Followers

Search Here...

Wednesday, 23 April 2025

ஸ்கந்தம் 10: அத்யாயம் 60 (ருக்மிணியை கண்ணன் சீண்டுகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணியை கண்ணன் சீண்டுகிறான்

ஸ்கந்தம் 10: அத்யாயம் 60

श्रीशुक उवाच

कर्हिचित् सुखम् आसीनम् स्व-तल्प-स्थम् जगत्-गुरुम्।

पतिम् पर्यचरत् भैष्मी व्यजनेन सखी-जनैः ॥ १ ॥


यः तु एतत्-लीलया विश्वम् सृजति अत्ति अवति ईश्वरः।

सः हि जातः स्व-सेतूनाम् गोपी-ईथाय यदुषु अजः ॥ २ ॥


तस्मिन् अन्तः-गृहे भ्राजन् मुक्ता-दाम-विलम्बिना।

विराजिते वितानेन दीपैः मणि-मयैः अपि ॥ ३ ॥


मल्लिका-दामभिः पुष्पैः द्वि-रेफ-कुल-नादितैः।

जाल-रन्ध्र-प्रविष्टैः च गोभिः चन्द्र-मसः अमलैः ॥ ४ ॥


पारिजात-वन-आमोद- वायुना उद्यान-शालिना।

धूपैः अगुरु-जैः राजन् जाल-रन्ध्र-विनिर्गतैः ॥ ५ ॥


पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपु-उत्तमे।

उपतस्थे सुख-आसीनम् जगताम् ईश्वरम् पतिम् ॥ ६ ॥


वाल-व्यजनम् आदाय रत्न-दण्डम् सखी-करात्।

तेन वीजयती देवी उपासाम्-चक्रे ईश्वरम् ॥ ७ ॥


सा उपाच्युतम् क्वणयती मणि-नूपुराभ्याम्

रेजे अङ्गुलीय-वलय-व्यजन-अग्र-हस्ता।

वस्त्र-अन्त-गूढ-कुच-कुङ्कुम-शोण-हार-

भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ ८ ॥


ताम् रूपिणीम् श्रीयम् अनन्य-गतिम् निरीक्ष्य

या लीलया धृत-तनोः अनुरूप-रूपा।

प्रीतः स्मयन् अलक-कुण्डल-निष्क-कण्ठ-

वक्त्र-उल्लसत्-स्मित-सुधाम् हरिः आबभाषे ॥ ९ ॥


श्री-भगवान् उवाच

राज-पुत्री इप्सिताः भूपैः लोक-पाल-विभूतिभिः।

महा-अनुभावैः श्रीमत्भिः रूप-औदार्य-बल-उर्जितैः ॥ १० ॥


तान् प्राप्तान् अर्थिनः हित्वा चैद्य-आदीन् स्मर-दुर्मदान्।

दत्ता भ्रात्रा स्व-पित्रा च कस्मात् नः ववृषे असमान् ॥ ११ ॥


राजभ्यः बिभ्यतः सु-भ्रु समुद्रम् शरणम् गतान्।

बलवत्भिः कृत-द्वेषान् प्रायः त्यक्त-नृप-आसनान् ॥ १२ ॥


अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम्।

आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ १३ ॥


निष्किञ्चनाः वयम् शश्वत् निष्किञ्चन-जन-प्रियाः।

तस्मात् प्रायेण न हि आढ्याः माम् भजन्ति सु-मध्यमे ॥ १४ ॥


ययोः आत्म-समम् वित्तम् जन्म ऐश्वर्य आकृतिः भवः।

तयोः विवाहः मैत्री च न उत्तम-अधमयोः क्वचित् ॥ १५ ॥


वैदर्भ्यः एतत् अविज्ञाय त्वया दीर्घ-समीक्षया।

वृता वयम् गुणैः हीनाः भिक्षुभिः श्लाघिता मुधा ॥ १६ ॥


अथ आत्मनः अनुरूपम् वै भजस्व क्षत्रिय-ऋषभम्।

