

तथा-एव अदत् गुडाकेशो वासुदेवाय सोऽपि ताम्।
रथमारोः यतद् विद्वान् धर्मराजमुपागमत्॥ २३॥

यदैव कृष्णः सन्दिष्टः पार्थानां परम-आद्भुतम्।
कारयामास नगरं विचित्रं विश्वकर्मणा॥ २४॥

भगवान्-स्तत्र निवसन् स्वनां प्रिय-चिकीर्षया।
अग्नये खाण्डवं दातुम् अर्जुनस्याथ सारथिः॥ २५॥

सोऽग्निः तुष्टो धनुरदाद्धयाञ्छ्वेतान् रथं नृप।
अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः॥ २६॥

मयश्च मोचितो वह्नेः सभां सख्य उपाहरत्।
यस्मिन् दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः॥ २७॥

स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः।
आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः॥ २८॥

अथोपयेमे कालिन्दीं सुपुण्य-अर्त्वृक्ष ऊर्जिते।
वितन्वन् परमानन्दं स्वानां परम-मङ्गलम्॥ २९॥

विन्द्य-आनुविन्दा-वावन्त्यौ दुर्योधनवशानुगौ।
स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम्॥ ३०॥

राजाधिदेव्यास्तनयां मित्रविन्दां पितृ-स्वसुः।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम्॥ ३१॥

नग्नजिन्नाम कौशल्य आसीद् राजातिधार्मिकः।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप॥ ३२॥

न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान्।
तीक्ष्ण-शृङ्गान् सुदुर्धर्षान् वीर्य-गन्धासहान् खलान्॥ ३३॥

तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः।
जगाम कौशल्यपुरं सैन्येन महता वृतः॥ ३४॥

स कोसलपतिः प्रीतः प्रत्युत्थानासनादिभिः।
अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः॥ ३५॥

वरं विलोक्याभिमतं समागतं
नरेन्द्रकन्या चकमे रमापतिम्।
भूयादयं मे पतिराशिषोऽनलः
करोतु सत्या यदि मे धृतो व्रतैः॥ ३६॥

यत्पादपङ्कजरजः शिरसा बिभर्ति
श्रीरब्जजः सगिरिशः सहलोकपालैः।
लीलातनू स्वकृतसेतुपरीप्सयेशः
काले दधत् स भगवान् मम केन तुष्येत्॥ ३७॥

अर्चितं पुनरित्याह नारायण जगत्पते।
आत्मानन्देन पूर्णस्य करवाणि किमल्पकः॥ ३८॥

श्री-शुकः उवाच –
तमाह भगवान् हृष्टः कृत-आसन-परिग्रहः।
मेघ-गम्भीर-या वाचा सस्मितं कुरु-नन्दन॥ ३९॥

श्री-भगवान् उवाच –
नरेन्द्र याच्ञा कविभिर्विगर्हिता
राजन्य-बन्धोर्निज-धर्म-वर्तिनः।
तथापि याचे तव सौहृद-इच्छया
कन्यां त्वदीयां न हि शुल्कदा वयम्॥ ४०॥

श्री-राजः उवाच –
कोऽन्यस्तेऽभ्यधिको नाथ कन्याः वर इहेप्सितः।
गुण-एक-धाम्नो यस्याङ्गे श्री-र्वसत्य-नपायिनी॥ ४१॥

किं त्वस्माभिः कृतः पूर्वं समयः सात्वत-र्षभ।
पुंसां वीर्य-परीक्षार्थं कन्यां वर-परिप्सया॥ ४२॥

सप्त-एते गोवृषा वीर दुर्दान्ता दुरवग्रहाः।
एतैः भग्नाः शुभेभो भिन्न-गात्रा नृपात्मजाः॥ ४३॥

यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन।
वरो भवान् अभिमतो दुहितुर्मे श्री-यः-पते॥ ४४॥

एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलया एव तान्॥ ४५॥

बद्ध्वा तान् दामभिः शौरिः भग्न-दर्पान् हतौजसः।
व्यकर्षल् लीलया बद्धान् बालो दारु-मयान् यथा॥ ४६॥

ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः।
तां प्रत्यगृह्णाद् भगवान् विधिवत् सदृशीं प्रभुः॥ ४७॥

राजपत्न्यः च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्।
लेभिरे परमानन्दं जातश्च परम-उत्सवः॥ ४८॥

शङ्ख-भेर्य-अनकाः नेदुः गीत-वाध्य-द्विजा-आशीः।
नरा नार्यः प्रमुदिताः सुवासः-स्रगलङ्कृताः॥ ४९॥

दश-धेनु-सहस्राणि पारि-बर्हमदाद् विभुः।
युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवास-सम्॥ ५०॥

नव-नाग-सहस्राणि नाग-आच्छ-शत-गुणान् रथान्।
रथ-आच्छ-शत-गुणान् अश्वान् अश्व-आच्छ-शत-गुणान् नरान्॥ ५१॥