येन त्वम् आशिषः सत्याः इह अमुष्य च लप्स्यसे ॥ १७ ॥


चैद्य-शाल्व-जरासन्ध-दन्तवक्त्र-आदयः नृपाः।

मम द्विषन्ति वाम-उरु रुक्मी च अपि तव आग्रजः ॥ १८ ॥


तेषाम् वीर्य-मद-अन्धानाम् दृप्तानाम् स्मय अनुत्तये।

आनिता असि मया भद्रे तेजः अपहरतः असताम् ॥ १९ ॥


उदासीनाः वयम् नूनम् न स्त्री-अपत्य-अर्थ-कामुकाः।

आत्म-लब्ध्या आस्महे पूर्णाः गेहयोः ज्योतिः-अक्रियाः ॥ २० ॥


श्री-शुक उवाच –

एतावत् उक्त्वा भगवान् आत्मानं वल्लभाम् इव।

मन्यमानाम् अविश्लेषात् तत्-दर्प-घ्नः उपारमत्॥२१॥


इति त्रि-लोक-ईश-पतेः ततः आत्मनः

प्रियस्य देव्या-श्रुत-पूर्वम् अप्रियम्।

आश्रुत्य भीता हृदि जात-वेपथुः

चिन्तां दुरन्तां रुदती जगाम ह॥२२॥


पदा सुजातेन नख-अरुण-श्रिया

भुवं लिखन्ती अश्रुभिः अञ्जन-असितैः।

आसिञ्चती कुङ्कुम-रूषितौ स्तनौ

तस्थौ अधो-मुख्या अति-दुःख-रुद्ध-वाक्॥२३॥


तस्याः सुदुःख-भय-शोक-विनष्ट-बुद्धेः

हस्तात् श्लथ-द्वलयतः व्यजनं पपात।

देहः च विक्लव-धियः सहसा एव मुह्यन्

रम्भा इव वायु-विहता प्रविकीर्य केशान्॥२४॥


तत् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम्।

हास्य-प्रौढिम् अजानन्त्याः करुणः सः अन्वकम्पत॥२५॥


पर्यङ्कात् अवरुह्य आशु ताम् उत्थाप्य चतुर्भुजः।

केशान् समुह्य तत्-वक्त्रं प्रामृजत् पद्म-पाणिना॥२६॥


प्रमृज्य अश्रु-कलं नेत्रे स्तनौ च उपहतौ शुचा।

आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम्॥२७॥


सान्त्वयामास सान्त्व-ज्ञः कृपया कृपणां प्रभुः।

हास्य-प्रौढि-भ्रमत्-चित्ताम् अतद्-अर्हां सतां गतिः॥२८॥


श्री-भगवान् उवाच –

मा मा वैदर्भि असूयथा जाने त्वां मत्-परायणाम्।

त्वत्-वचः श्रोतु-कामेन क्ष्वेल्या आचरितं अङ्गने॥२९॥


मुखं च प्रेम-संरम्भ-स्फुरित-अधरम् ईक्षितुम्।

कटाक्ष-इपारुण-अपाङ्गं सुन्दर-भ्रुकुटी-तटम्॥३०॥


अयं हि परमः लाभः गृहेषु गृह-मेधिनाम्।

यत् नर्मैः ईयते यामः प्रियया भीरु भामिनि॥३१॥


श्री-शुक उवाच –

सा एवं भगवता राजन् वैदर्भी परि-सान्त्विता।

ज्ञात्वा तत्-परिहास-उक्तिं प्रियत्-त्याग-भयं जहौ॥३२॥


बभाष ऋषभं पुंसां वीक्षन्ती भगवत्-मुखम्।

स-व्रीड-हास-रुचिर-स्निग्ध-अपाङ्गेन भारत॥३३॥


श्री-रुक्मिणी उवाच –

नु एवम् एतत् अरविन्द-विलोचन आह

यत् वै भवान् भगवतः असदृशी विभूम्नः।

क्व स्वे महिम्नि अभिरतः भगवन् त्रि-अधीशः

क्व अहं गुण-प्रकृतिः अज्ञ-गृहीत-पादा॥३४॥


सत्यं भयात् इव गुणेभ्यः उरु-क्रम-अन्तः

शेते समुद्रः उपलम्भन-मात्रः आत्मा।

नित्यम् कथम् इन्द्रिय-गणैः कृत-विग्रहः त्वम्

त्वत्-सेवकैः नृप-पदं विधुतं तमः-अन्धम्॥३५॥


त्वत्-पाद-पद्म-मकरन्द-जुषाम् मुनीनाम्

वर्त्म आस्फुटं नृप-शुभिः ननु दुर्विभाव्यम्।

यस्मात् अलौकिकम् इव इहितम् ईश्वरस्य

भूमन् तव इहितम् अथ अनु ये भवन्तम्॥३६॥


निःकिञ्चनः ननु भवान् न यतः अस्ति किञ्चित्

यस्मै बलिं बलि-भुजः अपि हरन्ति अज-आद्याः।

न त्वा विदन्ति असु-तृपः अन्तकम् आढ्य-ताः-अन्धाः

प्रेष्ठः भवान् बलि-भुजाम् अपि ते अपि तुभ्यम्॥३७॥


त्वं वै समस्त-पुरुष-अर्थ-मयः फल-आत्मा

यत् वाञ्छया सुमतयः विसृजन्ति कृत्स्नम्।

तेषां विभो समुचितः भवतः समाजः

पुंसः स्त्रियाः च रतयोः सुख-दुःखिनोः न॥३८॥


त्वं न्यस्त-दण्डम् मुनिभिः गदित-अनुभाव

आत्मा आत्मदः च जगताम् इति मे वृतः असि।

हित्वा भवत्-भ्रुवः उदीरित-काल-वेग

ध्वस्त-आशिषः अब्ज-भवन-अकपतीन् कुतः अन्ये॥३९॥


जाड्यं वचः तव गद-अग्रज यः तु भूपान्

विद्राव्य शार्ङ्ग-निनदेन जहर्थ माम् त्वम्।

सिंहः यथा स्व-बलिम् ईशः पशून् स्व-भागं

तेभ्यः भयात् यद् उदधिं शरणं प्रपन्नः॥४०॥


कान्यं श्रयेत् तव पाद-सरोज-गन्धम्
आघ्राय सन्-मुख-रितं जन-ताप-वर्गम्।
लक्ष्मी-आलयं त्व- अविगणय्य गुण-आलयस्य
मर्त्याः सदाऽउरुभयम् अर्थ-विविक्त-दृष्टिः॥ ४२॥

तं त्वा-अनुरूपम् अभजम् जगताम्-अधीशम्
आत्मानम् अत्र च परत्र च काम-पूर्तम्।
स्यात् मे तव-अङ्घ्रि-अरणम् सृतिभिः भ्रमन्त्या
यः वै भजन्तम् उपयाति अनृत-अपवर्गः॥ ४३॥

तस्याः स्युः अच्युत नृपाः भवतः-उपदिष्टाः
स्त्रीणाम् गृहेषु खर-गो-अश्व-बिडाल-भृत्याः।
यत्-कर्ण-मूलम् अरि-कर्षण न-उपयायात्
युष्मत्-कथा मृड-विरिञ्च-सभासु गीता॥ ४४॥

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तः-
मांस-अस्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम्।
जीवत्-शवम् भजति कान्त-मतिः विमूढा
या ते पद-अब्ज-मकरन्दम् अजिघ्रती स्त्री॥ ४५॥

अस्तु अम्बुज-आक्ष मम ते चरण-अनुरागः
आत्मन् रतस्य मयि च अन-तिरिक्त-दृष्टेः।
यः हि अस्य वृद्धये उपात्त-रजः-अति-मात्रः
माम्-ईक्षसे तत्-उ हि नः परम-अनुकम्पा॥ ४६॥

न एव अलीकं अहं मन्ये वचः-ते मधु-सूदन।
अम्बायाः इव हि प्रायः कन्यायाः स्यात् रतिः क्वचित्॥ ४७॥

व्यूढायाः च अपि पुं-श्चल्याः मनः अभ्येति नवं-नवम्।
बुधः असतीम् न बिभृयात् ताम् बिभ्रत्-उभय-च्युतः॥ ४८॥

श्री-भगवान्-उवाच –
साध्वि एतत् श्रोतु-कामैः त्वं राज-पुत्री प्रलम्भिता।
मया-उदितम् यत्-अन्व-अत्थ सर्वम् तत् सत्यं एव हि॥ ४९॥