दम्पती रथमारोः व्य महत्या सेनया वृतौ।
स्नेह-प्रक्लिन्न-हृदयो यापयामास कोसलः॥ ५२॥

श्रुत्वैतद् रुरुधुर्भूपा नयन्तं पथि कन्यकाम्।
भग्न-वीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा॥ ५३॥

तानस्यतः शरव्रातान् बन्धु-प्रियकृदर्जुनः।
गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव॥ ५४॥

पारि-बर्हमुपागृह्य द्वारकामेत्य सत्यया।
रेमे यदूनामृषभो भगवान् देवकी-सुतः॥ ५५॥

श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृ-स्वसुः।
कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः॥ ५६॥

सुतां च मद्राधिपतेः लक्ष्मणा-लक्षणैर्युताम्।
स्वयंवरे जहारैकः स सुपर्णः सुधामिव॥ ५७॥

अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः॥ ५८॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अष्टमहिष्युद्वाहो नामाष्टपञ्चाशत्तमोऽध्यायः ॥ 58

ஸ்கந்தம் 10: அத்யாயம் 57 (சத்ரார்ஜித் மரணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

சத்ரார்ஜித் மரணம்

ஸ்கந்தம் 10: அத்யாயம் 57

श्रीशुक उवाच
विज्ञात-अर्थः अपि गोविन्दः दग्धान् आकर्ण्य पाण्डवान्।
कुन्तीम् च कुल्य-करणे स-रामः ययौ कुरून्॥ १ ॥

भीष्मम् कृपम् स-विदुरम् गान्धारीम् द्रोणम् एव च।
तुल्य-दुःखौ च संगम्य हा कष्टम् इति होचतुः॥ २ ॥

लब्ध्वा एतत् अन्तरम् राजन् शतधन्वानम् ऊचतुः।
अक्रूर-कृतवर्माणौ मणिः कस्मात् न गृह्यते॥ ३ ॥

यः अस्मभ्यम् सम्प्रतिश्रुत्य कन्या-रत्नम् विगर्ह्य नः।
कृष्णाय आदात् न सत्राजित् कस्मात् भ्रातरम् अन्वियात्॥ ४ ॥

एवम् भिन्न-मतिः ताभ्याम् सत्राजितम् असत्तमः।
शयानम् अवधीत् लोभात् स पापः क्षीण-जीवितः॥ ५ ॥

स्त्रीणाम् विक्रोशमानानाम् क्रन्दन्तीनाम् अनाथवत्।
हत्वा पशून् सौनिकवत् मणिम् आदाय जग्मिवान्॥ ६ ॥

सत्यभामा च पितरम् हतम् वीक्ष्य शुच-अर्पिता।
व्यलपत् तात तात इति हा हता अस्मि इति मुह्यती॥ ७ ॥

तैल-द्रोण्याम् मृतम् प्रास्य जगाम गजसाह्वयम्।
कृष्णाय विदित-अर्थाय तप्ता आचख्यौ पितुः वधम्॥ ८ ॥

तत् आकर्ण्य ईश्वरौ राजन् अनुसृत्य नृ-लोकताम्।
अहो नः परमम् कष्टम् इति अस्र-अक्षौ विलेपतुः॥ ९ ॥

आगत्य भगवाः तत् स्मात् स-भार्यः स-अग्रजः पुरम्।
शतधन्वानम् आरेभे हन्तुम् हर्तुम् मणिम् ततः॥ १० ॥

सः अपि कृत-उद्यमम् ज्ञात्वा भीतः प्राण-परिप्सया।
साहाय्ये कृतवर्माणम् अयाचत सः च अब्रवीत्॥ ११ ॥

न अहम् ईश्वरयोः कुर्याम् हेलनम् राम-कृष्णयोः।
कः नु क्षेमाय कल्पेत तयोः वृजिनम् आचरन्॥ १२ ॥

कंसः सह-अनुगः अपि इतः यत् द्वेषात् त्याजितः श्रिया।
जरासन्धः सप्तदश संयुगान् विरथः गतः॥ १३ ॥

प्रत्याख्यातः सः च अक्रूरम् पार्ष्णि-ग्राहम् अयाचत।
सः अपि आह कः विरुध्येत विद्वान् ईश्वरयोः बलम्॥ १४ ॥

यः इदम् लीलया विश्वम् सृजति अवति हन्ति च।
चेष्टाम् विश्व-सृजः यस्य न विदुः मोहिता अजया॥ १५ ॥

यः सप्त-हायनः शैलम् उत्पाट्य एकेन पाणिना।
दधार लीलया बालः उच्छिलीन्ध्रम् इव अर्भकः॥ १६ ॥

नमः तस्मै भगवते कृष्णाय अद्भुत-कर्मणे।
अनन्ताय आदि-भूताय कूटस्थाय आत्मने नमः॥ १७ ॥

प्रत्याख्यातः सः तेन अपि शतधन्वा महा-मणिम्।
तस्मिन् न्यस्य अश्वम् आरुह्य शत-योजन-गम् ययौ॥ १८ ॥