यान्-यान् कामयसे कामान् मयि-अकामाय भामिनि।
सन्ति हि एकान्त-भक्तायाः तव कल्याणि नित्यदा॥ ५०॥

उपलब्धम् पति-प्रेम पातिव्रत्यं च ते अनघे।
यत्-वाक्यैः चाल्यमानायाः न धीः मयि-अपकर्षिता॥ ५१॥

ये माम् भजन्ति दाम्पत्ये तपसा व्रत-चर्यया।
कामात्मानः अपवर्ग-ईशम् मोहिताः मम मायया॥ ५२॥

माम् प्राप्य मानिन्यः अपवर्ग-सम्पदम्
वाञ्छन्ति ये सम्पदः एव तत्-पतिम्।
ते मन्द-भाग्याः निरये अपि ये नृणाम्
मात्र-आत्मकत्वात् निरयः सु-सङ्गमः॥ ५३॥

दिष्ट्या गृह-ईश्वर्य सकृत् मयि त्वया
कृत-अनुवृत्तिः भव-मोचनी खलैः।
सु-दुष्करा असौ सुतराम् दुराशिषः
हि असुम्भरायाः निकृतिम्-जुषः स्त्रियाः॥ ५४॥

न त्वादृशीम् प्रणयिनीम् गृहिणीं गृहेषु
पश्यामि मानिनि यया स्व-विवाह-काले।
प्राप्तान् नृपान् वगणय्य रहः-हरः मे
प्रस्थापितः द्विजः उपश्रुत-सत्-कथस्य॥ ५५॥

भ्रातुः विरूप-करणम् युधि निर्जितस्य
प्रोद्वाह-पर्वणि च तत्-वधम् अक्ष-गोष्ठ्याम्।
दुःखम् समुत्थम् असहः अस्मद्-अयोग-भीत्या
न एव अब्रवीः किम्-अपि तेन वयम् जिताः ते॥ ५६॥

दूतः त्वया आत्म-लभने सु-विविक्त-मन्त्रः
प्रस्थापितः मयि चिरायति शून्यम् एतत्।
मत्वा जिहासः इदम्-अङ्गम् अनन्य-योग्यम्
तिष्ठेत् तत्-त्वयि वयम् प्रतिनन्दयामः॥ ५७॥

श्री-शुकः उवाच –
एवम् सौरत-संलापैः भगवान् जगत्-ईश्वरः।
स्वरतः रमया रेमे नर-लोकम् विडम्बयन्॥ ५८॥

तथा अन्यासाम् अपि विभुः गृहेषु गृहवान्-इव।
आस्थितः गृह-मेधीयान् धर्मान् लोक-गुरुः हरिः॥ ५९॥

ஸ்கந்தம் 10: அத்யாயம் 59 (நரகாசுரன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

நரகாசுரன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 59

श्री-राजः उवाच –
यथा हतो भगवता भौमो येन च ताः स्त्रियः।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्ग-धन्वनः॥ १॥

श्री-शुक उवाच –
इन्द्रेण हृत-च्छत्रेण हृत-कुण्डल-बन्धुना।
हृत-अमराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम्।
सभार्यो गरुड-आरोढः प्राग्-ज्योतिष-पुरं ययौ॥ २॥

गिरि-दुर्गैः शस्त्र-दुर्गैः जल-अग्नि-अनिल-दुर्गमम्।
मुर-पाश-आयुतैः घोरैः दृढैः सर्वतः आवृतम्॥ ३॥

गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः।
चक्रेणाग्निं जलं वायुं मुर-पाशांस्तथा-असिना॥ ४॥

शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम्।
प्राकारं गदया गुर्व्या निर्बिभेद गदा-धरः॥ ५॥

पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्त-शनि-भीषणम्।
मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात्॥ ६॥

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो
युगान्त-सूर्य-अनल-रोचि-रुल्बणः।
ग्रसंस्त्रि-लोकींव पञ्चभिर्मुखै-
रभ्यद्रवत्तार्क्ष्य-सुतं यथोर्गः॥ ७॥

आविध्य शूलं तरसा गरुत्मते
निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः।
स रोदसी सर्व-दिशोऽन्तरं महा-
नापूरयन्नण्डकटाहमावृणोत्॥ ८॥

तदापतद् वै त्रिशिखं गरुत्मते
हरिः शराभ्यामभिनत्त्रिधौजसा।
मुखेषु तं चापि शरैरताडयत्
तस्मै गदां सोऽपि रुषा व्यमुञ्चत्॥ ९॥

तामापतन्तीं गदया गदां मृधे
गदाग्रजो निर्बिभिदे सहस्रधा।
उद्यम्य बाहूनभिधावतोऽजितः
शिरांसि चक्रेण जहार लीलया॥ १०॥

व्यसुः पपाताम्भसि कृत्तशीर्षो
निकृत्त-शृङ्गोऽद्रिरिवेन्द्रतेजसा।
तस्यात्मजाः सप्त पितुर्वधातुराः
प्रतिक्रियामर्षजुषः समुद्यताः॥ ११॥

ताम्र-ोऽन्तरिक्षः श्रवणो विभावसुः
वसुर्नभस्वानरुणश्च सप्तमः।
पीठं पुरस्कृत्य चमूपतिं मृधे
भौमप्रयुक्ता निरगन् धृतायुधाः॥ १२॥

प्रायुञ्जतासाद्य शरानसीन् गदाः
शक्त्यृष्टि-शूलान्यजिते रुषोल्बणाः।
तच्छस्त्रकूटं भगवान् स्वमार्गणै-
रमोघवीर्यस्तिलशश्चकर्त ह॥ १३॥

तान् पीठमुख्याननयद् यमक्षयं
निकृत्त-शीर्षो-रुभुजाङ्घ्रिवर्मणः।
स्वानीकपानच्युतचक्र-सायकै-
स्तथा निरस्तान् नरको धरासुतः॥ १४॥

निरीक्ष्य दुर्मर्षण आस्रवन्मदै-
र्गजैः पयोधि-प्रभवैर्निराक्रमात्।
दृष्ट्वा सभार्यं गरुडोपरि स्थितं
सूर्योपरिष्टात् सतडिद्-घनं यथा।
कृष्णं स तस्मै व्यसृजच्छतघ्नीं
योधाश्च सर्वे युगपत् स्म विव्यधुः॥ १५॥

तद् भौमसैन्यं भगवान् गदा-ग्रजो
विचित्र-वाजैर्निशितैः शिलीमुखैः।
निकृत्त-बाहू-रुशिरो-ध्रविग्रहं
चकार तर्ह्येव हताश्वकुञ्जरम्॥ १६॥

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह।
हरि-स्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रीभिः॥ १७॥

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान्।
गुरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः॥ १८॥

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम्॥ १९॥

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः।
नाकम्पत तया विद्धो मालाहत इव द्विपः॥ २०॥