गरुड-ध्वजम् आरुह्य रथम् राम-जनार्दनौ।
अन्वयाताम् महा-वेगैः अश्वैः राजन् गुरु-द्रुहम्॥ १९ ॥

मिथिलायाम् उपवने विसृज्य पतितम् हयम्।
पद्भ्याम् अधावत् सन्त्रस्तः कृष्णः अपि अन्वद्रवत् रुषा॥ २० ॥

पदातेः भगवाः तस्य पदातिः तिग्म-नेमिना।
चक्रेण शिरः उत्कृत्य वाससः व्यचिनोत् मणिम्॥ २१ ॥

अलब्ध-मणिः आगत्य कृष्णः आह अग्रज-अन्तिकम्।
वृथा हतः शतधनुः मणिः तत्र न विद्यते॥ २२ ॥

ततः आह बलः नूनम् सः मणिः शतधन्वना।
कस्मिंश्चित् पुरुषे न्यस्तः तम् अन्वेष पुरम् व्रज॥ २३ ॥

अहं वैदेहम् इच्छामि द्रष्टुम् प्रियतमम् मम।
इति उक्त्वा मिथिलाम् राजन् विवेश यदु-नन्दनः॥ २४ ॥

तम् दृष्ट्वा सहसा उत्थाय मैथिलः प्रीत-मानसः।
अर्हयामास विधिवत् अर्हणीयं समर्हणैः॥ २५ ॥

उवास तस्याम् कतिचित् मिथिलायाम् समाः विभुः।
मानितः प्रीति-युक्तेन जनकेन महात्मना॥ २६ ॥

ततः अशिक्षत् गदाम् काले धार्तराष्ट्रः सुयोधनः॥ २६ ॥

केशवः द्वारकाम् एत्य निधनम् शतधन्वनः।
अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृत् विभुः॥ २७ ॥

ततः सः कारयामास क्रियाः बन्धोः हतस्य वै।
साकम् सुहृद्भिः भगवान् या याः स्युः साम्परायिकाः॥ २८ ॥

अक्रूरः कृतवर्मा च श्रुत्वा शतधनुः-वधम्।
व्यूषतुः भय-वित्रस्तौ द्वारकायाः प्रयोजकौ॥ २९ ॥

अक्रूरे प्रोषिते अरिष्टान् आसन् वै द्वारका-उकसाम्।
शारीराः मानसाः तापाः मुहुः दैविक-भौतिकाः॥ ३० ॥

इति अङ्ग उपदिशन्ति एके विस्मृत्य प्राक्-उदाहृतम्।
मुनि-वास निवासे किं घटेत अरिष्ट-दर्शनम्॥ ३१ ॥

देवे अवर्षति काशी-ईशः श्वफल्काय आगताय वै।
स्वसुताम् गान्दिनीम् प्रादात् ततः अवर्षत् स्म काशिषु॥ ३२ ॥

तत्सुतः तत्-प्रभावः असौ अक्रूरः यत्र यत्र ह।
देवः अभिवर्षते तत्र न उपतापाः न मारिकाः॥ ३३ ॥

इति वृद्ध-वचः श्रुत्वा न एतावत् इह कारणम्।
इति मत्वा समानाय्य प्राह अक्रूरम् जनार्दनः॥ ३४ ॥

पूज्यित्वा अभिभाष्य एनम् कथयित्वा प्रियाः कथाः।
विज्ञत-अखिल-चित्त-ज्ञः स्मयमानः उवाच ह॥ ३५ ॥

ननु दान-पते न्यस्तः त्वयि आस्ते शतधन्वना।
स्यमन्तकः मणिः श्रीमान् विदितः पूर्वम् एव नः॥ ३६ ॥

सत्राजितः अनपत्यत्वात् गृह्णीयुः दुहितुः सुताः।
दायम् निनीय आपः पिण्डान् विमुच्य अर्णम् च शेषितम्॥ ३७ ॥

तथापि दुर्धरः त्वन्यैः त्वयि आस्ताम् सुव्रते मणिः।
किन्तु माम् अग्रजः सम्यक् न प्रत्येति मणिम् प्रति॥ ३८ ॥

दर्शयस्व महा-भाग बन्धूनाम् शान्तिम् आवह।
अव्युच्छिन्नाः मखाः ते अद्य वर्तन्ते रुक्म-वेदयः॥ ३९ ॥

एवम् सामभिः आलब्धः श्वफल्क-तनयः मणिम्।
आदाय वाससा आच्छन्नम् ददौ सूर्य-सम-प्रभम्॥ ४० ॥

स्यमन्तकम् दर्शयित्वा ज्ञातिभ्यः रज आत्मनः।
विमृज्य मणिना भूयः तस्मै प्रत्यर्पयत् प्रभुः॥ ४१ ॥

यस्त्वेतद् भगवत् ईश्वरस्य विष्णोः
वीर्याढ्यं वृजिन-हरं सुमङ्गलम् च।
आख्यानं पठति शृणोत्य अनुस्मरेद् वा
दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम्॥ ४२ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने सप्तपञ्चाशत्तमोऽध्यायः ॥ 57