शूलं भौमः अच्युतम् हन्तुम् आददे वितथ-उद्यमः ।

तत्-विसर्गात् पूर्वम् एव नरकस्य शिरः हरिः ।

अपाहरत् गज-स्थस्य चक्रेण क्षुर-नेमिना ॥ २१ ॥


स-कुण्डलम् चारु-किरीट-भूषणम्

बभौ पृथिव्याम् पतितम् समुज्ज्वलम् ।

हा-हेति साधु-इति ऋषयः सुर-ईश्वराः

माल्यैः मुकुन्दम् विकिरन्तः ईडिरे ॥ २२ ॥


ततः-च भूमिः कृष्णम् उपेत्य कुण्डले ।

प्रतप्त-जाम्बूनद-रत्न-भास्वरे ।

सा वैजयन्त्या वन-माला-या अर्पयत्

प्राचेतसम् छत्रम् अथ महामणिम् ॥ २३ ॥


अस्तौषीत् अथ विश्व-ईशम् देवी देव-वर-अर्चितम् ।

प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया ॥ २४ ॥


भूमिः उवाच

नमः ते देव-देव-ईश शङ्ख-चक्र-गदा-धर ।

भक्त-इच्छा-उपात्त-रूपाय परम-आत्मन् नमः अस्तु ते ॥ २५ ॥


नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।

नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये ॥ २६ ॥


नमः भगवते तुभ्यम् वासुदेवाय विष्णवे ।

पुरुषाय आदि-बीजाय पूर्ण-बोधाय ते नमः ॥ २७ ॥


अजाय जनयित्रे अस्य ब्रह्मणे अनन्त-शक्तये ।

पर-अवर-आत्मन् भूत-आत्मन् परम-आत्मन् नमः अस्तु ते ॥ २८ ॥


त्वम् वै सिसृक्षुः रजः उत्कटम् प्रभो

तमः निरोधाय बिभर्षि असंवृतः ।

स्थानाय सत्त्वम् जगतः जगत्-पते

कालः प्रधानम् पुरुषः भवान् परः ॥ २९ ॥


अहम् पयः ज्योतिः रथः अनिलः नभः

मात्राणि देवाः मनः इन्द्रियाणि ।

कर्ता महान् इति अखिलम् चर-अचरम्

त्वयि अद्वितीये भगवन् अयम् भ्रमः ॥ ३० ॥


तस्य आत्मजः अयम् तव पाद-पङ्कजम्

भीतः प्रपन्न-आर्ति-हर-उपसादितः ।

तत् पालय एनम् कुरु हस्त-पङ्कजम्

शिरसि अमुष्य अखिल-कल्मष-अपहम् ॥ ३१ ॥


श्री-शुकः उवाच –

इति भूम्या अर्थितः वाग्भिः भगवान् भक्ति-नम्रया ।

दत्वा आभयम् भौम-गृहम् प्राविशत् सकल-ऋद्धिमत् ॥ ३२ ॥


तत्र राजन्य-कन्यानाम् षट्-सहस्र-अधिक-आयुतम् ।

भौम-आहृतानाम् विक्रम्य राजभ्यः ददृशे हरिः ॥ ३३ ॥


तम् प्रविष्टम् स्त्रियः वीक्ष्य नर-वीरम् विमोहिताः ।

मनसा वव्रिरे अभीष्टम् पतिम् दैव-उपसादितम् ॥ ३४ ॥


भूयात् पतिः अयम् महि्यम् धाता तत् अनुमोदताम् ।

इति सर्वाः पृथक् कृष्णे भावेन हृदयम् दधुः ॥ ३५ ॥


ताः प्राहिणोत् द्वारवतीम् सुमृष्ट-विरजः-अम्बराः ।

नर-यानैः महा-कोशान् रथ-अश्वान् द्रविणम् महत् ॥ ३६ ॥


ऐरावत-कुल-इभान् च चतुर्-दन्तान् तरस्विनः ।

पाण्डुरान् च चतुः-षष्टिम् प्रेरयामास केशवः ॥ ३७ ॥


गत्वा सुर-इन्द्र-भवनम् दत्त्वा आदित्येभ्यः च कुण्डले ।

पूजितः त्रिदश-इन्द्रेण स-इन्द्र्यया च स-प्रियः ॥ ३८ ॥


चोदितः भार्यया उत्पाट्य पारीजातम् गरुत्मति ।

आरोप्य स-इन्द्रान् विबुधान् निर्जित्य उपानयत् पुरम् ॥ ३९ ॥


स्थापितः सत्यभामया गृह-उद्यान-उपशोभनः ।

अन्वगुः भ्रमराः स्वर्गात् तत्-गन्ध-आसव-लम्पटाः ॥ ४० ॥


ययाच आनम्य किरीट-कोटिभिः

पादौ स्पृशन् अच्युतम् अर्थ-साधनम् ।

सिद्ध-अर्थः एतेन विगृह्यते महा-

नः सुराणाम् च तमः धिक् आढ्यताम् ॥ ४१ ॥


अथ मुहूर्ते एकस्मिन् नाना-आगारेषु ताः स्त्रियः ।

यथा उपयेमे भगवन् तावत्-रूप-धरः अव्ययः ॥ ४२ ॥


गृहेषु तासाम् अनपाय्य अतर्क-कृत्

निरस्त-साम्य-अतिशयेषु अवस्थितः ।

रेमे रमाभिः निज-काम-सम्प्लुतः

यथा इतरः गार्हकम् एधिकान् चरन् ॥ ४३ ॥


इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः

ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम् ।

भेजुः मुदा अविरत-मेधित-यानु-राग-

हास-आवलोकन-वसङ्गम-जल्प-लज्जाः ॥ ४४ ॥


प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच-

ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।

केश-प्रसार-शयन-स्नपन-उपहार्यैः

दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ ४५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